Monday, February 22, 2021

श्री शिव महिमा अष्टकम ||

सुरवृन्दमुनीश्वरवन्द्यपदो हिमशैलविहारकरो रुचिरः ।
अनुरागनिधिर्मणिसर्पधरो जयतीह शिवः शिवरूपधरः ॥ १॥

भवतापविदग्धविपत्तिहरो भवमुक्तिकरो भवनामधरः ।
धृतचन्द्रशिरो विषपानकरो जयतीह शिवः शिवरूपधरः ॥ २॥

निजपार्षदवृन्दजयोच्चरितः करशूलधरोऽभयदानपरः ।
जटया परिभूषितदिव्यतमो जयतीह शिवः शिवरूपधरः ॥ ३॥

वृषभाङ्गविराजित उल्लसितः कृपया नितरामुपदेशकरः ।
त्वरितं फलदो गणयूथयुतो जयतीह शिवः शिवरूपधरः ॥ ४॥

अहिहारसुशोभित आप्तनुतो समुपास्यमहेश्वर आर्तिहरः ।
धृतविष्णुपदीसुजटो मुदितो जयतीह शिवः शिवरूपधरः ॥ ५॥

व्रजकृष्णपदाब्जपरागरतो व्रजकुञ्जसखीनवरूपधरः ।
व्रजगोपसुरेश उमाधिपतिर्जयतीह शिवः शिवरूपधरः ॥ ६॥

युगकेलिविलासमहारसिको रसतन्त्रपुराणकथाचतुरः ।
रसशास्त्ररसज्ञपटुर्मधुरो जयतीह शिवः शिवरूपधरः ॥ ७॥

यमपाशभयापहरोऽघहरः प्रबलोऽस्ति महाप्रबलः प्रखरः ।
परिपूर्णतमो हरिभक्तिभरो जयतीह शिवः शिवरूपधरः ॥ ८॥

शिवशान्त्यर्थदं दिव्यं श्रीशिवमहिमाष्टकम् ।
राधासर्वेश्वराख्येन शरणान्तेन निर्मितम् ॥

No comments:

Post a Comment