Monday, February 22, 2021

श्रीपरशुरामाष्टकम् ॥



॥ श्रीमद्दिव्यपरशुरामाष्टकस्तोत्रम् ॥

ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं,


नीलनीरजलोचनं हरिमाश्रितामरभूरुहम् ।

केशवं जगदीश्वरं त्रिगुणात्मकं परपूरुषं,

पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ १॥




अक्षयं कलुषापहं निरुपद्रवं करुणानिधिं,

वेदरूपमनामयं विभुमच्युतं परमेश्वरम् ।

हर्षदं जमदग्निपुत्रकमार्यजुष्टपदाम्बुजं,

पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ २॥


रैणुकेयमहीनसत्वकमव्ययं सुजनार्चितं,

विक्रमाढ्यमिनाब्जनेत्रकमब्जशार्ङ्गगदाधरम् ।

छत्रिताहिमशेषविद्यगमष्टमूर्तिमनाश्रयं,

पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ३॥


बाहुजान्वयवारणाङ्कुशमर्वकण्ठमनुत्तमं,

सर्वभूतदयापरं शिवमब्धिशायिनमौर्वजम् ।

भक्तशत्रुजनार्दनं निरयार्दनं कुजनार्दनं,

पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ४॥



जम्भयज्ञविनाशकञ्च त्रिविक्रमं दनुजान्तकं,

निर्विकारमगोचरं नरसिंहरूपमनर्दहम् ।

वेदभद्रपदानुसारिणमिन्दिराधिपमिष्टदं,

पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ५॥


निर्जरं गरुडध्वजं धरणीश्वरं परमोददं,

सर्वदेवमहर्षिभूसुरगीतरूपमरूपकम् ।

भूमतापसवेषधारिणमद्रिशञ्च महामहं,


पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ६॥



सामलोलमभद्रनाशकमादिमूर्तिमिलासुरं,

सर्वतोमुखमक्षिकर्षकमार्यदुःखहरङ्कलौ ।

वेङ्कटेश्वररूपकं निजभक्तपालनदीक्षितं,

पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ७॥


दिव्यविग्रहधारिणं निखिलाधिपं परमं महा-,

वैरिसूदनपण्डितं गिरिजातपूजितरूपकम् ।

बाहुलेयकुगर्वहारकमाश्रितावळितारकं,

पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ८॥


पर्शुरामाष्टकमिदं त्रिसन्ध्यं यः पठेन्नरः,

पर्शुरामकृपासारं सत्यं प्राप्नोति सत्वरम् ॥

॥ इति श्रीपूसपाटि रङ्गनायकामात्य भार्गवर्षिकृत श्रीमद्दिव्यपरशुरामाष्टकं सम्पूर्णम् ॥

No comments:

Post a Comment