WEBSITES

Saturday, February 20, 2021

श्री नृसिंह अष्टकम ||


श्रीमदकलङ्कपरिपूर्णशशिकोटि- श्रीधर मनोहरसटापटलकान्त ।

पालय कृपालय भवाम्बुधिनिमग्नं दैत्यवरकाल नरसिंह नरसिंह ॥ १ ॥


पादकमलावनतपातकिजनानां पातकदवानलपतत्रि वरकेतो ।

भावनपरायण भवार्तिहरया मां पाहि कृपयैव नरसिंह नरसिंह ॥ २ ॥


तुङ्गनखपङ्क्तिदलितासुरवरासृ- क्पङ्कनवकुङ्‌कुमविपङ्किलमहोरः ।

पण्डितनिधान कमलालय नमस्ते पङ्कजनिषण्ण नरसिंह नरसिंह ॥ ३ ॥


मौलिषु विभूषणमिवामरवराणां योगिहृदयेषु च शिरस्सु निगमानाम् ।

राजदरविन्दरुचिरं पदयुगं ते धेहि मम मूर्ध्नि नरसिंह नरसिंह ॥ ४ ॥


वारिजविलोचन मदन्तिमदशायां क्लेशविवशीकृतसमस्तकरणायाम् ।

एहि रमया सह शरण्य विहगानां नाथमधिरुह्य नरसिंह नरसिंह ॥ ५ ॥


हाटककिरीटवरहारवनमाला- ताररशनामकरकुण्डलमणीन्द्रैः ।

भूषितमशेषनिलयं तव वपुर्मे चेतसि चकास्तु नरसिंह नरसिंह ॥ ६ ॥


इन्दुरविपावकविलोचन रमाया मन्दिर महाभुजलसद्वररथाङ्ग ।

सुन्दर चिराय रमतां त्वयि मनो मे नन्दितसुरेश नरसिंह नरसिंह ॥ ७ ॥


माधव मुकुन्द मधुसूदन मुरारे वामन नृसिंह शरणं भव नतानाम् ।

कामद घृणिन् निखिलकारण नयेयं कालममरेश नरसिंह नरसिंह ॥ ८ ॥


अष्टकमिदं सकलपातकभयघ्नं कामदमशेषदुरितामयरिपुघ्नम् ।

यः पठति सन्ततमशेषनिलयं ते गच्छति पदं स नरसिंह नरसिंह ॥ ९ ॥

No comments:

Post a Comment