Wednesday, March 17, 2021

 श्री वेंकटेश मंगल स्तोत्र || 


श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १ ॥

लक्ष्मीसविभ्रमालोकसद्मविभ्रमचक्षुषे ।
चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥ २ ॥

श्रीवेङ्कटाद्रिशृङ्गाय मङ्गलाभराणाङ्घ्रये ।
मङ्गलानां निवासाय वेङ्कटेशाय मङ्गलम् ॥ ३ ॥

सर्वावयवसौन्दर्यसंपदा सर्वचेतसाम् ।
सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ४ ॥

नित्याय निरवद्याय सत्यानन्द चिदात्मने ।
सर्वान्तरात्मने श्रीमद् वेङ्कटेशाय मङ्गलम् ॥ ५ ॥

स्वतः सर्वविदे सर्वशक्तये सर्वशेषिणे ।
सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम् ॥ ६ ॥

परस्मै ब्रह्मणे पूर्णकामाय परमात्मने ।
प्रपन्नपरतत्वाय वेङ्कटेशाय मङ्गलम् ॥ ७ ॥

अकालतत्वविश्रान्तावात्मानमनुपश्यताम् ।
अतृप्तामृतरूपाय वेङ्कटेशाय मङ्गलम् ॥ ८ ॥

प्रायः स्वचरणौ पुंसां शरण्यत्वेन पाणिना ।
कृपया दर्शयते श्रीमद् वेङ्कटेशाय मङ्गलम् ॥ ९ ॥

दयामृततरङ्गिण्याः तरङ्गैरतिशीतलैः ।
अपाङ्गैः सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम् ॥ १० ॥

स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये ।
सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ११ ॥

श्रीवैकुण्ठविरक्ताय स्वामिपुष्करणीतटे ।
रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥ १२ ॥

श्रीमद् सुन्दरजामातृमुनिमानसवासिने ।
सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम्  ॥ १३ ॥

नमः श्रीवेङ्कटेशाय शुद्धज्ञानस्वरूपिणे ।

No comments:

Post a Comment