Showing posts with label ग्रह केतु देव. Show all posts
Showing posts with label ग्रह केतु देव. Show all posts

Wednesday, February 17, 2021

केतु ग्रह कवच


अथ केतुकवचम्


अस्य श्रीकेतुकवचस्तोत्रमंत्रस्य त्र्यंबक ऋषिः ।

अनुष्टप् छन्दः । केतुर्देवता । कं बीजं । नमः शक्तिः ।

केतुरिति कीलकम् I केतुप्रीत्यर्थं जपे विनियोगः ॥

केतु करालवदनं चित्रवर्णं किरीटिनम् ।

प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ॥ १ ॥


चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः ।

पातु नेत्रे पिंगलाक्षः श्रुती मे रक्तलोचनः ॥ २ ॥


घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः ।

पातु कंठं च मे केतुः स्कंधौ पातु ग्रहाधिपः ॥ ३ ॥


हस्तौ पातु श्रेष्ठः कुक्षिं पातु महाग्रहः ।

सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥ ४ ॥


ऊरुं पातु महाशीर्षो जानुनी मेSतिकोपनः ।

पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिंगलः ॥ ५ ॥


य इदं कवचं दिव्यं सर्वरोगविनाशनम् ।

सर्वशत्रुविनाशं च धारणाद्विजयि भवेत् ॥ ६ ॥

॥ इति श्रीब्रह्माण्डपुराणे केतुकवचं संपूर्णं ॥
केतु स्तोत्र || 


केतु: काल: कलयिता धूम्रकेतुर्विवर्णक:।

लोककेतुर्महाकेतु: सर्वकेतुर्भयप्रद: ।।1।।


रौद्रो रूद्रप्रियो रूद्र: क्रूरकर्मा सुगन्ध्रक्।

फलाशधूमसंकाशश्चित्रयज्ञोपवीतधृक् ।।2।।


तारागणविमर्दो च जैमिनेयो ग्रहाधिप:।

पंचविंशति नामानि केतुर्य: सततं पठेत् ।।3।।


तस्य नश्यंति बाधाश्चसर्वा: केतुप्रसादत:।

धनधान्यपशूनां च भवेद् व्रद्विर्नसंशय: ।।4।।
केतु अष्टोत्तर शतनामावली - 


ॐ कॆतवॆ नमः ।
ॐ स्थूलशिरसॆ नमः ।
ॐ शिरॊमात्राय नमः ।
ॐ ध्वजाकृतयॆ नमः ।
ॐ नवग्रहयुताय नमः ।
ॐ सिंहिकासुरीगर्भसंभवाय नमः ।
ॐ महाभीतिहराय नमः ।
ॐ चित्रवर्णाय नमः ।
ॐ श्री पिंगळाक्षाय नमः ।
ॐ फलधूम्रसंकाशाय नमः ।
ॐ तीक्ष्णदंष्ट्राय नमः ।
ॐ महॊरगाय नमः ।
ॐ रक्तनॆत्राय नमः ।
ॐ चित्रकारिणॆ नमः ।
ॐ तीव्रकॊपाय नमः ।
ॐ महाशूराय नमः ।
ॐ पापकंटकाय नमः ।
ॐ क्रॊधनिधयॆ नमः ।
ॐ छायाग्रहविशॆषकाय नमः ।
ॐ अंत्यग्रहाय नमः ॥ २० ॥


ॐ महाशीर्षाय नमः ।
ॐ सूर्यारयॆ नमः ।
ॐ पुष्पवद्गृहिणॆ नमः ।
ॐ वरदहस्ताय नमः ।
ॐ गदापाणयॆ नमः ।
ॐ चित्रशुभ्रधराय नमः ।
ॐ चित्रध्वजपताकाय नमः ।
ॐ घॊराय नमः ।
ॐ चित्ररथाय नमः ।
ॐ शिखिनॆ नमः ।
ॐ कुळत्थभक्षकाय नमः ।
ॐ वैढूर्याभरणाय नमः ।
ॐ उत्पातजनकाय नमः ।
ॐ शुक्रमित्राय नमः ।
ॐ मंदारखाय नमः ।
ॐ शिखिनॆंधपकाय नमः ।
ॐ अंतर्वॆदिनॆ नमः ।
ॐ ईश्वराय नमः ।
ॐ जैमिनिगॊत्रजाय नमः ।
ॐ चित्रगुप्तात्मनॆ नमः ॥ ४० ॥


ॐ दक्षिणाभिमुखाय नमः ।
ॐ मुकुंदवरप्रदाय नमः ।
ॐ महासुरकुलॊद्भवाय नमः ।
ॐ घनवर्णाय नमः ।
ॐ लघुदॆहाय नमः ।
ॐ मृत्युपुत्राय नमः ।
ॐ उत्पातरूपधारिणॆ नमः ।
ॐ अदृश्याय नमः ।
ॐ कालाग्निसन्निभाय नमः ।
ॐ नृपीठाय नमः ॥ ५० ॥


ॐ ग्रहकारिणॆ नमः ।
ॐ सर्वॊपद्रवकारकाय नमः ।
ॐ चित्रप्रसूताय नमः ।
ॐ अनलाय नमः ।
ॐ सर्वव्याधिविनाशकाय नमः ।
ॐ अपसव्यप्रचारिणॆ नमः ।
ॐ नवमॆपापदायकाय नमः ।
ॐ पंचमॆशॊकदाय नमः ।
ॐ उपरागगॊचराय नमः ।
ॐ पुरुषकर्मणॆ नमः ॥ ६० ॥


ॐ तुरीयॆस्थॆसुखप्रदाय नमः ।
ॐ तृतीयॆवैरदाय नमः ।
ॐ पापग्रहाय नमः ।
ॐ स्फॊटकारकाय नमः ।
ॐ प्राणनाथाय नमः ।
ॐ पंचमॆश्रमकारकाय नमः ।
ॐ द्वितीयॆस्फुटवाग्धात्रॆ नमः ।
ॐ विषाकुलितवक्त्राय नमः ।
ॐ कामरूपिणॆ नमः ।
ॐ सिंहदंताय नमः ॥ ७० ॥


ॐ सत्यॊपनृतवतॆ नमः ।
ॐ चतुर्थॆवमातृनाशाय नमः ।
ॐ नवमॆपितृनाशाय नमः ।
ॐ अंतॆवैरप्रदाय नमः ।
ॐ सुतानंदनबंधकाय नमः ।
ॐ सर्पाक्षिजाताय नमः ।
ॐ अनंगाय नमः ।
ॐ कर्मराश्शुद्भवाय नमः ।
ॐ अपांतॆकीर्तिदाय नमः ।
ॐ सप्तमॆकलहप्रदाय नमः ।
ॐ अष्टमॆव्याधिकर्त्रॆ नमः ।
ॐ धनॆबहुसुखप्रदाय नमः ।
ॐ जननॆरॊगदाय नमः ।
ॐ ऊर्ध्वमूर्धजाय नमः ।
ॐ ग्रहनायकाय नमः ।
ॐ पापदृष्टयॆ नमः ।
ॐ खॆचराय नमः ।
ॐ शांभवाय नमः ।
ॐ आशॆषपूजिताय नमः ।
ॐ शाश्वताय नमः ॥ ९० ॥


ॐ वटाय नमः ।
ॐ शुभाशुभफलप्रदाय नमः ।
ॐ धूम्राय नमः ।
ॐ सुधापायिनॆ नमः ।
ॐ अजिताय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ सिंहासनाय नमः ।
ॐ कॆतुमूर्तयॆ नमः ।
ॐ रवींदुद्युतिनाशकाय नमः ।
ॐ अमराय नमः ॥ १०० ॥


ॐ पीठकाय नमः ।
ॐ विष्णुदृष्टाय नमः ।
ॐ अमरॆश्वराय नमः ।
ॐ भक्तरक्षकाय नमः ।
ॐ वैचित्र्यकपॊलस्यंदनाय नमः ।
ॐ विचित्रफलदायिनॆ नमः ।
ॐ भक्ताभीष्टफलदाय नमः ।
ॐ कॆतवॆ नमः ॥ १०८ ॥


॥ इति केतु अष्टोत्तर शतनामावली संपूर्णम्‌ ॥

 केतु ग्रह के मंत्र || 


केतु ग्रह का वैदिक मंत्र || 

“ॐ केतुं कृण्वन्नकेतवे पेशो मर्य्याऽपेशसे। समुषभ्दिरजायथाः”।।


केतु ग्रह का तांत्रिक मंत्र || 

“ऊँ स्रां स्रीं स्रौं सः केतवे नमः”।


केतु ग्रह का एकाक्षरी बीज मंत्र ||

“ऊँ कें केतवे नम:” ।।


केतु ग्रह का पौराणिक मंत्र || 

“ॐ पलाश पुष्प सकाशं तारका ग्रह मस्तकम्। रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम्” ।।


केतु ग्रह का गायत्री मंत्र || 

“ॐ पद्म पुत्राय विद्महे अमृतेशाय धीमहि तन्नो केतु प्रचोदयात्” ।।