Tuesday, February 23, 2021

श्री कृष्ण स्तोत्र || 


रक्ष रक्ष हरे मां च निमग्नं कामसागरे ।

दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसङ्कटे ॥ १ ॥


भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे ।

अतीव निर्मलज्ञानचक्षुःप्रच्छन्नकारणे ॥ २ ॥


जन्मोर्मिसङ्गसहिते योषिन्नक्रौघसङ्कुले ।

रतिस्रोतसमायुक्ते गंभीरे घोर एव च ॥ ३ ॥


प्रथमामृतरूपे च परिणामविषालये ।

यमालय प्रवेशाय मुक्तिद्वारादिविस्मृतौ ॥ ४ ॥


बुद्ध्या तरण्या विज्ञानैः उद्धरास्मानतः स्वयं ।

स्वयं च त्वं कर्णधार प्रसीद मधुसूदन ॥ ५ ॥


मद्विधा कतिचिन्नाथ नियोज्या भवकर्मणि ।

सन्ति विश्वेश विधयो हि विश्वेश्वर माधव ॥ ६ ॥


न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमीप्सितः ।

तथापि च स्पृहा कामे त्वद्भक्तिव्यवधायके ॥ ७ ॥


हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु ।

त्वं महेश महाज्ञाता दुःस्वप्नं मां न दर्शय ॥ ८ ॥


ब्रह्मणा निर्मितं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।

स चैवाकर्मविषये न निमग्नो भवेत् ध्रुवम् ॥ ९ ॥

No comments:

Post a Comment