श्री षोडशी त्रिपुर सुन्दरी अष्टकम ||
कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं,
नितम्बजित भूधरां सुरनितम्बिनीसेविताम् ।
नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां,
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ १॥
कदम्बवनवासिनीं कनकवल्लकीधारिणीं,
महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम् ।
दयाविभवकारिणीं विशदलोचनीं चारिणीं,
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ २॥
कदम्बवनशालया कुचभरोल्लसन्मालया,
कुचोपमितशैलया गुरुकृपालसद्वेलया ।
मदारुणकपोलया मधुरगीतवाचालया,
कयाऽपि घननीलया कवचिता वयं लीलया ॥ ३॥
कदम्बवनमध्यगां कनकमण्डलोपस्थितां,
षडम्बुरुहवासिनीं सततसिद्धसौदामिनीम् ।
विडम्बितजपारुचिं विकचचंद्रचूडामणिं,
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ४॥
कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतां,
कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम् ।
मदारुणविलोचनां मनसिजारिसंमोहिनीं,
मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ ५॥
स्मरप्रथमपुष्पिणीं रुधिरबिन्दुनीलाम्बरां,
गृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्चलां ।
घनस्तनभरोन्नतां गलितचूलिकां श्यामलां,
त्रिलोचनकुटुंबिनीं त्रिपुरसुन्दरीमाश्रये ॥ ६॥
सकुङ्कुमविलेपनामलकचुंबिकस्तूरिकां,
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।
अशेषजनमोहिनीमरुणमाल्य भूषाम्बरां,
जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥ ७॥
पुरंदरपुरंध्रिकां चिकुरबन्धसैरंध्रिकां,
पितामहपतिव्रतां पटपटीरचर्चारताम् ।
मुकुन्दरमणीमणीलसदलंक्रियाकारिणीं,
भजामि भुवनांबिकां सुरवधूटिकाचेटिकाम् ॥ ८॥
No comments:
Post a Comment