Showing posts with label माता गंगा देवी. Show all posts
Showing posts with label माता गंगा देवी. Show all posts

Saturday, April 10, 2021

माँ गंगा अष्टोत्तर

ॐ गङ्गायै नमः।
ॐ त्रिपथगादेव्यै नमः।
ॐ शम्भुमौलिविहारिण्यै नमः।
ॐ जाह्नव्यै नमः।
ॐ पापहन्त्र्यै नमः।
ॐ महापातकनाशिन्यै नमः।
ॐ पतितोद्धारिण्यै नमः।
ॐ स्रोतस्वत्यै नमः।
ॐ परमवेगिन्यै नमः।
ॐ विष्णुपादाब्जसम्भूतायै नमः।
ॐ विष्णुदेहकृतालयायै नमः।
ॐ स्वर्गाब्धिनिलयायै नमः।
ॐ साध्व्यै नमः।
ॐ स्वर्णद्यै नमः।
ॐ सुरनिम्नगायै नमः।
ॐ मन्दाकिन्यै नमः।
ॐ महावेगायै नमः।
ॐ स्वर्णशृङ्गप्रभेदिन्यै नमः।
ॐ देवपूज्यतमायै नमः।
ॐ दिव्यायै नमः।
ॐ दिव्यस्थाननिवासिन्यै नमः।
ॐ सुचारुनीररुचिरायै नमः।
ॐ महापर्वतभेदिन्यै नमः।
ॐ भागीरथ्यै नमः।
ॐ भगवत्यै नमः।
ॐ महामोक्षप्रदायिन्यै नमः।

ॐ सिन्धुसङ्गगतायै नमः।
ॐ शुद्धायै नमः।
ॐ रसातलनिवासिन्यै नमः।
ॐ महाभोगायै नमः।
ॐ भोगवत्यै नमः।
ॐ सुभगानन्ददायिन्यै नमः।
ॐ महापापहरायै नमः।
ॐ पुण्यायै नमः।
ॐ परमाह्लाददायिन्यै नमः।
ॐ पार्वत्यै नमः।
ॐ शिवपत्न्यै नमः।
ॐ शिवशीर्षगतालयायै नमः।
ॐ शम्भोर्जटामध्यगतायै नमः।
ॐ निर्मलायै नमः।
ॐ निर्मलाननायै नमः।
ॐ महाकलुषहन्त्र्यै नमः।
ॐ जह्नुपुत्र्यै नमः।
ॐ जगत्प्रियायै नमः।
ॐ त्रैलोक्यपावन्यै नमः।
ॐ पूर्णायै नमः।
ॐ पूर्णब्रह्मस्वरूपिण्यै नमः।
ॐ जगत्पूज्यतमायै नमः।
ॐ चारुरूपिण्यै नमः।
ॐ जगदम्बिकायै नमः।
ॐ लोकानुग्रहकर्त्र्यै नमः।
ॐ सर्वलोकदयापरायै नमः।
ॐ याम्यभीतिहरायै नमः।
ॐ तारायै नमः।
ॐ पारायै नमः।
ॐ संसारतारिण्यै नमः।
ॐ ब्रह्माण्डभेदिन्यै नमः।
ॐ ब्रह्मकमण्डलुकृतालयायै नमः।
ॐ सौभाग्यदायिन्यै नमः।
ॐ पुंसां निर्वाणपददायिन्यै नमः।
ॐ अचिन्त्यचरितायै नमः।
ॐ चारुरुचिरातिमनोहरायै नमः।
ॐ मर्त्यस्थायै नमः।
ॐ मृत्युभयहायै नमः।
ॐ स्वर्गमोक्षप्रदायिन्यै नमः।
ॐ पापापहारिण्यै नमः।
ॐ दूरचारिण्यै नमः।
ॐ वीचिधारिण्यै नमः।
ॐ कारुण्यपूर्णायै नमः।
ॐ करुणामय्यै नमः।
ॐ दुरितनाशिन्यै नमः।
ॐ गिरिराजसुतायै नमः।
ॐ गौरीभगिन्यै नमः।
ॐ गिरिशप्रियायै नमः।
ॐ मेनकागर्भसम्भूतायै नमः।
ॐ मैनाकभगिनीप्रियायै नमः।
ॐ आद्यायै नमः।
ॐ त्रिलोकजनन्यै नमः।
ॐ त्रैलोक्यपरिपालिन्यै नमः।
ॐ तीर्थश्रेष्ठतमायै नमः।
ॐ श्रेष्ठायै नमः।
ॐ सर्वतीर्थमय्यै नमः।
ॐ शुभायै नमः।
ॐ चतुर्वेदमय्यै नमः।
ॐ सर्वायै नमः।
ॐ पितृसन्तृप्तिदायिन्यै नमः।
ॐ शिवदायै नमः।
ॐ शिवसायुज्यदायिन्यै नमः।
ॐ शिववल्लभायै नमः।
ॐ तेजस्विन्यै नमः।
ॐ त्रिनयनायै नमः।
ॐ त्रिलोचनमनोरमायै नमः।
ॐ सप्तधारायै नमः।
ॐ शतमुख्यै नमः।
ॐ सगरान्वयतारिण्यै नमः।
ॐ मुनिसेव्यायै नमः।
ॐ मुनिसुतायै नमः।
ॐ जह्नुजानुप्रभेदिन्यै नमः।
ॐ मकरस्थायै नमः।
ॐ सर्वगतायै नमः।
ॐ सर्वाशुभनिवारिण्यै नमः।
ॐ सुदृश्यायै नमः।
ॐ चाक्षुषीतृप्तिदायिन्यै नमः।
ॐ मकरालयायै नमः।
ॐ सदानन्दमय्यै नमः।
ॐ नित्यानन्ददायै नमः।
ॐ नगपूजितायै नमः।
ॐ सर्वदेवाधिदेवैः परिपूज्यपदाम्बुजायै नमः।
 आरती श्री गंगा मैया


हर हर गंगे, जय माँ गंगे,
हर हर गंगे, जय माँ गंगे ॥
ॐ जय गंगे माता, श्री जय गंगे माता ।

जो नर तुमको ध्याता, मनवांछित फल पाता ॥
चंद्र सी जोत तुम्हारी जल निर्मल आता ।
शरण पडें जो तेरी सो नर तर जाता ॥
॥ ॐ जय गंगे माता…॥

पुत्र सगर के तारे सब जग को ज्ञाता ।
कृपा दृष्टि तुम्हारी त्रिभुवन सुख दाता॥
॥ ॐ जय गंगे माता…॥

एक ही बार जो तेरी शारणागति आता ।
यम की त्रास मिटा कर परमगति पाता॥
॥ ॐ जय गंगे माता…॥

आरती मात तुम्हारी जो जन नित्य गाता ।
दास वही सहज में मुक्त्ति को पाता॥
॥ ॐ जय गंगे माता…॥

ॐ जय गंगे माता श्री जय गंगे माता ।
जो नर तुमको ध्याता मनवांछित फल पाता॥
ॐ जय गंगे माता, श्री जय गंगे माता ।

Thursday, February 18, 2021

श्री गंगा अष्टकम || 


मातः शैलसुतासपत्नि वसुधाशृङ्गारहारावलि स्वर्गारोहणवैजयन्ति भवतीं भागीरथि प्रार्थये ।

त्वत्तीरे वसतः त्वदंबु पिबतस्त्वद्वीचिषु प्रेङ्खत-स्त्वन्नाम स्मरतस्त्वदर्पितदृशः स्यान्मे शरीरव्ययः॥१॥


त्वत्तीरे तरुकॊटरान्तरगतो गङ्गे विहङ्गो वरं त्वन्नीरे नरकान्तकारिणि वरं मत्स्योऽथवा कच्छपः।

नैवान्यत्र मदान्धसिन्धुरघटासङ्घट्टघण्टारण-त्कारत्रस्तसमस्तवैरिवनितालब्धस्तुतिर्भूपतिः ॥२॥


उक्षा पक्षी तुरग उरगः कोऽपि वा वारणो वा वारीणः स्यां जननमरणक्लेशदुःखासहिष्णु: ।

न त्वन्यत्र प्रविरलरणत्कङ्कणक्वाणमिश्रं वारस्त्रीभिश्चमरमरुता वीजितो भूमिपालः ॥३॥


काकैर्निष्कुषितं श्वभिः कवलितं गोमायुभिर्लुण्ठितं स्रोतोभिश्चलितं तटांबुलुलितं वीचीभिरान्दोलितम्।

दिव्यस्त्रीकरचारुचामरमरुत्संवीज्यमानः कदा द्रक्ष्येऽहं परमेश्वरि त्रिपथगे भागीरथि स्वं वपुः ॥४॥


अभिनवबिसवल्ली पादपद्मस्य विष्णो-र्मदनमथन्मौलेर्मालतीपुष्पमाला ।

जयति जयपताका काप्यसौ मोक्षलक्ष्म्याः क्षपितकलिकलङ्का जाह्नवी नः पुनातु ॥५॥


एतत्तालतमालसालसरलव्यालोलवल्लीलता-च्छन्नं सूर्यकरप्रतापरहितं शंखेन्दुकुन्दोज्ज्वलम्।

गन्धर्वामरसिद्धकिन्नरवधूत्तुङ्गस्तनास्फालितं स्नानाय प्रतिवासरं भवतु मे गाङ्गं जलं निर्मलम्॥६॥


गाङ्गं वारि मनोहारि मुरारिचरणच्युतम्।

त्रिपुरारिशिरश्चारी पापहारि पुनातु माम् ॥७॥


पापहारि दुरितारि तरङ्गधारी शैलप्रचारि गिरिराजगुहाविदारि।

झङ्कारकारि हरिपादरजोऽपहारि गाङ्गं पुनातु सततं शुभकारि वारि ॥८॥


गङ्गाष्टकम् पठति यः प्रयतः प्रभाते वाल्मीकिना विरचितं शुभदं मनुष्यः।

प्रक्षाल्य गात्रकलिकल्मषपङ्कमाशु मोक्षं लभेत्पतति नैव नरो भवाब्धौ ॥९॥
श्री गंगा महिमा स्तोत्र || 


महिम्नस्तेऽपारं सकलसुखसारं त्रिपथगे प्रतर्त्तुं कूपारं जगति मतिमान् पारयति कः ।

तथापि त्वत्पादाम्बुजतरणिरज्ञोऽपि भवितुं समीहे तद्विप्रुट्क्षपितभवपङ्कः सुरधुनि ॥ १ ॥


समुद्भूता भूम्नश्चरणवनजातान्मधुरिपो-स्ततो धातुः पात्रे गदितगुणगात्रे समुषिता ।

पुनः शम्भोश्चूडासितकुसुममालायिततनुः सुरान्त्रीन्सत्कर्त्तुं किल जगति जागर्षि जननि ॥ २ ॥


तवैश्वर्यं स्वर्योषिदमलशिरोगुच्छविगल-त्प्रसूनव्यालोलन्मधुकरसमुद्गीतचरिते ।

न चेशो भूतेशः पुनरथ न शेषो न च गुरुः परिज्ञातुं वक्तुं जननि मम धृष्टा मुखरता ॥ ३ ॥


अनङ्गारेरङ्गे कृतरमणरङ्गे शुचितया समाभग्नासङ्गे विहितभवभङ्गे तु भजताम् ।

विनश्यद्व्यासङ्गे प्रणतजनतायाः स्वपयसा तरङ्गप्रोत्तुङ्गे ननु जगति गङ्गे विजयसे ॥ ४ ॥


हरन्ती सन्तापं त्रिविधमथ पापं जलजुषां दिशन्ती सन्देशं क्षपितभवलेशं सुकृतिनाम् ।

तुदन्ती नैराश्यं कलुषमथ दास्यं प्रददती विलोलत्कल्लोले विबुधवरवीथिर्विजयसे ॥ ५ ॥


ददाना वात्सल्यं शमितशमशल्यं स्वपयसा दधाना तारुण्यं तरुणकरुणापूर्णहृदया ।

वसाना कौशेयं शशिनिभममेयं भगवति पुनाना त्रैलोक्यं जयसि ननु भागीरथि शुभे ॥ ६ ॥


निराकारं केचित्प्रणिदधत आवर्जितधियो नराकारं चान्ये प्रणतिरतिधन्ये स्वमनसि ।

त्रिभिस्तापैस्तप्ताः पुनरथ परं केचन वयं सदा नीराकारं सुरनदि भजामस्तव पदम् ॥ ७ ॥


न जाने वागीशं नहि किल शचीशं न च गुहम् न जाने गौरीशं नहि किल गणेशं नहि गुरुम् ।

न चैवान्यान्देवान् प्रियविविधसेवान् त्रिपथगे सदा रामाभिन्नं ननु जननि जाने तव जलम् ॥ ८ ॥


पचत्कायक्लेशं विविधविधकर्मभ्रममलं हरन्मायालेशं रविसुतनिदेशं विफलयन् ।

द्रुतं विघ्नद्विघ्नान् कुटिलकलिनिघ्नान् विकलय-न्महामोहं गङ्गे जयति भुवि ते जाह्नवि जलम् ॥ ९ ॥


उदन्वन्नैराश्यं दमयितुमथाविष्कृततनो-र्मनोर्वंशं हंसार्पितविमलकीर्तिं प्रथयितुम् ।

सुधासारं सारस्वतहतविकारं श्रुतमयं तवापूर्वं पूर्वं प्रणिगदति गङ्गे जलमलम् ॥ १० ॥


किमेतत्सौन्दर्यं धृतवपुरथो बालशशिनः किमाहो माधुर्यं जनकतनयाप्रेममहितम् ।

द्रुतब्रह्मीभूतं परममथ पूतं वसुमती-विराजत्पीयूषं शुचि वहति गाङ्गं जलमहो ॥ ११ ॥


मुनीन्द्रा योगीन्द्रा यमनियमनिष्ठाः श्रुतिपरा विरक्ताः संन्यस्ताः सततमनुरक्ता दृढधियः ।

वसन्तस्त्वत्तीरे मलयजसमीरे सुमनसो लभन्ते तत्तत्त्वं सुविमलपरब्रह्ममहितम् ॥ १२ ॥


विरक्ता वैराग्यं परममथ भाग्यं सुकृतिनः सुसन्तस्सन्तोषं विमलगुणपोषं मुनिगणा ।

नृपा राज्यं प्राज्यं गृहिण इतरे भूरिविभवं लभन्ते वै त्वत्तस्त्वमसि सुरधेनुस्तनुभृताम् ॥ १३ ॥


गतैश्वर्यान् दीनान् कपिलमुनिकोपाग्निशलभान् निमग्नाञ्छोकाब्धौ सगरनृपतेर्वीक्ष्य तनयान् ।

कृपासिन्धुर्भागीरथविनतभावोग्रतपसा द्रुतायाता गङ्गा ननु सकरुणं मातृहृदयम् ॥ १४ ॥


मुरारेः पादाब्जस्स्रुतपरममारन्दममलं द्रुतं व्योम्नो वेगान्मधुमथनपादोदकमिति ।

दधौ मूर्ध्ना शर्वो विलुलितजटाजूटचषके ततो लोके ख्यातस्त्रिदशनदि गङ्गाधर इति ॥ १५ ॥


पतन्ती पातित्यं क्षपयितुमहो गाञ्च गगना-द्गता गङ्गेत्येवं जननि भुवने ख्यातिमगमः ।

ततः पीत्वोन्मुक्ता परमयमिना जह्नुमुनिना अतस्त्वां वै प्राहुर्विबुधनिकरा जह्नुतनयाम् ॥ १६ ॥


सुधाधारा धाराहतभवविकारा प्रतिपृष-द्वहन्ती राजन्ती रजतसुममालेव धरणेः ।

सुवत्से श्रीवत्साम्बुजचरणसौन्दर्यसुषमा जयत्येषा गङ्गा तरलिततरङ्गा त्रिपथगा ॥ १७ ॥


क्वचिद्विष्णोः पार्श्वे कृतकमनकन्यावपुरहो क्वचिद्धातुः पात्रे गुणगरिमसर्वस्वममलम् ।

क्वचित्कान्ता शान्ता पुरहरजटाजूटलसिता विधत्से सौभाग्यं त्रिषु त्रिविधरूपा त्रिपथगे ॥ १८ ॥


द्रवन्ती त्वं वेगादभिजलनिधिं गोमुखतला-त्सहस्रैर्धाराणां निहतशतशैलेन्द्रशिखरा ।

समुद्धर्तुं मातर्निरयपतितान् राजतनयान् स्ववत्सान् वात्सल्यात् किल गवसि गौरीसहचरी ॥ १९ ॥

प्रयाता शैलेन्द्राद्विमलितहरिद्वारधरणी प्रयागे सद्रागे समगतमुदा सूर्यसुतया ।

ततोऽकार्षीः काशीं सुकृतसुखराशिं स्वपयसा महीयांसं मातस्तव च महिमा कं न कुरुते ॥ २० ॥


महापापास्तापापहतमनसो मन्दमतयः क्षपाटा वाचाटाः पतितपतिता मोहमलिनाः ।

त्वयि स्नात्वा शुद्धा विमलवपुषो विष्णुसदनं व्रजन्त्येतेऽगम्योऽमरनदि तव स्नानमहिमा ॥ २१ ॥


रटन्तः साम्रेडं हरहरहरेतिध्वनिमहो कटन्तः कारुण्यं क्षपितनिजभक्ताघनिकराः ।

वटन्तो वात्सल्यं तुलितरघुनाथैकयशसो जयन्त्येते गाङ्गा दिशि दिशि तरङ्गास्तरलिताः ॥ २२ ॥


वसन्गङ्गातीरे कृततृणकुटीरे प्रतिदिनं निमज्जंस्त्वत्तीरे शिशिरितसमीरेऽमृतजलम् ।

मुदाचामन्सीतापतिपदसरोजार्चनपरो यमाद्रामानन्दः कथमुपरि भीतो भुवि भवेत् ॥ २३ ॥


तवाद्भिः स्यां विष्णुर्नहि नहि तदा स्यान्मम पदे अथो शम्भुश्चेन्नो शिवसमतया स्यामहमघी ।

अतो याचे भागीरथि पुनरहं देवि भवतीं वसन् त्वत्तीरेषु स्वमनसि भजेयं रघुपतिम् ॥ २४ ॥


कदा गङ्गातीरे मलयजसमीरे किल वसन् स्मरन्सीतारामौ पुलकिततनुः साश्रुनयनः ।

अये मातर्गङ्गे रघुपतिपदाम्भोरुहरतिं प्रदेहीत्यायाचे ननु निमिषमेष्यामि ससुखम् ॥ २५ ॥


विशेष्यं सोद्देश्यं यदनघमनन्तं चिदचिदो विशिष्टं यत्ताभ्यां श्रुतिगणगिरा गीतचरितम् ।

यदद्वैतं ब्रह्म प्रथितमथ यद्व्यापकमिदं सदेतत्तत्तत्त्वं त्वमसि किल गङ्गे भगवति ॥ २६ ॥


त्वमग्निस्त्वं वायुस्त्वमसि रविचन्द्रौ त्वमसि भू-स्त्वमापस्त्वं व्योम त्वमसि शुचिबुद्धिस्त्वमु मनः ।

त्वमात्मा त्वं चित्तं त्वमसि मम गौस्त्वं किल पर-स्त्वमेतत्सर्वं मे भगवति सतत्त्वं जगदहो ॥ २७ ॥


विलोलत्कल्लोलां हृतकुमतिदोलां शुचिपयः पवित्रत्पातालां क्षपितजनकालां कलजलाम् ।

द्रवब्रह्मीभूतां सगरसुतसंसारतरणीं नमामि त्वां गङ्गां तरलिततरङ्गां स्वजननीम् ॥ २८ ॥


नमो धर्मिष्ठायै निरुपममहिम्नेऽस्तु च नमो नमो नर्मिष्ठायै नरपतिनरिम्णेऽस्तु च नमः ।

नमो नेदिष्ठायै लघुमतिलघिम्नेऽस्तु च नमो नमस्ते गङ्गायै गिरिगतिगरिम्णेऽस्तु च नमः ॥ २९ ॥


विबुधसरिते नित्यख्यात्यै नमोऽस्तु नमोऽस्तु ते विमलरजसे वेदस्तुत्यै नमोऽस्तु नमोऽस्तु ते ।

धवलमहसे विद्याभूत्यै नमोऽस्तु नमोऽस्तु ते अमृतपयसे गङ्गादेव्यै नमोऽस्तु नमोऽस्तु ते ॥ ३० ॥


क्व च कलिमललीना पापपीना मतिर्मे क्व च परमपवित्रं जाह्नवीसच्चरित्रम् ।

त्वदनु चरितभक्तिः प्रैरयन्मां हि रातुं जननि तव पदाब्जे पद्यपुष्पोपहारम् ॥ ३१ ॥


हरिचरणसरोजस्यन्दभूताञ्च भूयः श्रितविधिजलपात्रां चन्द्रचूडार्यमौलिम् ।

नृपरतिरथ भूमौ दर्शमायास गङ्गा-मनुयुगमिह यत्नो भाति भागीरथोऽयम् ॥ ३२ ॥


वन्दे भगीरथं भूपं भग्नसंसारकूपकम् ।

यश्चानिनाय गङ्गाख्यं वसुधायां सुधारसम् ॥ ३३ ॥


गङ्गास्नानात्परं स्नानं नास्ति नास्तीह भूतले ।

नास्ति कापि स्तुतिर्गङ्गामहिम्नस्तोत्रतः परा ॥ ३४ ॥


यः पठेच्छृणुयाद्वापि गङ्गाग्रे श्रद्धयान्वितः ।

सर्वपापैर्विनिर्मुक्तो व्रजेद्विष्णोः परं पदम् ॥ ३५ ॥


षडर्णान्न परो मन्त्रो महिम्नो न परा स्तुतिः ।

श्रीरामान्न परो देवो गङ्गाया न परा नदी ॥ ३६ ॥


श्रीरामचन्द्रगुणगायकरामभद्रा- चार्येण देवगिरि गीतमनुस्मरेद्यः ।

स्तोत्रं सुभक्तिकलितस्तनुतां प्रसन्ना गङ्गामहिम्नमिति तस्य सुखानि गङ्गा ॥ ३७ ॥

गंगा दशहरा स्तोत्र


ॐ नमः शिवायै गंगायै, शिवदायै नमो नमः। नमस्ते विष्णु-रुपिण्यै, ब्रह्म-मूर्त्यै नमोऽस्तु ते।।1।।

नमस्ते रुद्र-रुपिण्यै, शांकर्यै ते नमो नमः। सर्व-देव-स्वरुपिण्यै, नमो भेषज-मूर्त्तये।।2।।

सर्वस्य सर्व-व्याधीनां, भिषक्-श्रेष्ठ्यै नमोऽस्तु ते। स्थास्नु-जंगम-सम्भूत-विष-हन्त्र्यै नमोऽस्तु ते।।3।।

संसार-विष-नाशिन्यै, जीवानायै नमोऽस्तु ते। ताप-त्रितय-संहन्त्र्यै, प्राणश्यै ते नमो नमः।।4।।

शन्ति-सन्तान-कारिण्यै, नमस्ते शुद्ध-मूर्त्तये। सर्व-संशुद्धि-कारिण्यै, नमः पापारि-मूर्त्तये।।5।।

भुक्ति-मुक्ति-प्रदायिन्यै, भद्रदायै नमो नमः। भोगोपभोग-दायिन्यै, भोग-वत्यै नमोऽस्तु ते।।6।।

मन्दाकिन्यै नमस्तेऽस्तु, स्वर्गदायै नमो नमः। नमस्त्रैलोक्य-भूषायै, त्रि-पथायै नमो नमः।।7।।

नमस्त्रि-शुक्ल-संस्थायै, क्षमा-वत्यै नमो नमः। त्रि-हुताशन-संस्थायै, तेजो-वत्यै नमो नमः।।8।।

नन्दायै लिंग-धारिण्यै, सुधा-धारात्मने नमः। नमस्ते विश्व-मुख्यायै, रेवत्यै ते नमो नमः।।9।।

बृहत्यै ते नमस्तेऽस्तु, लोक-धात्र्यै नमोऽस्तु ते। नमस्ते विश्व-मित्रायै, नन्दिन्यै ते नमो नमः।।10।।

पृथ्व्यै शिवामृतायै च, सु-वृषायै नमो नमः। परापर-शताढ्यै, तारायै ते नमो नमः।।11।।

पाश-जाल-निकृन्तिन्यै, अभिन्नायै नमोऽस्तु ते। शान्तायै च वरिष्ठायै, वरदायै नमो नमः।।12।।

उग्रायै सुख-जग्ध्यै च, सञ्जीविन्यै नमोऽस्तु ते। ब्रह्मिष्ठायै-ब्रह्मदायै, दुरितघ्न्यै नमो नमः।।13।।

प्रणतार्ति-प्रभञजिन्यै, जग्मात्रे नमोऽस्तु ते। सर्वापत्-प्रति-पक्षायै, मंगलायै नमो नमः।।14।।

शरणागत-दीनार्त-परित्राण-परायणे। सर्वस्यार्ति-हरे देवि! नारायणि ! नमोऽस्तु ते।।15।।

निर्लेपायै दुर्ग-हन्त्र्यै, सक्षायै ते नमो नमः। परापर-परायै च, गंगे निर्वाण-दायिनि।।16।।

गंगे ममाऽग्रतो भूया, गंगे मे तिष्ठ पृष्ठतः। गंगे मे पार्श्वयोरेधि, गंगे त्वय्यस्तु मे स्थितिः।।18।।

आदौ त्वमन्ते मध्ये च, सर्व त्वं गांगते शिवे! त्वमेव मूल-प्रकृतिस्त्वं पुमान् पर एव हि।।19।।

गंगे त्वं परमात्मा च, शिवस्तुभ्यं नमः शिवे।।20।।

।।फल-श्रुति।।

य इदं पठते स्तोत्रं, श्रृणुयाच्छ्रद्धयाऽपि यः। दशधा मुच्यते पापैः, काय-वाक्-चित्त-सम्भवैः।।21।।

रोगस्थो रोगतो मुच्येद्, विपद्भ्यश्च विपद्-युतः। मुच्यते बन्धनाद् बद्धो, भीतो भीतेः प्रमुच्यते।।22।।
श्री गंगा चालीसा


॥ दोहा॥

जय जय जय जग पावनी,
जयति देवसरि गंग।

जय शिव जटा निवासिनी,
अनुपम तुंग तरंग॥

॥ चौपाई ॥

जय जय जननी हरण अघ खानी।
आनंद करनि गंग महारानी॥

जय भगीरथी सुरसरि माता।
कलिमल मूल दलनि विख्याता॥

जय जय जहानु सुता अघ हनानी।
भीष्म की माता जगा जननी॥

धवल कमल दल मम तनु साजे।
लखि शत शरद चंद्र छवि लाजे॥

वाहन मकर विमल शुचि सोहै।
अमिय कलश कर लखि मन मोहै॥

जड़ित रत्न कंचन आभूषण।
हिय मणि हर, हरणितम दूषण॥

जग पावनि त्रय ताप नसावनि।
तरल तरंग तंग मन भावनि॥

जो गणपति अति पूज्य प्रधाना।
तिहूं ते प्रथम गंगा स्नाना॥

ब्रह्म कमंडल वासिनी देवी।
श्री प्रभु पद पंकज सुख सेवि॥

साठि सहस्त्र सागर सुत तारयो।
गंगा सागर तीरथ धरयो॥

अगम तरंग उठ्यो मन भावन।
लखि तीरथ हरिद्वार सुहावन॥

तीरथ राज प्रयाग अक्षैवट।
धरयौ मातु पुनि काशी करवट॥

धनि धनि सुरसरि स्वर्ग की सीढी।
तारणि अमित पितु पद पिढी॥

भागीरथ तप कियो अपारा।
दियो ब्रह्म तव सुरसरि धारा॥

जब जग जननी चल्यो हहराई।
शम्भु जाटा महं रह्यो समाई॥

वर्ष पर्यंत गंग महारानी।
रहीं शम्भू के जटा भुलानी॥

पुनि भागीरथी शंभुहिं ध्यायो।
तब इक बूंद जटा से पायो॥

ताते मातु भइ त्रय धारा।
मृत्यु लोक, नाभ, अरु पातारा॥

गईं पाताल प्रभावति नामा।
मन्दाकिनी गई गगन ललामा॥

मृत्यु लोक जाह्नवी सुहावनि।
कलिमल हरणि अगम जग पावनि॥

धनि मइया तब महिमा भारी।
धर्मं धुरी कलि कलुष कुठारी॥

मातु प्रभवति धनि मंदाकिनी।
धनि सुरसरित सकल भयनासिनी॥

पान करत निर्मल गंगा जल।
पावत मन इच्छित अनंत फल॥

पूर्व जन्म पुण्य जब जागत।
तबहीं ध्यान गंगा महं लागत॥

जई पगु सुरसरी हेतु उठावही।
तई जगि अश्वमेघ फल पावहि॥

महा पतित जिन काहू न तारे।
तिन तारे इक नाम तिहारे॥

शत योजनहू से जो ध्यावहिं।
निशचाई विष्णु लोक पद पावहिं॥

नाम भजत अगणित अघ नाशै।
विमल ज्ञान बल बुद्धि प्रकाशै॥

जिमी धन मूल धर्मं अरु दाना।
धर्मं मूल गंगाजल पाना॥

तब गुण गुणन करत दुख भाजत।
गृह गृह सम्पति सुमति विराजत॥

गंगाहि नेम सहित नित ध्यावत।
दुर्जनहुँ सज्जन पद पावत॥

बुद्दिहिन विद्या बल पावै।
रोगी रोग मुक्त ह्वै जावै॥

गंगा गंगा जो नर कहहीं।
भूखे नंगे कबहु न रहहि॥

निकसत ही मुख गंगा माई।
श्रवण दाबी यम चलहिं पराई॥

महाँ अधिन अधमन कहँ तारें।
भए नर्क के बंद किवारें॥

जो नर जपै गंग शत नामा।
सकल सिद्धि पूरण ह्वै कामा॥

सब सुख भोग परम पद पावहिं।
आवागमन रहित ह्वै जावहीं॥

धनि मइया सुरसरि सुख दैनी।
धनि धनि तीरथ राज त्रिवेणी॥

कंकरा ग्राम ऋषि दुर्वासा।
सुन्दरदास गंगा कर दासा॥

जो यह पढ़े गंगा चालीसा।
मिली भक्ति अविरल वागीसा॥

॥ दोहा ॥

नित नव सुख सम्पति लहैं।
धरें गंगा का ध्यान।
अंत समय सुरपुर बसै।
सादर बैठी विमान॥

संवत भुज नभ दिशि ।
राम जन्म दिन चैत्र।
पूरण चालीसा कियो।
हरी भक्तन हित नैत्र॥

॥ इति श्री गंगा चालीसा ॥