Thursday, February 11, 2021

गुरु ग्रह कवच - Guru Graha Kavacham


ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।


पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥




पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा ।


आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥




नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ।


वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः ॥




भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।


संहार भैरवः पायादीशान्यां च महेश्वरः ॥




ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।


सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥




रामदेवो वनान्ते च वने घोरस्तथावतु ।


जले तत्पुरुषः पातु स्थले ईशान एव च ॥




डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ।


हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥




पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।


मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥




महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।


वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

No comments:

Post a Comment