WEBSITES

Wednesday, March 17, 2021

 श्री वेंकटेश्वर वज्र कवच स्तोत्र || 

मार्कण्डेय उवाच
नारायणं परब्रह्म सर्वकारण कारकं
प्रपद्ये वेङ्कटेशाख्यां तदेव कवचं मम ॥

सहस्रशीर्षा पुरुषो वेङ्कटेशश्शिरो वतु
प्राणेशः प्राणनिलयः प्राणाण् रक्षतु मे हरिः ॥

आकाशराट् सुतानाथ आत्मानं मे सदावतु
देवदेवोत्तमोपायाद्देहं मे वेङ्कटेश्वरः ॥

सर्वत्र सर्वकालेषु मङ्गाम्बाजानिश्वरः
पालयेन्मां सदा कर्मसाफल्यं नः प्रयच्छतु ॥

य एतद्वज्रकवचमभेद्यं वेङ्कटेशितुः 
सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः ॥

No comments:

Post a Comment