Monday, February 22, 2021



श्रीपरशुरामाष्टकम् ॥


विप्रवंशावतंशं सदा नौम्यहं, रेणुकानन्दनं जामदग्ने प्रभो ।


द्रोहक्रोधाग्नि वैकष्टतां लोपकं, रेणुकानन्दनं वन्दते सर्वदा ॥ १॥


क्षत्रदुष्टान्तकं वै करस्यं धनुं, राजतेयस्य हस्ते कुठारं प्रभो ।


फुल्लरक्ताब्ज नेत्रं सदा भास्वरं, रेणुकानन्दनं वन्दते सर्वदा ॥ २॥


तेजसं शुभ्रदेहं विशालौ करौ, श्वेतयज्ञोपवीतं सदाधारकम् ।


दिव्यभाले त्रिपुण्ड्रं जटाजूवरं , रेणुकानन्दनं वन्दते सर्वदा ॥ ३॥


भक्तपालं कृपालं कृपासागरं, रौद्ररूपं करालं सुरैः वन्दितैः ।


जन्मतो ब्रह्मचारी व्रतीधारकः, रेणुकानन्दनं वन्दते सर्वदा ॥ ४॥


ज्ञानविज्ञानशक्तिश्च भण्डारकः, वेदयुद्धेषु विद्यासु पारङ्गतः ।


वासमाहेन्द्रशैले शिवाराधकः, रेणुकानन्दनं वन्दते सर्वदा ॥ ५॥


ज्ञानदाता विधाता सदा भूतले, पापसन्तापकष्टादि संहारकः ।


दिव्यभव्यात्मकं पूर्णं योगीश्वरं, रेणुकानन्दनं वन्दते सर्वदा ॥ ६॥


आर्तदुःखादिकानां सदारक्षकः, भीतदैत्यादिकानां सदा नाशकः ।


त्रीन्गुणः सप्तकृत्वातुभूर्दत्तकः, रेणुकानन्दनं वन्दते सर्वदा ॥ ७॥


शीलकारुण्यरूपं दयासागरं, भक्तिदं कीर्तिदं शान्तिदं मोक्षदम् ।


विश्वमायापरं भक्तसंरक्षकं, रेणुकानन्दनं वन्दते सर्वदा ॥ ८॥


भार्गवस्याष्टकं नित्यं प्रातः सायं पठेन्नरः ।


तस्य सर्वभयं नास्ति भार्गवस्य प्रसादतः ॥


॥ इति आचार्य राधेश्याम अवस्थी “रसेन्दु” कृतम् श्रीपरशुरामाष्टकं सम्पूर्णम् ॥

No comments:

Post a Comment