Saturday, February 20, 2021

श्री विश्वकर्मा अष्टकम् || 
॥ श्रीविश्वकर्माष्टकम् ॥


आदिरूप नमस्तुभ्यं नमस्तुभ्यं पितामह ।

विराटाख्य नमस्तुभ्यं विश्वकर्मन्नमोनमः ॥ १॥


आकृतिकल्पनानाथस्त्रिनेत्री ज्ञाननायकः ।

सर्वसिद्धिप्रदाता त्वं विश्वकर्मन्नमोनमः ॥ २॥


पुस्तकं ज्ञानसूत्रं च कम्बी सूत्रं कमण्डलुम् ।

धृत्वा संमोहनं देव विश्वकर्मन्नमोनमः ॥ ३॥


विश्वात्मा भूतरूपेण नानाकष्टसंहारक ।

तारकानादिसंहाराद्विश्वकर्मन्नमोनमः ॥ ४॥


ब्रह्माण्डाखिलदेवानां स्थानं स्वर्भूतलं तलम् ।

लीलया रचितं येन विश्वरूपाय ते नमः ॥ ५॥


विश्वव्यापिन्नमस्तुभ्यं त्र्यम्बकं हंसवाहनम् ।

सर्वक्षेत्रनिवासाख्यं विश्वकर्मन्नमोनमः ॥ ६॥


निराभासाय नित्याय सत्यज्ञानान्तरात्मने ।

विशुद्धाय विदूराय विश्वकर्मन्नमोनमः ॥ ७॥


नमो वेदान्तवेद्याय वेदमूलनिवासिने ।

नमो विविक्तचेष्टाय विश्वकर्मन्नमोनमः ॥ ८॥


यो नरः पठते नित्यं विश्वकर्माष्टकमिदम् ।

धनं धर्मं च पुत्रश्च लभेदान्ते परां गतिम् ॥ ९॥


। इति विश्वकर्माष्टकं सम्पूर्णम् ।

No comments:

Post a Comment