Showing posts with label ग्रह शुक्र देव. Show all posts
Showing posts with label ग्रह शुक्र देव. Show all posts

Saturday, February 13, 2021


शुक्र ग्रह कवच - 



अथ शुक्रकवचम्


अस्य श्रीशुक्रकवचस्तोत्रमंत्रस्य भारद्वाज ऋषिः ।


अनुष्टुप् छन्दः । शुक्रो देवता ।


शुक्रप्रीत्यर्थं जपे विनियोगः ॥


मृणालकुन्देन्दुषयोजसुप्रभं पीतांबरं प्रस्रुतमक्षमालिनम् ।


समस्तशास्त्रार्थनिधिं महांतं ध्यायेत्कविं वांछितमर्थसिद्धये ॥ १ ॥


ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः ।


नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनदयुतिः ॥ २ ॥


पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः ।


जिह्वा मे चोशनाः पातु कंठं श्रीकंठभक्तिमान् ॥ ३ ॥


भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ।


नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः॥ ४ ॥


कटिं मे पातु विश्वात्मा ऊरु मे सुरपूजितः ।


जानू जाड्यहरः पातु जंघे ज्ञानवतां वरः ॥ ५ ॥


गुल्फ़ौ गुणनिधिः पातु पातु पादौ वरांबरः ।


सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ॥ ६ ॥


य इदं कवचं दिव्यं पठति श्रद्धयान्वितः ।


न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥ ७ ॥


॥ इति श्रीब्रह्मांडपुराणे शुक्रकवचं संपूर्णं ॥
शुक्र स्तोत्र || 



नमस्ते भार्गव श्रेष्ठ देव दानव पूजित ।


वृष्टिरोधप्रकर्त्रे च वृष्टिकर्त्रे नमो नम: ।।1।।


देवयानीपितस्तुभ्यं वेदवेदांगपारग: ।


परेण तपसा शुद्ध शंकरो लोकशंकर: ।।2।।


प्राप्तो विद्यां जीवनाख्यां तस्मै शुक्रात्मने नम: ।


नमस्तस्मै भगवते भृगुपुत्राय वेधसे ।।3।।


तारामण्डलमध्यस्थ स्वभासा भसिताम्बर: ।


यस्योदये जगत्सर्वं मंगलार्हं भवेदिह ।।4।।


अस्तं याते ह्यरिष्टं स्यात्तस्मै मंगलरूपिणे ।


त्रिपुरावासिनो दैत्यान शिवबाणप्रपीडितान ।।5।।


विद्यया जीवयच्छुक्रो नमस्ते भृगुनन्दन ।


ययातिगुरवे तुभ्यं नमस्ते कविनन्दन ।6।।


बलिराज्यप्रदो जीवस्तस्मै जीवात्मने नम: ।


भार्गवाय नमस्तुभ्यं पूर्वं गीर्वाणवन्दितम ।।7।।


जीवपुत्राय यो विद्यां प्रादात्तस्मै नमोनम: ।


नम: शुक्राय काव्याय भृगुपुत्राय धीमहि ।।8।।


नम: कारणरूपाय नमस्ते कारणात्मने ।


स्तवराजमिदं पुण्य़ं भार्गवस्य महात्मन: ।।9।।


य: पठेच्छुणुयाद वापि लभते वांछित फलम ।


पुत्रकामो लभेत्पुत्रान श्रीकामो लभते श्रियम ।।10।।


राज्यकामो लभेद्राज्यं स्त्रीकाम: स्त्रियमुत्तमाम ।


भृगुवारे प्रयत्नेन पठितव्यं सामहितै: ।।11।।


अन्यवारे तु होरायां पूजयेद भृगुनन्दनम ।


रोगार्तो मुच्यते रोगाद भयार्तो मुच्यते भयात ।।12।।


यद्यत्प्रार्थयते वस्तु तत्तत्प्राप्नोति सर्वदा ।


प्रात: काले प्रकर्तव्या भृगुपूजा प्रयत्नत: ।।13।।


सर्वपापविनिर्मुक्त: प्राप्नुयाच्छिवसन्निधि: ।।14।।


।। इति स्कन्दपुराणे शुक्रस्तोत्रम ।।

शुक्र अष्टोत्तर शतनामावली ||


ॐ शुक्राय नमः ।
ॐ शुचयॆ नमः ।
ॐ शुभगुणाय नमः ।
ॐ शुभदाय नमः ।
ॐ शुभलक्षणाय नमः ।
ॐ शॊभनाक्षाय नमः ।
ॐ शुभ्रवाहाय नमः ।
ॐ शुद्धस्फटिकभास्वराय नमः ।
ॐ दीनार्तिहारकाय नमः ।
ॐ दैत्यगुरवॆ नमः ॥ १० ॥


ॐ दॆवाभिवंदिताय नमः ।
ॐ काव्यासक्ताय नमः ।
ॐ कामपालाय नमः ।
ॐ कवयॆ नमः ।
ॐ कल्याणदायकाय नमः ।
ॐ भद्रमूर्तयॆ नमः ।
ॐ भद्रगुणाय नमः ।
ॐ भार्गवाय नमः ।
ॐ भक्तपालनाय नमः ।
ॐ भॊगदाय नमः ॥ २० ॥


ॐ भुवनाध्यक्षाय नमः ।
ॐ भुक्तिमुक्तिफलप्रदाय नमः ।
ॐ चारुशीलाय नमः ।
ॐ चारुरूपाय नमः ।
ॐ चारुचंद्रनिभाननाय नमः ।
ॐ निधयॆ नमः ।
ॐ निखिलशास्त्रज्ञाय नमः ।
ॐ नीतिविद्याधुरंधराक्षाय नमः ।
ॐ सर्वलक्षणसंपन्नाय नमः ।
ॐ सर्वापद्गुणवर्जिताय नमः ॥ ३० ॥


ॐ समानाधिकनिर्मुक्ताय नमः ।
ॐ सकलागमपारगाय नमः ।
ॐ भृगवॆ नमः ।
ॐ भॊगकराय नमः ।
ॐ भूमिसुरपालनतत्पराय नमः ।
ॐ मनस्विनॆ नमः ।
ॐ मानदाय नमः ।
ॐ मान्याय नमः ।
ॐ मायातीताय नमः ।
ॐ महायशसॆ नमः ॥ ४० ॥


ॐ बलिप्रसन्नाय नमः ।
ॐ अभयदाय नमः ।
ॐ बलिनॆ नमः ।
ॐ बलपराक्रमाय नमः ।
ॐ भवपाशपरित्यागाय नमः ।
ॐ बलिबंधविमॊचकाय नमः ।
ॐ घनाशयाय नमः ।
ॐ घनाध्यक्षाय नमः ।
ॐ कंबुग्रीवायै नमः ।
ॐ कळाधराय नमः । । ५० ॥


ॐ कारुण्यरससंपूर्णाय नमः ।
ॐ कल्याणगुणवर्धनाय नमः ।
ॐ श्वॆतांबराय नमः ।
ॐ श्वॆतवपुषॆ नमः ।
ॐ चतुर्भुजसमन्विताय नमः ।
ॐ अक्षमालाधराय नमः ।
ॐ अचिंत्याय नमः ।
ॐ अक्षीणगुणभासुराय नमः ।
ॐ नक्षत्रगणसंचाराय नमः ।
ॐ नयदाय नमः ॥ ६० ॥


ॐ नीतिमार्गदाय नमः ।
ॐ वर्षप्रदाय नमः ।
ॐ हृषीकॆशाय नमः ।
ॐ क्लॆशनाशकराय नमः ।
ॐ कवयॆ नमः ।
ॐ चिंतितार्थप्रदाय नमः ।
ॐ शांतमतयॆ नमः ।
ॐ चित्तसमाधिकृतॆ नमः ।
ॐ आदिव्याधिहराय नमः ।
ॐ भूरिविक्रमाय नमः ॥ ७० ॥


ॐ पुण्यदायकाय नमः ।
ॐ पुराणपुरुषाय नमः ।
ॐ पूज्याय नमः ।
ॐ पुरुहूतादिसन्नुताय नमः ।
ॐ अजॆयाय नमः ।
ॐ विजितारातयॆ नमः ।
ॐ विविधाभरणॊज्ज्वलाय नमः ।
ॐ कुंदपुष्पप्रतीकाशाय नमः ।
ॐ मंदहासाय नमः ।
ॐ महामतयॆ नमः ॥ ८० ॥


ॐ मुक्ताफलसमानाभाय नमः ।
ॐ मुक्तिदाय नमः ।
ॐ मुनिसन्नुताय नमः ।
ॐ रत्नसिंहासनारूढाय नमः ।
ॐ रथस्थाय नमः ।
ॐ रजतप्रभाय नमः ।
ॐ सूर्यप्राग्दॆशसंचाराय नमः ।
ॐ सुरशत्रुसुहृदॆ नमः ।
ॐ कवयॆ नमः ।
ॐ तुलावृषभराशीशाय नमः ॥ ९० ॥


ॐ दुर्धराय नमः ।
ॐ धर्मपालकाय नमः ।
ॐ भाग्यदाय नमः ।
ॐ भव्यचारित्राय नमः ।
ॐ भवपाशविमॊचकाय नमः ।
ॐ गौडदॆशॆश्वराय नमः ।
ॐ गॊप्त्रॆ नमः ।
ॐ गुणिनॆ नमः ।
ॐ गुणविभूषणाय नमः ।
ॐ ज्यॆष्ठानक्षत्रसंभूताय नमः ॥ १०० ॥


ॐ ज्यॆष्ठाय नमः ।
ॐ श्रॆष्ठाय नमः ।
ॐ शुचिस्मिताय नमः ।
ॐ अपवर्गप्रदाय नमः ।
ॐ अनंताय नमः ।
ॐ संतानफलदायकाय नमः ।
ॐ सर्व्यैश्वर्यप्रदायकाय नमः ।
ॐ सर्वगीर्वाणगणसन्नुताय नमः ॥ १०८ ॥


॥ इति शुक्राष्टॊत्तर शतनामावळीः संपूर्णम्‌ ॥

Friday, February 12, 2021

शुक्र ग्रह के मंत्र 

शुक्र वैदिक मंत्र |

ऊँ अन्नात्परिस्रुतो रसं ब्रह्मणा व्यपिबत क्षत्रं पय: सेमं प्रजापति: ।

शुक्र तांत्रिक मंत्र || 

ऊँ ह्रीं श्रीं शुक्राय नम:
ऊँ द्रां द्रीं द्रौं स: शुक्राय नम:
ऊँ वस्त्रं मे देहि शुक्राय स्वाहा

शुक्र एकाक्षरी बीज मंत्र ||

ऊँ शुं शुक्राय नम:


शुक्र का पौराणिक मंत्र || 

ऊँ हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम ।।


शुक्र गायत्री मंत्र || 

“ॐ भृगुराजाय विद्महे दिव्य देहाय धीमहि तन्नो शुक्र प्रचोदयात्” ।।