Friday, February 12, 2021

श्री दुर्गा कवचम्


ईश्वर उवाच


शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।


पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥ १ ॥




उमा देवी शिरः पातु ललाटं शूलधारिणी ।


चक्षुषी खेचरी पातु वदनं सर्वधारिणी ॥ २ ॥




जिह्वां च चण्डिका देवी ग्रीवां सौभद्रिका तथा ।


अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी ॥ ३ ॥




हृदयं ललिता देवी उदरं सिंहवाहिनी ।


कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी ॥ ४ ॥




महाबाला च जङ्घे द्वे पादौ भूतलवासिनी


एवं स्थिताऽसि देवि त्वं त्रैलोक्यरक्षणात्मिके ।


रक्ष मां सर्वगात्रेषु दुर्गे दॆवि नमोऽस्तु ते ॥ ५ ॥

No comments:

Post a Comment