Showing posts with label माता त्रिपुर सुन्दरी देवी. Show all posts
Showing posts with label माता त्रिपुर सुन्दरी देवी. Show all posts

Wednesday, April 28, 2021

श्री त्रिपुर भैरवी अष्टोत्तर

श्री भैरव्यै नमः ।
श्री भैरवाराध्यायै नमः ।
श्री भूतिदायै नमः ।
श्री भूतभावनायै नमः ।
श्री कार्यायै नमः ।
श्री ब्राह्म्यै नमः ।
श्री कामधेनवे नमः ।
श्री सर्वसम्पत्प्रदायिन्यै नमः ।
श्री त्रैलोक्यवन्दितदेव्यै नमः ।
श्री महिषासुरमर्दिन्यै नमः । 
श्री मोहिन्यै नमः ।
श्री मालतीमालायै नमः ।
श्री महापातकनाशिन्यै नमः ।
श्री क्रोधिन्यै नमः ।
श्री क्रिधनिलयायै नमः ।
श्री क्रोधरक्तेक्षणायै नमः ।
श्री कुह्वे नमः ।
श्री त्रिपुरायै नमः ।
श्री त्रिपुराधारायै नमः ।
श्री त्रिनेत्रायै नमः । 
श्री भीमभैरव्यै नमः ।
श्री देवक्यै नमः ।
श्री देवमात्रे नमः ।
श्री देवदुष्टविनाशिन्यै नमः ।
श्री दामोदरप्रियायै नमः ।
श्री दीर्घायै नमः ।
श्री दुर्गायै नमः ।
श्री दुर्गतिनाशिन्यै नमः ।
श्री लम्बोदर्यै नमः ।
श्री लम्बकर्णायै नमः । 
श्री प्रलम्बितपयोधरायै नमः ।
श्री प्रत्यङ्गिरायै नमः ।
श्री प्रतिपदायै नमः ।
श्री प्रणतक्लेशनाशिन्यै नमः ।
श्री प्रभावत्यै नमः ।
श्री गुणवत्यै नमः ।
श्री गणमात्रे नमः ।
श्री गुह्येश्वर्यै नमः ।
श्री क्षीराब्धितनयायै नमः ।
श्री क्षेम्यायै नमः । 
श्री जगत्त्राणविधायिन्यै नमः ।
श्री महामार्यै नमः ।
श्री महामोहायै नमः ।
श्री महाक्रोधायै नमः ।
श्री महानद्यै नमः ।
श्री महापातकसंहर्त्र्यै नमः ।
श्री महामोहप्रदायिन्यै नमः ।
श्री विकरालायै नमः ।
श्री महाकालायै नमः ।
श्री कालरूपायै नमः । 
श्री कलावत्यै नमः ।
श्री कपालखट्वाङ्गधरायै नमः ।
श्री खड्गधारिण्यै नमः ।
श्री खर्परधारिण्यै नमः ।
श्री कुमार्यै नमः ।
श्री कुंकुमप्रीतायै नमः ।
श्री कुंकुमारुणरञ्जितायै नमः ।
श्री कौमोदक्यै नमः ।
श्री कुमुदिन्यै नमः ।
श्री कीर्त्यायै नमः ।
श्री कीर्तिप्रदायिन्यै नमः ।
श्री नवीनायै नमः ।
श्री नीरदायै नमः ।
श्री नित्यायै नमः ।
श्री नन्दिकेश्वरपालिन्यै नमः ।
श्री घर्घरायै नमः ।
श्री घर्घरारावायै नमः ।
श्री घोरायै नमः ।
श्री घोरस्वरूपिण्यै नमः ।
श्री कलिघ्न्यै नमः । 
श्री कलिधर्मघ्न्यै नमः ।
श्री कलिकौतुकनाशिन्यै नमः ।
श्री किशोर्यै नमः ।
श्री केशवप्रीतायै नमः ।
श्री क्लेशसङ्घनिवारिण्यै नमः ।
श्री महोत्तमायै नमः ।
श्री महामत्तायै नमः ।
श्री महाविद्यायै नमः ।
श्री महीमय्यै नमः ।
श्री महायज्ञायै नमः । 
श्री महावाण्यै नमः ।
श्री महामन्दरधारिण्यै नमः ।
श्री मोक्षदायै नमः ।
श्री मोहदायै नमः ।
श्री मोहायै नमः ।
श्री भुक्तिप्रदायिन्यै नमः ।
श्री मुक्तिप्रदायिन्यै नमः ।
श्री अट्टाट्टहासनिरतायै नमः ।
श्री क्वणन्नूपुरधारिण्यै नमः ।
श्री दीर्घदंष्ट्रायै नमः ।
श्री दीर्घमुख्यै नमः ।
श्री दीर्घघोणायै नमः ।
श्री दीर्घिकायै नमः ।
श्री दनुजान्तकर्यै नमः ।
श्री दुष्टायै नमः ।
श्री दुःखदारिद्रयभञ्जिन्यै नमः ।
श्री दुराचारायै नमः ।
श्री दोषघ्न्यै नमः ।
श्री दमपत्न्यै नमः ।
श्री दयापरायै नमः ।
श्री मनोभवायै नमः ।
श्री मनुमय्यै नमः ।
श्री मनुवंशप्रवर्द्धिन्यै नमः ।
श्री श्यामायै नमः ।
श्री श्यामतनवे नमः ।
श्री शोभायै नमः ।
श्री सौम्यायै नमः ।
श्री शम्भुविलासिन्यै नमः । 

Thursday, February 18, 2021

त्रिपुर सुन्दरी वेद पाद स्तोत्रम् || 


वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया ।
यथामति मतिं देवस्तन्नो दन्तिः प्रचोदयात् ॥१॥

अकिञ्चित्करकर्मभ्यः प्रत्याहृत्य कृपावशात् ।
सुब्रह्मण्यः स्तुतावस्यां तन्नः षण्मुखः प्रचोदयात् ॥२॥

अकारादिक्षकारान्तवर्णावयवशालिनी ।
वीणापुस्तकहस्ताऽव्यात् प्रणो देवी सरस्वती ॥३॥

या वर्णपदवाक्यार्थगद्यपद्यस्वरूपिणी ।
वाचि नर्त्तयतु क्षिप्रं मेधां देवी सरस्वती ॥४॥

उपास्यमाना विप्रेन्द्रैः संध्यासु च तिसृष्वपि ।
सद्यः प्रसीद मे मातः संध्याविद्ये सरस्वती ॥५॥

मन्दा निन्दालोलुपाऽहं स्वभावात् एतत्स्तोत्रं पूर्यते किं मयेति ।
मा ते भीतिर्हे मते त्वादृशानाम् एषा नेत्री राधसा सूनृतानाम् ॥६॥

तरङ्गभृ(/भ्रु)कुटीकोटिभङ्ग्या तर्जयते जराम् ।
सुधामयाय शुभ्राय सिन्धूनां पतये नमः ॥७॥

तस्य मध्ये मणिद्वीपः कल्पकारामभूषितः ।
अस्तु मे ललितावासः स्वस्तिदा अभयंकरः ॥८॥

कदम्बमञ्जरीनिर्यद्वारुणीपारणोन्मदैः ।
द्विरेफैर्वर्णनीयाय वनानां पतये नमः ॥९॥

तत्र वप्रावलीलीलागगनोल्लङ्घिगोपुरम् ।
मातः कौतूहलं दद्यात्सु(/सं)हार्यं नगरं तव ॥१०॥

मकरन्दझरीमज्जन्मिलिन्दकुलसंकुलाम् ।
महापद्माटवीं वन्दे यशसा सम्परीवृताम् ॥११॥

तत्रैव चिन्तामणिधोरणार्चिभिः(णोर्चिभिः) विनिर्मितं रोपितरत्नशृङ्गम् ।
भजे भवानीभवनावतंसम् आदित्यवर्णं तमसः परस्तात् ॥१२॥

मुनिभिः स्वात्मलाभाय यच्चक्रं हृदि सेव्यते ।
तत्र पश्यामि बुद्ध्या तद् अक्षरे परमे व्योमन् ॥१३॥

पञ्चब्रह्ममयो मञ्चस्तत्र यो बिन्दुमध्यगः ।
तव कामेशि वासोऽयमायुष्मन्तं करोतु माम् ॥१४॥

नानारत्नगुलुच्छालीकान्तिकिर्मीरि(/म्मीलि)तोदरम् ।
विमृशामि वितानं तेऽतिश्लक्ष्णमतिलोमशम् ॥१५॥

पर्यङ्कतल्पोपरि दर्शनीयं सबाणचापाङ्कुशपाशपाणिम् ।
अशेषभूषारमणीयमीडे त्रिलोचनं नीलकण्ठं प्रशान्तम् ॥१६॥

जटारुणं चन्द्रकलाललामम् उद्वेललावण्यकलाभिरामम् ।
कामेश्वरं कामशरासनाङ्कं समस्तसाक्षिं तमसः परस्तात् ॥१७॥

तत्र कामेशवामाङ्के खेलन्तीमलिकुन्तलाम् ।
सच्चिदानन्दलहरीं महालक्ष्मीमुपास्महे ॥१८॥

चारुगोरोचनापङ्कजम्बालितघनस्तनीम् ।
नमामि त्वामहं लोकमातरं पद्ममालिनीम् ॥१९॥

शिवे नमन्निर्जरकुञ्जरासुर- प्रतोलिकामौलिमरीचिवीचिभिः ।
इदं तव क्षालनजातसौभगं चरणं नो लोके सुधितां दधातु ॥२०॥

कल्पस्यादौ कारणेशानपि त्रीन् स्रष्टुं देवि त्रीन्गुणानादधानाम् ।
सेवे नित्यं श्रेयसे भूयसे त्वाम् अजामेकां लोहितशुक्लकृष्णाम् ॥२१॥

केशोद्भूतैरद्भुतामोदपूरैः आशाबृन्दं सान्द्रमापूरयन्तीम् ।
त्वामानम्य त्वत्प्रसादात्स्वयंभूः अस्मान्मायी सृजते विश्वमेतत् ॥२२॥

अर्धोन्मीलद्यौवनोद्दामदर्पां दिव्याकल्पैरर्पयन्तीं मयूखान् ।
देवि ध्यात्वा त्वां पुरा कैटभारिः विश्वं बिभर्ति भुवनस्य नाभिः ॥२३॥

कह्लारश्रीमञ्जरीपुञ्जरीतिं धिक्कुर्वन्तीमम्ब ते पाटलिम्ना ।
मूर्तिं ध्यात्वा शाश्वतीं भूतिमायन् इन्द्रो राजा जगतो य ईशे ॥२४॥

देवतान्तरमन्त्रौघजपश्रीफलभूतया ।
जापकस्तव देव्यन्ते विद्यया विन्दतेऽमृतम् ॥२५॥

पुंस्कोकिलकलक्वाणकोमलालापशालिनि ।
भद्राणि कुरु मे मातर्दुरितानि परासुव ॥२६॥

अन्तेवासिन्नस्ति चेत्ते मुमुक्षा वक्ष्ये युक्तिं मुक्तसर्वैषणस्सन् ।
सद्भ्यः साक्षात् सुन्दरीं ज्ञप्तिरूपां श्रद्धाभक्तिज्ञानयोगादवेहि ॥२७॥

षोढान्यासादिदेवैश्च सेविता चक्रमध्यगा ।
कामेशमहिषी भूयः षोडशी शर्म यच्छतु ॥२८॥

शान्तो दान्तो देशिकेन्द्रं प्रणम्य तस्यादेशात्तारकं मन्त्रतत्त्वम् ।
जानीते चेदम्ब धन्यः समानं नातः परं वेदितव्यं हि किञ्चित् ॥२९॥

त्वमेव कारणं कार्यं क्रिया ज्ञानं त्वमेव च ।
त्वामम्ब न विना किञ्चित् त्वयि सर्वं प्रतिष्ठितम् ॥३०॥

परागमद्रीन्द्रसुते तवाङ्घ्रि- सरोजयोरम्ब दधामि मूर्ध्ना ।
अलंकृतं वेद(/देव)वधूशिरोभि-र्यतो जातो भुवनानि विश्वा ॥३१॥

दुष्टान् दैत्यान् हन्तुकामां महर्षीन् शिष्टानन्यान् पातुकामां कराब्जैः ।
अष्टाभिस्त्वां सायुधैर्भासमानां दुर्गां देवीं शरणमहं प्रपद्ये ॥३२॥

देवि सर्वानवद्याङ्गीं त्वामनादृत्य ये क्रियाः ।
कुर्वन्ति निष्फलास्तेषामदुग्धा इव धेनवः ॥३३॥

नाहं मन्ये दैवतं मान्यमन्यत् त्वत्पादाब्जादम्बिके कुम्भजाद्याः ।
ये ध्यातारो भक्तिसंशुद्धचित्ताः परामृतात् परिमुच्यन्ति सर्वे ॥३४॥

कुर्वाणोऽपि दुरारम्भान् तव नामानि शांभवि ।
प्रजपन्नेति मायान्तम् अतिमृत्युं तराम्यहम् ॥३५॥

कल्याणि त्वं कुन्दहासप्रकाशैः अन्तर्ध्वान्तं नाशयन्ती क्षणेन ।
हन्तास्माकं ध्यायतां त्वत्पदाब्जम् उच्चतिष्ठ महते सौभगाय ॥३६॥

तितीर्षया भवाम्भोधेर्हयग्रीवादयः पुरा ।
अप्रमत्ता भवत्पूजां सुविद्वांसो वितेनिरे ॥३७॥

मद्वंश्या ये दुराचारा ये च सन्मार्गगामिनः ।
भवत्याः कृपया सर्वे सुवर्यन्तु यजमानाः ॥३८॥

श्रीचक्रस्थां शाश्वतैश्वर्यदात्रीं पौण्ड्रं चापं पुष्पबाणान्दधानाम् ।
बन्धूकाभां भावयामि त्रिनेत्रां तामग्निवर्णां तपसा ज्वलन्तीम् ॥३९॥

भवानि तव पादाब्जनिर्णेजनपवित्रिताः ।
भवामयप्रशान्त्यै त्वामपो याचामि भेषजम् ॥४०॥

चिदानन्दसुधाम्भोधेस्तवानन्दलवोऽस्ति यः ।
कारणेशैस्त्रिभिस्साकं तद्विश्वमुपजीवति ॥४१॥

नो वा यागैर्नैव पूर्तादिकृत्यैः नो वा जप्यैर्नो महद्भिस्तपोभिः ।
नो वा योगैः क्लेशकृद्भिः सुमेधा निचाय्येमां शान्तिमत्यन्तमेति ॥४२॥

प्रातः पाहि महाविद्ये मध्याह्ने तु मृडप्रिये ।
सायं पाहि जगद्वन्द्ये पुनर्नः पाहि विश्वतः ॥४३॥

बन्धूकाभैर्भानुभिर्भासयन्ती विश्वं शश्वत्तुङ्गपीनस्तनार्धा ।
लावण्याब्धे(/धेः) सुन्दरि त्वं प्रसादाद् आयुः प्रजां रयिमस्मासु धेहि ॥ ४४ ॥

कर्णाकर्णय मे तत्त्वं या चिच्छक्तिरितीर्यते ।
त्रिर्वदामि मुमुक्षूणां सा काष्ठा सा परगतिः ॥४५॥

वाग्देवीति त्वां वदन्त्यम्ब केचित् लक्ष्मीर्गौरीत्येवमन्ये वदन्ति ।
शश्वन्मातः प्रत्यगद्वैतरूपां शंसन्ति केचिन्निविदो जनाः ॥४६॥

ललितेति सुधापूरमाधुरीचोरमम्बिके ।
तव नामास्ति यत्तेन जिह्वा मे मधुमत्तमा ॥४७॥

ये संपन्नाः साधनैस्तैश्चतुर्भिः शुश्रूषाभिर्देशिकं प्रीणयन्ति ।
सम्यग् विद्वान् शुद्धसत्त्वान्तराणां तेषामेवैतां ब्रह्मविद्यां वदेत ॥४८॥

अभिचारादिभिः कृत्यां यः प्रेरयति मय्युमे ।
तव हुंकारसंत्रस्ता प्रत्यक्कर्तारमृच्छतु ॥४९॥

जगत्पवित्रि मामिकाम् अपाहराशु दुर्ज्जराम् ।
प्रसीद मे दयाधुने(/नि) प्रशस्तिमम्ब नस्कृधि ॥५०॥

कदम्बारुणमम्बाया रूपं चिन्तय चित्त मे ।
मुञ्च पापीयसीं निष्ठां मा गृधः कस्य स्विद्धनम् ॥५१॥

भण्डभण्डनलीलायां रक्तचन्दनपङ्किलः ।
अङ्कुशस्तव तं हन्याद्यश्च नो द्वे(/द्वि)षते जनः ॥५२॥

रे रे चित्त त्वं वृथा शोकसिन्धौ मज्जस्यन्तर्वच्म्युपायं विमुक्त्यै ।
देव्याः पादौ पूजयैकाक्षरेण तत्ते पदं संग्रहेण ब्रवीम्योम् ॥५३॥

चञ्चद्बालातपज्योत्स्नाकलामण्डलशालिने ।
ऐक्षवाय नमो मातर्बाहुभ्यां तव धन्वने ॥५४॥

तामेवाद्यां ब्रह्मविद्यामुपासे मूर्तैर्वेदैः स्तूयमानां भवानीम् ।
हन्त स्वात्मत्त्वेन यां मुक्तिकामो मत्वा धीरो हर्षशोकौ जहाति ॥५५॥

शरणं करवाण्यम्ब चरणं तव सुन्दरि ।
शपे त्वत्पादुकाभ्यां मे नान्यः पन्था अयनाय ॥५६॥

रत्नच्छत्रैश्चामरैर्दर्पणाद्यैः चक्रेशानीं सर्वदोपचारयन्त्यः ।
योगिन्योऽन्याः शक्तयश्चाणिमाद्याः यूयं पात स्वस्तिभिः सदा नः ॥५७॥

दरिद्रं मां विजानीहि सर्वज्ञासि यतः शिवे ।
दूरीकृत्याशु दुरितम् अथ नो वर्धया रयिम् ॥५८॥

महेश्वरि महामन्त्रकूटत्रयकलेबरे ।
कादिविद्याक्षरश्रेणीमुशन्तस्त्वा हवामहे ॥५९॥

मूलाधारादूर्ध्वमन्तश्चरन्तीं भित्त्वा ग्रन्थीन्मूर्ध्नि निर्यत्सुधार्द्राम् ।
पश्यन्तस्त्वां ये च तृप्तिं लभन्ते तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ६०॥

मह्यं द्रुह्यन्ति ये मातः त्वद्ध्यानासक्तचेतसे ।
तानंब सायकैरेभिः अव ब्रह्मद्विषो जहि ॥६१॥

त्वद्भक्तानामम्ब शान्तैषणानां ब्रह्मिष्ठानां दृष्टिपातेन पूतः ।
पापीयानप्यावृतः स्वर्वधूभिः शोकातिगो मोदते स्वर्गलोके ॥६२॥

सन्तु विद्या जगत्यस्मिन् संसारभ्रमहेतवः ।
भजेऽहं त्वां यया विद्वान् विद्ययाऽमृतमश्नुते ॥६३॥

विद्वन्मुख्यैः विद्रुमाभं विशाल-श्रोणीशिञ्जन्मेखलाकिङ्किणीकम् ।
चन्द्रोत्तंसं चिन्मयं वस्तु किञ्चिद् विद्धि त्वमेतन्निहितं गुहायाम् ॥६४॥

न विस्मरामि चिन्मूर्त्तिमिक्षुकोदण्डशालिनीम् ।
मुनयः सनकप्रेष्ठास्तामाहुः परमां गतिम् ॥६५॥

चक्षुःप्रेङ्खत्प्रेमकारुण्यधारां हंस(?)ज्योत्स्नापूरहृष्यच्चकोराम् ।
यामाश्लिष्यन्मोदते देवदेवः सा नो देवी सुहवा शर्म यच्छतु ॥६६॥

मुञ्च वञ्चकतां चित्त पामरं चापि दैवतम् ।
गृहाण पदमम्बाया एतदालम्बनं परम् ॥६७॥

का मे भीतिः का क्षतिः किं दुरापं कामेशाङ्कोत्तुङ्गपर्यङ्कसंस्थाम् ।
तत्त्वातीतामच्युतानन्ददात्रीं देवीमहं निर्ऋतिं वन्दमानः ॥६८॥

चिन्तामणिमयोत्तंसकान्तिकञ्चुकितानने ।
ललिते त्वां सकृन्नत्वा न बिभेति कुतश्चन ॥६९॥

तारुण्योत्तुङ्गितकुचे लावण्योल्लासितेक्षणे ।
तवाज्ञयैव कामाद्या मास्मान्प्रापन्नरातयः ॥७०॥

आकर्णाकृष्टकामास्त्रसञ्जातं तापमम्ब मे ।
आचामतु कटाक्षस्ते पर्जन्यो वृष्टिमानिव ॥७१॥

कुर्वे गर्वेणापचारानपारान् यद्यप्यम्ब त्वत्पदाब्जं तथापि ।
मन्ये धन्ये देवि विद्यावलम्बं मातेव पुत्रं बिभृतास्वेनम् ॥७२॥

यथोपास्तिक्षतिर्न स्यात्तव चक्रस्य सुन्दरि ।
कृपया कुरु कल्याणि तथा मे स्वस्तिरायुषि(/षी) ॥७३॥

चक्रं सेवे तावकं सर्वसिद्ध्यै श्रीमन्मातः सिद्धयश्चाणिमाद्याः ।
नित्या मुद्रा शक्तयश्चाङ्गदेव्यो यस्मिन्देवा अधि विश्वे निषेदुः ॥७४॥

सुकुमारे सुखाकारे सुनेत्रे सूक्ष्ममध्यमे ।
सुप्रसन्ना भव शिवे सुमृडीका सरस्वती ॥७५॥

विद्युद्वल्लीकन्दलीं कल्पयन्तीं मूर्त्तिं स्फूर्त्या पङ्कजं धारयन्तीम् ।
ध्यायन् हि त्वां जायते सार्वभौमो विश्वा आशाः पृतनाः सञ्जयञ्जयन् ॥७६॥

अविज्ञाय परां शक्तिमात्मभूतां महेश्वरीम् ।
अहो पतन्ति निरयेषु ये के चात्महनो जनाः ॥७७॥

सिन्दूराभैस्सुन्दरैरंशुबृन्दैः लाक्षालक्ष्म्यां मज्जयन्तीं जगन्ति ।
हेरम्बाम्ब त्वां हृदा लंबते यः तस्मै विशः स्वयमेवानमन्ते ॥७८॥

तव तत्त्वं विमृशतां प्रत्यगद्वैतलक्षणम् ।
चिदानन्दघनादन्यन्नेह नानास्ति किंचन ॥७९॥

कण्ठात्कुण्डलिनीं नीत्वा सहस्रारं शिवे तव ।
न पुनर्जायते गर्भे सुमेधा अमृतोक्षितः ॥८०॥

त्वत्पादुकानुसंधानप्राप्तसर्वात्मतादृशि ।
पूर्णाहंकृतिमत्यस्मिन्न कर्म लिप्यते नरे ॥८१॥

तवानुग्रहनिर्भिन्नहृदयग्रन्थिरद्रिजे ।
स्वात्मत्वेन जगन्मत्त्वा ततो न विजुगुप्सते ॥८२॥

कदा वसुदलोपेते त्रिकोणनवकान्विते ।
आवाहयामि चक्रे त्वां सूर्याभां श्रियमैश्वरीम् ॥८३॥

ह्रीमित्येकं तावकं वाचकार्णं यज्जिह्वाग्रे देवि जागर्ति किञ्चित् ।
को वायं स्यात्कामकामस्त्रिलोक्यां सर्वेऽस्मै देवाः बलिमावहन्ति ॥८४॥

नाकस्त्रीणां किन्नरीणां नृपाणाम् अप्याकर्षि चेतसा चिन्तनीयम् ।
त्वत्पाणिस्थं कुङ्कुमाभं शिवे यं द्विष्मस्तस्मिन्प्रतिमुञ्चामि पाशम् ॥८५॥

नूनं सिंहासनेश्वर्यास्तवाज्ञां शिरसा वहन् ।
भयेन पवमानोऽयं सर्वा दिशोऽनुविधावति ॥८६॥

त्रिक(/का)लाढ्यां त्रिहृल्लेखां द्विहंसस्वरभूषिताम् ।
यो जपत्यम्ब ते विद्यां सोऽक्षरः परमः स्वराट् ॥८७॥

दारिद्र्याब्धौ देवि मग्नोऽपि शश्वद् वाचा याचे नाहमम्ब त्वदन्यम् ।
तस्मादस्मद्वाञ्छितं पूरयैतद् उषासानक्ता सुदुघेव धेनुः ॥८८॥

यो वा यद्यत्कामनाकृष्टचित्तः स्तुत्वोपास्ते देवि ते चक्रविद्याम् ।
कल्याणानामालयः कालयोगात् तं तं लोकं जयते तांश्च कामान् ॥८९॥

साधकस्सततं कुर्यादैक्यं श्रीचक्रदेहयोः ।
तथा देव्यात्मनोरैक्यम् एतावदनुशासनम् ॥९०॥

हस्ताम्भोजप्रोल्लसच्चामराभ्यां श्रीवाणीभ्यां पार्श्वयोर्वीज्यमानाम्।
श्रीसाम्राज्ञि त्वां सदालोकयेयं सदा सद्भिः सेव्यमानां निगूढाम् ॥९१॥

इष्टानिष्टप्राप्तिविच्छित्तिहेतुः स्तोतुं वाचां कॢप्तिरित्येव मन्ये ।
त्वद्रूपं हि स्वानुभूत्यैकवेद्यं न चक्षुषा गृह्यते नापि वाचा ॥९२॥

हरस्वरैश्चतुर्वर्गपदं मन्त्रं सबिन्दुकम् ।
देव्या जपत विप्रेन्द्रा अन्या वाचो विमुञ्चथ ॥९३॥

यस्ते राकाचन्द्रबिम्बासनस्थां पीयूषाब्धिं कल्पयन्तीं मयूखैः ।
मूर्त्तिं भक्त्या ध्यायते हृत्सरोजे न तस्य रोगो न जरा न मृत्युः ॥९४ ॥

तुभ्यं मातर्योऽञ्जलिं मूर्ध्नि धत्ते मौलिश्रेण्या भूभुजस्तं नमन्ति ।
यः स्तौति त्वामम्ब चिद्वल्लिवाचा(?) तं धीरासः कवय उन्नयन्ति ॥९५॥

वैरिञ्चौ(/ञ्चो)घैर्विष्णुरुद्रेन्द्रबृन्दैः दुर्गाकालीभैरवीशक्तिसङ्घैः ।
यन्त्रेशि त्वं वर्तसे स्तूयमाना न तत्र सूर्यो भाति न चन्द्रतारकम् ॥९६॥

भूत्यै भवानि त्वां वन्दे सुराः शतमखादयः ।
त्वामानम्य समृद्धाः स्युः आ ये धामानि दिव्यानि ॥९७॥

पुष्पवत्फुल्लताटङ्कां प्रातरादित्यपाटलाम् ।
यस्त्वामन्तः स्मरत्यम्ब तस्य देवा असन्वशे ॥९८॥

वश्ये विद्रुमसङ्काशां विद्यायां विशदप्रभाम् ।
त्वामम्ब भावयेद्भूत्यै सुवर्णां हेममालिनीम् ॥९९॥

वामाङ्क(/ङ्ग)गस्थामीशितुर्दीप्यमानां भूषाबृन्दैरिन्दुरेखावतंसाम् ।
यस्त्वां पश्यन् सन्ततं(/सततं) नैव तृप्तः तस्मै च देवि वषडस्तु तुभ्यम् ॥१००॥

नवनीपवनीवासलालसोत्तम(/र)मानसे ।
शृङ्गारदेवते मातः श्रियं वासय मे कुले ॥१०१॥

भक्त्याऽभक्त्या वापि पद्यावसान-श्रुत्या स्तुत्या चैतया स्तौति यस्त्वाम् ।
तस्य क्षिप्रं त्वत्प्रसादेन मातः सत्याः सन्तु यजमानस्य कामाः ॥१०२॥

बालिशेन मया प्रोक्तमपि वात्सल्यशालिनोः ।
आनन्दमादिमदम्पत्योरिमा वर्धन्तु वाङ्गिरः ॥१०३॥

माधुरीसौरभावासचापसायकधारिणीम् ।
देवीं ध्यायन् पठेदेतत्सर्वकामार्थसिद्धये ॥१०४॥

स्तोत्रमेतत्प्रजपतस्तव त्रिपुरसुन्दरि ।
अनुद्वीक्ष्य भयाद्दूरं मृत्युर्धावति पञ्चमः ॥१०५॥

यः पठति स्तुतिमेतां विद्यावन्तं तमम्ब धनवन्तम् ।
कुरु देवि यशस्वन्तं वर्चस्वन्तं मनुष्येषु ॥१०६॥

ये शृण्वन्ति स्तुतिमिमां तव देव्यनसूयकाः ।
तेभ्यो देहि श्रियं विद्यामुद्वर्च‍म् उत्तनूबलम् ॥१०७॥

त्वामेवाहं स्तौमि नित्यं प्रणौमि श्रीविद्येशां वच्मि सञ्चिन्तयामि ।
अध्यास्ते या विश्वमाता विराजो हृत्पुण्डरीकं विरजं विशुद्धम् ॥१०८॥

शङ्करेण रचितं स्तवोत्तमं यः पठेज्जगति भक्तिमान्नरः ।
तस्य सिद्धिरतुला भवेद्ध्रुवा सुन्दरी च सततं प्रसीदति ॥१०९॥

यत्रैव यत्रैव मनो मदीयं तत्रैव तत्रैव तव स्वरूपम् ।
यत्रैव यत्रैव शिरो मदीयं तत्रैव तत्रैव पदद्वयं ते ॥११०॥

॥ श्रीशङ्करभवत्पादविरचितं त्रिपुरसुन्दरीवेदपादस्तोत्रम् ॥

माँ षोडशी त्रिपुर सुन्दरी कवच ||


ॐ पूर्वे मां भैरवी पातु बाला मां पातु दक्षिणे ।

मालिनी पश्चिमे पातु त्रासिनी उत्तरेऽवतु ।।


ऊधर्व पातु महादेवी महात्रिपुरसुन्दरी ।

अधस्तात् पातु देवेशी पातालतलवासिनी ।।


आधारे वाग्भव: पातु कामराजस्तथा हदि ।

डामर: पातु मां नित्यं मस्तके सर्वकामद: ।।


ब्रह्मरन्ध्रे सर्वगात्रे छिद्रस्थाने च सर्वदा ।

महाविद्या भगवती पातु मां परमेश्वरी ।।


ऐं ह्रीं ललाटे मां पातु क्लीं क्लूं सश्च नेत्रयो: ।

नासायां मे कर्णयोश्च द्रीं द्रैं द्रां चिबुके तथा ।।


सौ: पातु गले ह्रदये सह ह्रीं नाभिदेशके ।

कलह्रीं क्लीं स्त्रीं गुहादेशे स ह्रीं पादयोस्तथा ।।


सह्रीं मां सर्वत: पातु सकली पातु सन्धिषु ।

जले स्थले तथाऽऽकाशे दिक्षु राजग्रहे तथा ।।
माँ षोडशी त्रिपुर सुन्दरी स्तुति || 


पंचप्रेत महाशव सिंहासन

उस पर खिले कमल दल

लाल रंग की दीप्तिमान

चतुरहस्ता त्रिलोचना

मस्तक पर राजे चंद्रमा

रत्न आभूषण धारिणी

बाला, त्रिपुरसुन्दरी, ललिता

माँ षोडशी


हाथों से देती अभय मुद्रा, वर मुद्रा

धारण किये पुस्तक और अक्षमाला

पाश, अंकुश, वाण ,धनुष

धारण करनेवाली माँ ललिता

योग-भोग एक साथ दिलानेवाली

कामेश्वरी, वज्रेशवरी, भग़ मालिनी, ललिताम्बिका

माँ षोडशी


बरबस आकर्षित करनेवाली

हर काम को पूरा करनेवाली

सदा नमन करते हैं उनका

सर्व उपास्या, तुरीया,

माँ षोडशी
श्री षोडशी त्रिपुर सुन्दरी अष्टकम || 


कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं,

नितम्बजित भूधरां सुरनितम्बिनीसेविताम् ।


नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां,

त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ १॥


कदम्बवनवासिनीं कनकवल्लकीधारिणीं,

महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम् ।


दयाविभवकारिणीं विशदलोचनीं चारिणीं,

त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ २॥


कदम्बवनशालया कुचभरोल्लसन्मालया,

कुचोपमितशैलया गुरुकृपालसद्वेलया ।


मदारुणकपोलया मधुरगीतवाचालया,

कयाऽपि घननीलया कवचिता वयं लीलया ॥ ३॥


कदम्बवनमध्यगां कनकमण्डलोपस्थितां,

षडम्बुरुहवासिनीं सततसिद्धसौदामिनीम् ।


विडम्बितजपारुचिं विकचचंद्रचूडामणिं,

त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ४॥


कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतां,

कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम् ।


मदारुणविलोचनां मनसिजारिसंमोहिनीं,

मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ ५॥


स्मरप्रथमपुष्पिणीं रुधिरबिन्दुनीलाम्बरां,

गृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्चलां ।


घनस्तनभरोन्नतां गलितचूलिकां श्यामलां,

त्रिलोचनकुटुंबिनीं त्रिपुरसुन्दरीमाश्रये ॥ ६॥


सकुङ्कुमविलेपनामलकचुंबिकस्तूरिकां,

समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।


अशेषजनमोहिनीमरुणमाल्य भूषाम्बरां,

जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥ ७॥


पुरंदरपुरंध्रिकां चिकुरबन्धसैरंध्रिकां,

पितामहपतिव्रतां पटपटीरचर्चारताम् ।


मुकुन्दरमणीमणीलसदलंक्रियाकारिणीं,

भजामि भुवनांबिकां सुरवधूटिकाचेटिकाम् ॥ ८॥

शिव कामा सुंदरी अष्टकं || 

पुण्डरीक पुरा मध्य वसिनिं, नृथ राज सह ध्गर्मिनिं ।
अध्रि राज थानयां, धिने धिने चिन्थयामि शिवकामा सुन्दरीं ॥१॥


ब्रह्म विष्णु धाम देव पूजिथं, बहु स्रीपद्म सुक वथस शोबिथं ।
बहुलेय कलपन नथ्मजं, धिने धिने चिन्थयामि शिवकामा सुन्दरीं ॥२॥


वेद शीर्ष विनुथ आत्मा वैभवं, वन्चिथर्थ फल धन ततःपरं ।
व्यास सूनु मुखथपर्चिथं, धिने धिने चिन्थयामि शिवकामा सुन्दरीं ॥३॥


शोदसर्न पर देवथं उमां, पञ्च बन अनिस योथ्भव वेशनां ।
परिजथ थारु मूल मण्डपं, धिने धिने चिन्थयामि शिवकामा सुन्दरीं ॥४॥


विस्वयोनिम् अमलं अनुथामं, वग विलास फलधं विचक्षणं ।
वारि वह सधृस लम्बरं, धिने धिने चिन्थयामि शिवकामा सुन्दरीं ॥५॥


नन्दिकेस विनुथ अथम वैभवं, श्र्व नममन्थु जपक्रुतः सुख प्रदं ।
नास हीन पथथं, नदेस्वरिम्, धिने धिने चिन्थयामि शिवकामा सुन्दरीं ॥६॥


सोमे सूर्य हुथ बुक्थाभिर लोचनं, सर्व मोहन करीं सुधीदिनां ।
थ्री वर्ग परमाथम सोउख्य्थां, धिने धिने चिन्थयामि शिवकामा सुन्दरीं ॥७॥


पुण्डरीक चरण ऋषिणा कर्थं स्तोत्रं, येथातः अन्वहम् पदन्थि ये ।
पुण्डरीक पुरा नयिकं अम्बिकं, य दृष्टिं अकिलं महेस्वरि ॥८॥
माँ षोडशी त्रिपुर सुन्दरी स्तोत्र || 



कदम्ब वन चारिणी मुनि कदम्ब कदम्ब कादम्बिनी, नितम्ब जित भूधरा सुर नितम्बिनी सेवितां |


नवाम्बू रूह्लोचना ममि नवाम्बुदः श्यामला, त्रिलोचन कुटुम्बिनी त्रिपुर सुंदरी माश्रये |1|


कदम्ब वन वासिनी कनक बल्लकी धारिणी, महा मणि हारिणी मुखसमुल्ल शद्वारूणी|


दया विभव कारिणी विशद लोचनी चारिणी, त्रिलोचन कुटुम्बिनी त्रिपुर सुंदरी माश्रये |2|


कदम्ब वन शालया कुच भशेल्ल सन्मालया, कुचोपमित शैलया गुरुकृपाल्लश द्वेलया |


भदारुण कपोलया मधुर गीत वाचालया , कयापि घन नीलया कवचिता वय लीलया |3|


कदम्ब वन मध्यगा कनक मण्डलो पस्यितां, खड़म्बु रूह वासिनी सतत शिद्ध सौदामिनिम |


विडम्तित जपारुचिं विक चन्यंद्र चूड़ामिणी, त्रिलोचन कुटुम्बिनी त्रिपुर सुंदरी माश्रये |4|


कुचांचित विपंचिका कुटिल कुन्तला लंकृतां, कुशेशय निवाशिनी कुटिलचित्त विद्वेशिणी |


मदरूण विलोचनां मनसिजारी सम्मोहिनिमा, मतंग मुनिकन्यकां मधुर भाषिणी माश्रये |5|


स्मरेत्प्रथम पुष्पिणी रुधिर विन्दुनीलाम्बरा, गृहीत माधुपत्रिका मधु विधुर्ण नेत्रान्चालां |


घनस्तन भरोन्नता पलित चुलिकां श्यामला, त्रिलोचन कुटुम्बिनी त्रिपुर सुंदरी माश्रये |6|


सुकुंकुम विलेपनां मालक चुम्बि कस्तूरिकां, समंद हसितेक्षणां सशरचाप पाशांकुशां |


असेष जनमोहिनी मरूण माल्य भुषाम्बरा, जपाकुशुम भाशुरां जपविधौ स्मराम्यम्बिकाम |7|


पुरंदर पुरान्ध्रिका चिकुरबंध सौरंध्रिका, पितामह पतिव्रतां पटुपटीर चचरितां |


मुकुंद रमणी मणि भश्दलंक्रिया कारिणी, भजामि भुवनम्बिकां सुखधुटिका चोटिकाम |8|