Showing posts with label श्री राम देव. Show all posts
Showing posts with label श्री राम देव. Show all posts

Saturday, April 10, 2021

श्री राम अष्टोत्तर शतनामावली

ॐ श्रीरामाय नमः ।
ॐ रामभद्राय नमः ।
ॐ रामचंद्राय नमः ।
ॐ शाश्वताय नमः ।
ॐ राजीवलॊचनाय नमः ।
ॐ श्रीमतॆ नमः ।
ॐ राजॆंद्राय नमः ।
ॐ रघुपुंगवाय नमः ।
ॐ जानकीवल्लभाय नमः ।
ॐ चैत्राय नमः ॥ १० ॥

ॐ जितमित्राय नमः ।
ॐ जनार्दनाय नमः ।
ॐ विश्वामित्र प्रियाय नमः ।
ॐ दांताय नमः ।
ॐ शरण्यत्राणतत्पराय नमः ।
ॐ वालिप्रमथनाय नमः ।
ॐ वाग्मिनॆ नमः ।
ॐ सत्यवाचॆ नमः ।
ॐ सत्यविक्रमाय नमः ।
ॐ सत्यव्रताय नमः ॥ २० ॥

ॐ व्रतधराय नमः ।
ॐ सदाहनुमदाश्रिताय नमः ।
ॐ कौसलॆयाय नमः ।
ॐ खरध्वंसिनॆ नमः ।
ॐ विराधवधपंडिताय नमः ।
ॐ विभीषणपरित्राणाय नमः  ।
 ॐ हरकॊदंडखंडनाय नमः ।
ॐ सप्तताळप्रभॆत्त्रॆ नमः ।
ॐ दशग्रीवशिरॊहराय नमः ।
ॐ जामदग्न्यमहादर्प दळनाय नमः ॥ ३० ॥

ॐ ताटकांतकाय नमः ।
ॐ वॆदांतसाराय नमः ।
ॐ वॆदात्मनॆ नमः ।
ॐ भवरॊगैकस्यभॆषजाय नमः ।
ॐ दूषणत्रिशिरॊहंत्रॆ नमः ।
ॐ त्रिमूर्तयॆ नमः ।
ॐ त्रिगुणात्मकाय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ त्रिलॊकात्मनॆ नमः ।
ॐ पुण्यचारित्रकीर्तनाय नमः ॥ ४० ॥

ॐ त्रिलॊकरक्षकाय नमः ।
ॐ धन्विनॆ नमः ।
ॐ दंडकारण्यकर्तनाय नमः ।
ॐ अहल्याशापशमनाय नमः ।
ॐ पितृभक्ताय नमः ।
ॐ वरप्रदाय नमः ।
ॐ जितॆंद्रियाय नमः ।
ॐ जितक्रॊधाय नमः ।
ॐ जितमित्राय नमः ।
ॐ जगद्गुरवॆ नमः ॥ ५० ॥

ॐ यक्षवानरसंघातिनॆ नमः ।
ॐ चित्रकूटसमाश्रयाय नमः ।
ॐ जयंतत्राणवरदाय नमः ।
ॐ सुमित्रापुत्रसॆविताय नमः ।
ॐ सर्वदॆवाधिदॆवाय नमः ।
ॐ मृतवानरजीवनाय नमः ।
ॐ मायामारीचहंत्रॆ नमः ।
ॐ महादॆवाय नमः ।
ॐ महाभुजाय नमः ।
ॐ सर्वदॆवस्तुताय नमः ॥ ६० ॥

ॐ स्ॐयाय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ मुनिसंस्तुताय नमः ।
ॐ महायॊगिनॆ नमः ।
ॐ महॊदराय नमः ।
ॐ सुग्रीवॆप्सितराज्यदाय नमः ।
ॐ सर्वपुण्याधिकफलाय नमः ।
ॐ स्मृतसर्वाघनाशनाय नमः ।
ॐ आदिपुरुषाय नमः ।
ॐ परम पुरुषाय नमः ॥ ७० ॥

ॐ महापुरुषाय नमः ।
ॐ पुण्यॊदयाय नमः ।
ॐ दयासाराय नमः ।
ॐ पुराणपुरुषॊत्तमाय नमः ।
ॐ स्मितवक्त्राय नमः ।
ॐ मितभाषिणॆ नमः ।
ॐ पूर्वभाषिणॆ नमः ।
ॐ राघवाय नमः ।
ॐ अनंतगुणगंभीराय नमः ।
ॐ धीरॊदात्तगुणॊत्तराय नमः ॥ ८० ॥

ॐ मायामानुषचारित्राय नमः ।
ॐ महादॆवादिपूजिताय नमः ।
ॐ सॆतुकृतॆ नमः ।
ॐ जितवाराशयॆ नमः ।
ॐ सर्वतीर्थमयाय नमः ।
ॐ हरयॆ नमः ।
ॐ श्यामांगाय नमः ।
ॐ सुंदराय नमः ।
ॐ शूराय नमः ।
ॐ पीतवासाय नमः ॥ ९० ॥

ॐ धनुर्धराय नमः ।
ॐ सर्वयज्ञाधिपाय नमः ।
ॐ यज्ञाय नमः ।
ॐ जरामरणवर्जिताय नमः ।
ॐ विभीषण प्रतिष्ठात्रॆ नमः ।
ॐ सर्वापगुणवर्जिताय नमः ।
ॐ परमात्मनॆ नमः ।
ॐ परस्मैब्रह्मणॆ नमः ।
ॐ सच्चिदानंदविग्रहाय नमः ।
ॐ परस्मैज्यॊतिषॆ नमः ॥ १०० ॥


ॐ परस्मैधाम्नॆ नमः ।
ॐ पराकाशाय नमः ।
ॐ परात्परस्मै नमः ।
ॐ परॆशाय नमः ।
ॐ पारगाय नमः ।
ॐ पाराय नमः ।
ॐ सर्वदॆवात्मकाय नमः ।
ॐ परस्मै नमः ॥ १०८ ॥

Wednesday, March 17, 2021

 राम अष्टोत्तर शतनाम स्तोत्रम् -


अथ श्रीमदानन्दरामायणान्तर्गत श्री रामाष्टोत्तरशतनाम स्तोत्रम्



विष्णुदास उवाच-


अस्य श्रीरामचन्द्रनामाष्टोत्तरशतमन्त्रस्य ब्रह्मा ऋषिः


अनुष्टुप् छन्दः जानकीवल्लभः श्रीरामचन्द्रो देवता


बीजम् नमः शक्तिः श्रीरामचन्द्रः कीलकम्


श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः



अङ्गुलीन्यासः


नमो भगवते राजाधिराजाय परमात्मने अङ्गुष्ठाभ्यां नमः


नमो भगवते विद्याधिराजाय हयग्रीवाय तर्जनीभ्यां नमः


नमो भगवते जानकीवल्लभाय मध्यमाभ्यां नमः


नमो भगवते रघुनन्दनायामिततेजसे अनामिकाभ्यां नमः


नमो भगवते क्षीराब्धिमध्यस्थाय नारायणाय कनिष्ठिकाभ्यां नमः


नमो भगवते सत्प्रकाशाय रामाय करतलकरपृष्ठाभ्यां नमः


षडङ्गन्यासः


नमो भगवते राजाधिराजाय परमात्मने हृदयाय नमः


नमो भगवते विद्याधिराजाय हयग्रीवाय शिरसे स्वाहा




नमो भगवते जानकीवल्लभाय शिखायै वषट्


नमो भगवते रघुनन्दनायामिततेजसे कवचाय हुम्




नमो भगवते क्षीराब्धिमध्यस्थाय नारायणाय नेत्रत्रयाय वौषट्


नमो भगवते सत्प्रकाशाय रामाय अस्त्राय फट् इति दिग्बन्धः


अथ ध्यानम्


मन्दाराकृतिपुण्यधामविलसद्वक्षस्थलं कोमलं,

शान्तं कान्तमहेन्द्रनीलरुचिराभासं सहस्राननम्


वन्देऽहं रघुनन्दनं सुरपतिं कोदण्डदीक्षागुरुं,


रामं सर्वजगत्सुसेवितपदं सीतामनोवल्लभम् १६॥


अथ स्तोत्रम्


सहस्रशीर्ष्णे वै तुभ्यं सहस्राक्षाय ते नमः

नमः सहस्रहस्ताय सहस्रचरणाय १७॥


नमो जीमूतवर्णाय नमस्ते विश्वतोमुख

अच्युताय नमस्तुभ्यं नमस्ते शेषशायिने १८॥


नमो हिरण्यगर्भाय पञ्चभूतात्मने नमः

नमो मूलप्रकृतये देवानां हितकारिणे १९॥


नमस्ते सर्वलोकेश सर्वदुःखनिषूदन

शङ्खचक्रगदापद्मजटामुकुटधारिणे २०॥


नमो गर्भाय तत्त्वाय ज्योतिषां ज्योतिषे नमः

नमो वासुदेवाय नमो दशरथात्मज २१॥


नमो नमस्ते राजेन्द्र सर्वसम्पत्प्रदाय

नमः कारुण्यरूपाय कैकेयीप्रियकारिणे २२॥


नमो दन्ताय शान्ताय विश्वामित्रप्रियाय ते

यज्ञेशाय नमस्तुभ्यं नमस्ते क्रतुपालक २३॥


नमो नमः केशवाय नमो नाथाय शर्ङ्गिणे

नमस्ते रामचन्द्राय नमो नारायणाय २४॥


नमस्ते रामचन्द्राय माधवाय नमो नमः

गोविन्द्राय नमस्तुभ्यं नमस्ते परमात्मने २५॥


नमस्ते विष्णुरूपाय रघुनाथाय ते नमः

नमस्तेऽनाथनाथाय नमस्ते मधुसूदन २६॥


त्रिविक्रम नमस्तेऽस्तु सीतायाः पतये नमः


वामनाय नमस्तुभ्यं नमस्ते राघवाय २७॥


नमो नमः श्रीधराय जानकीवल्लभाय

नमस्तेऽस्तु हृषीकेश कन्दर्पाय नमो नमः २८॥


नमस्ते पद्मनाभाय कौसल्याहर्षकारिणे

नमो राजीवनेत्राय नमस्ते लक्ष्मणाग्रज २९॥


नमो नमस्ते काकुत्स्थ नमो दामोदराय

विभीषणपरित्रातर्नमः सङ्कर्षणाय ३०॥


वासुदेव नमस्तेऽस्तु नमस्ते शङ्करप्रिय

प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ३१॥


सदसद्भक्तिरूपाय नमस्ते पुरुषोत्तम

अधोक्षज नमस्तेऽस्तु सप्ततालहराय ३२॥


खरदूषणसंहर्त्रे श्रीनृसिम्हाय ते नमः

अच्युताय नमस्तुभ्यं नमस्ते सेतुबन्धक ३३॥


जनार्दन नमस्तेऽस्तु नमो हनुमदाश्रय

उपेन्द्रचन्द्रवन्द्याय मारीचमथनाय ३४॥


नमो बालिप्रहरण नमः सुग्रीवराज्यद

जामदग्न्यमहादर्पहराय हरये नमः ३५॥



नमो नमस्ते कृष्णाय नमस्ते भरताग्रज

नमस्ते पितृभक्ताय नमः शत्रुघ्नपूर्वज ३६॥


अयोध्याधिपते तुभ्यं नमः शत्रुघ्नसेवित

नमो नित्याय सत्याय बुद्ध्यादिज्ञानरूपिणे ३७॥


अद्वैतब्रह्मरूपाय ज्ञानगम्याय ते नमः

नमः पूर्णाय रम्याय माधवाय चिदात्मने ३८॥


अयोध्येशाय श्रेष्ठाय चिन्मात्राय परात्मने

नमोऽहल्योद्धारणाय नमस्ते चापभञ्जिने ३९॥


सीतारामाय सेव्याय स्तुत्याय परमेष्ठिने

नमस्ते बाणहस्ताय नमः कोदण्डधारिणे ४०॥


नमः कबन्धहन्त्रे वालिहन्त्रे नमोऽस्तु ते

नमस्तेऽस्तु दशग्रीवप्राणसंहारकारिणे ४१॥


अष्टोत्तरशतं नाम्नां रमचन्द्रस्य पावनम्

एतत्प्रोक्तं मया श्रेष्ठ सर्वपातकनाशनम् ४२॥


प्रचरिष्यति तल्लोके प्राण्यदृष्टवशाद्द्विज

तस्य कीर्तनमात्रेण जना यास्यन्ति सद्गतिम् ४३॥


तावद्विजृम्भते पापं ब्रह्महत्यापुरःसरम्।

यावन्नामाष्टकशतं पुरुषो हि कीर्तयेत् ४४॥


तावत्कलेर्महोत्साहो निःशङ्कं सम्प्रवर्तते

यावच्छ्रीरामचन्द्रस्य शतनाम्नां कीर्तनम् ४६॥



तावत्स्वरूपं रामस्य दुर्बोधं प्राणिनां स्फुटम्

यावन्न निष्ठया रामनाममाहात्म्यमुत्तमम् ४७॥



कीर्तितं पठितं चित्ते धृतं संस्मारितं मुदा

अन्यतः शृणुयान्मर्त्यः सोऽपि मुच्येत पातकात् ४८॥



ब्रह्महत्यादिपापानां निष्कृतिं यदि वाञ्छति

रामस्तोत्रं मासमेकं पठित्वा मुच्यते नरः ४९॥



दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसम्भवम्

पापं सकृत्कीर्तनेन रामस्तोत्रं विनाशयेत् ५०॥



श्रुतिस्मृतिपुराणेतिहासागमशतानि

अर्हन्ति नाल्पां श्रीरामनामकीर्तिकलामपि ५१॥



अष्टोत्तरशतं नाम्नां सीतारामस्य पावनम्

अस्य सङ्कीर्तनादेव सर्वान् कामान् लभेन्नरः ५२॥



पुत्रार्थी लभते पुत्रान् धनार्थी धनमाप्नुयात्

स्त्रियं प्राप्नोति पत्न्यर्थी स्तोत्रपाठश्रवादिना ५३॥



कुम्भोदरेण मुनिना येन स्तोत्रेण राघवः

स्तुतः पूर्वं यज्ञवाटे तदेतत्त्वां मयोदितम् ५४॥


Saturday, February 20, 2021

श्री राम की आरती - 


श्री रामचन्द्र कृपालु भजु मन,
हरण भवभय दारुणम्।

नव कंज लोचन, कंज मुख
कर कंज पद कंजारुणम्॥

॥श्री रामचन्द्र कृपालु..॥

कन्दर्प अगणित अमित छवि,
नव नील नीरद सुन्दरम्।

पट पीत मानहुं तड़ित रूचि-शुचि
नौमि जनक सुतावरम्॥

॥श्री रामचन्द्र कृपालु..॥

भजु दीनबंधु दिनेश दानव
दैत्य वंश निकन्दनम्।

रघुनन्द आनन्द कन्द कौशल
चन्द्र दशरथ नन्द्नम्॥


॥श्री रामचन्द्र कृपालु..॥

सिर मुकुट कुंडल तिलक चारू
उदारु अंग विभूषणम्।

आजानुभुज शर चाप-धर,
संग्राम जित खरदूषणम्॥

॥श्री रामचन्द्र कृपालु..॥

इति वदति तुलसीदास,
शंकर शेष मुनि मन रंजनम्।

मम ह्रदय कंज निवास कुरु,
कामादि खल दल गंजनम्॥

॥श्री रामचन्द्र कृपालु..॥

मन जाहि राचेऊ मिलहि सो वर
सहज सुन्दर सांवरो।

करुणा निधान सुजान शील
सनेह जानत रावरो॥

॥श्री रामचन्द्र कृपालु..॥

॥ इति श्री राम आरती॥
श्री राम अष्टकम || 


भजे विशेषसुन्दरं समस्तपापखण्डनम् ।

स्वभक्तचित्तरञ्जनं सदैव राममद्वयम् ॥ १ ॥


जटाकलापशोभितं समस्तपापनाशकं ।

स्वभक्तभीतिभञ्जनं भजे ह राममद्वयम् ॥ २ ॥


निजस्वरूपबोधकं कृपाकरं भवापहम् ।

समं शिवं निरञ्जनं भजे ह राममद्वयम् ॥ ३ ॥


सहप्रपञ्चकल्पितं ह्यनामरूपवास्तवम् ।

निराकृतिं निरामयं भजे ह राममद्वयम् ॥ ४ ॥


निष्प्रपञ्चनिर्विकल्पनिर्मलं निरामयम् ।

चिदेकरूपसन्ततं भजे ह राममद्वयम् ॥ ५ ॥


भवाब्धिपोतरूपकं ह्यशेषदेहकल्पितम् ।

गुणाकरं कृपाकरं भजे ह राममद्वयम् ॥ ६ ॥


महावाक्यबोधकैर्विराजमानवाक्पदैः ।

परं ब्रह्मसद्व्यापकं भजे ह राममद्वयम् ॥ ७ ॥


शिवप्रदं सुखप्रदं भवच्छिदं भ्रमापहम् ।

विराजमानदेशिकं भजे ह राममद्वयम् ॥ ८ ॥


रामाष्टकं पठति यस्सुखदं सुपुण्यं ।

व्यासेन भाषितमिदं शृणुते मनुष्यः ॥ ९ ॥


विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं ।

संप्राप्य देहविलये लभते च मोक्षम् ॥ १० ॥

श्री राम रक्षा स्तोत्र ||

। श्रीगणेशायनम: ।
। अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य ।

बुधकौशिक ऋषि: ।
श्रीसीतारामचंद्रोदेवता ।

अनुष्टुप्‌ छन्द: । सीता शक्ति: ।

श्रीमद्‌हनुमान्‌ कीलकम्‌ ।

श्रीसीतारामचंद्रप्रीत्यर्थे जपे विनियोग: ॥

॥ अथ ध्यानम्‌ ॥

ध्यायेदाजानुबाहुं धृतशरधनुषं बद्दद्पद्‌मासनस्थं ।

पीतं वासोवसानं नवकमलदलस्पर्धिनेत्रं प्रसन्नम्‌ ॥

वामाङ्‌कारूढसीता मुखकमलमिलल्लोचनं नीरदाभं ।

नानालङ्‌कारदीप्तं दधतमुरुजटामण्डनं रामचंद्रम्‌ ॥

॥ इति ध्यानम्‌ ॥

चरितं रघुनाथस्य शतकोटिप्रविस्तरम्‌ । एकैकमक्षरं पुंसां महापातकनाशनम्‌ ॥१॥

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनम्‌ । जानकीलक्ष्मणॊपेतं जटामुकुटमण्डितम्‌ ॥२॥

सासितूणधनुर्बाणपाणिं नक्तं चरान्तकम्‌ । स्वलीलया जगत्त्रातुमाविर्भूतमजं विभुम्‌ ॥३॥

रामरक्षां पठॆत्प्राज्ञ: पापघ्नीं सर्वकामदाम्‌ । शिरो मे राघव: पातु भालं दशरथात्मज: ॥४॥

कौसल्येयो दृशौ पातु विश्वामित्रप्रिय: श्रुती । घ्राणं पातु मखत्राता मुखं सौमित्रिवत्सल: ॥५॥

जिव्हां विद्दानिधि: पातु कण्ठं भरतवंदित: । स्कन्धौ दिव्यायुध: पातु भुजौ भग्नेशकार्मुक: ॥६॥

करौ सीतपति: पातु हृदयं जामदग्न्यजित्‌ । मध्यं पातु खरध्वंसी नाभिं जाम्बवदाश्रय: ॥७॥

सुग्रीवेश: कटी पातु सक्थिनी हनुमत्प्रभु: । ऊरू रघुत्तम: पातु रक्ष:कुलविनाशकृत्‌ ॥८॥

जानुनी सेतुकृत्पातु जङ्‌घे दशमुखान्तक: । पादौ बिभीषणश्रीद: पातु रामोSखिलं वपु: ॥९॥

एतां रामबलोपेतां रक्षां य: सुकृती पठॆत्‌ । स चिरायु: सुखी पुत्री विजयी विनयी भवेत्‌ ॥१०॥

पातालभूतलव्योम चारिणश्छद्‌मचारिण: । न द्र्ष्टुमपि शक्तास्ते रक्षितं रामनामभि: ॥११॥

रामेति रामभद्रेति रामचंद्रेति वा स्मरन्‌ । नरो न लिप्यते पापै भुक्तिं मुक्तिं च विन्दति ॥१२॥

जगज्जेत्रैकमन्त्रेण रामनाम्नाभिरक्षितम्‌ । य: कण्ठे धारयेत्तस्य करस्था: सर्वसिद्द्दय: ॥१३॥

वज्रपंजरनामेदं यो रामकवचं स्मरेत्‌ । अव्याहताज्ञ: सर्वत्र लभते जयमंगलम्‌ ॥१४॥

आदिष्टवान्‌ यथा स्वप्ने रामरक्षामिमां हर: । तथा लिखितवान्‌ प्रात: प्रबुद्धो बुधकौशिक: ॥१५॥

आराम: कल्पवृक्षाणां विराम: सकलापदाम्‌ । अभिरामस्त्रिलोकानां राम: श्रीमान्‌ स न: प्रभु: ॥१६॥

तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ । पुण्डरीकविशालाक्षौ चीरकृष्णाजिनाम्बरौ ॥१७॥

फलमूलशिनौ दान्तौ तापसौ ब्रह्मचारिणौ । पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ ॥१८॥

शरण्यौ सर्वसत्वानां श्रेष्ठौ सर्वधनुष्मताम्‌ । रक्ष:कुलनिहन्तारौ त्रायेतां नो रघुत्तमौ ॥१९॥

आत्तसज्जधनुषा विषुस्पृशा वक्षया शुगनिषङ्‌ग सङि‌गनौ । रक्षणाय मम रामलक्ष्मणा वग्रत: पथि सदैव गच्छताम्‌ ॥२०॥

संनद्ध: कवची खड्‌गी चापबाणधरो युवा । गच्छन्‌मनोरथोSस्माकं राम: पातु सलक्ष्मण: ॥२१॥

रामो दाशरथि: शूरो लक्ष्मणानुचरो बली । काकुत्स्थ: पुरुष: पूर्ण: कौसल्येयो रघुत्तम: ॥२२॥

वेदान्तवेद्यो यज्ञेश: पुराणपुरुषोत्तम: । जानकीवल्लभ: श्रीमानप्रमेय पराक्रम: ॥२३॥

इत्येतानि जपेन्नित्यं मद्‌भक्त: श्रद्धयान्वित: । अश्वमेधायुतं पुण्यं संप्राप्नोति न संशय: ॥२४॥

रामं दूर्वादलश्यामं पद्‌माक्षं पीतवाससम्‌ । स्तुवन्ति नामभिर्दिव्यैर्न ते संसारिणो नर: ॥२५॥

रामं लक्शमण पूर्वजं रघुवरं सीतापतिं सुंदरम्‌ । काकुत्स्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकम्‌

राजेन्द्रं सत्यसंधं दशरथनयं श्यामलं शान्तमूर्तिम्‌ । वन्दे लोकभिरामं रघुकुलतिलकं राघवं रावणारिम्‌ ॥२६॥

रामाय रामभद्राय रामचंद्राय वेधसे । रघुनाथाय नाथाय सीताया: पतये नम: ॥२७॥

श्रीराम राम रघुनन्दन राम राम । श्रीराम राम भरताग्रज राम राम ।

श्रीराम राम रणकर्कश राम राम । श्रीराम राम शरणं भव राम राम ॥२८॥

श्रीरामचन्द्रचरणौ मनसा स्मरामि । श्रीरामचन्द्रचरणौ वचसा गृणामि ।

श्रीरामचन्द्रचरणौ शिरसा नमामि । श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ॥२९॥

माता रामो मत्पिता रामचंन्द्र: । स्वामी रामो मत्सखा रामचंद्र: ।

सर्वस्वं मे रामचन्द्रो दयालु । नान्यं जाने नैव जाने न जाने ॥३०॥

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा । पुरतो मारुतिर्यस्य तं वन्दे रघुनंदनम्‌ ॥३१॥

लोकाभिरामं रनरङ्‌गधीरं राजीवनेत्रं रघुवंशनाथम्‌ । कारुण्यरूपं करुणाकरंतं श्रीरामचंद्रं शरणं प्रपद्ये ॥३२॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम्‌ । वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥३३॥

कूजन्तं रामरामेति मधुरं मधुराक्षरम्‌ । आरुह्य कविताशाखां वन्दे वाल्मीकिकोकिलम्‌ ॥३४॥

आपदामपहर्तारं दातारं सर्वसंपदाम्‌ । लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम्‌ ॥३५॥

भर्जनं भवबीजानामर्जनं सुखसंपदाम्‌ । तर्जनं यमदूतानां रामरामेति गर्जनम्‌ ॥३६॥

रामो राजमणि: सदा विजयते रामं रमेशं भजे । रामेणाभिहता निशाचरचमू रामाय तस्मै नम: ।

रामान्नास्ति परायणं परतरं रामस्य दासोSस्म्यहम्‌ । रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ॥३७॥

राम रामेति रामेति रमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥३८॥


श्री राम मंत्र - 

श्री राम बीज मंत्र - 
“राम”

भगवान श्री राम का तारक मंत्र - 
श्री राम, जय राम, जय जय राम !! ‘श्री राम जय राम जय जय राम’।

श्री राम तारक मंत्र - 
ॐ जानकीकांत तारक रां रामाय नमः॥

सफलता प्राप्ति श्री राम मंत्र : 
ॐ राम ॐ राम ॐ राम ।
ह्रीं राम ह्रीं राम ।
श्रीं राम श्रीं राम ।
क्लीं राम क्लीं राम।
फ़ट् राम फ़ट्।
रामाय नमः ।
श्री रामचन्द्राय नमः ।
श्री राम शरणं मम् ।
ॐ रामाय हुँ फ़ट् स्वाहा ।
श्री राम जय राम जय जय राम ।
राम राम राम राम रामाय राम ।
ॐ श्री रामचन्द्राय नम :


श्री राम ध्यान मंत्र : 
ॐ आपदामप हर्तारम दातारं सर्व सम्पदाम , लोकाभिरामं श्री रामं भूयो भूयो नामाम्यहम !
श्री रामाय रामभद्राय रामचन्द्राय वेधसे , रघुनाथाय नाथाय सीताया पतये नमः !


श्री राम गायत्री मंत्र : 
ॐ दाशरथये विद्महे जानकी वल्लभाय धी महि॥ तन्नो रामः प्रचोदयात् ॥

श्री राम मूल मंत्र : 
ॐ ह्रां ह्रीं रां रामाय नमः॥

श्री राम मंत्र : 
ॐ रां रामय नमः।
ॐ रामाय नमः।


दशाक्षर श्री राम मंत्र : 
हुं जानकी वल्लभाय स्वाहा ।


कार्य में सफलता पाने के लिए श्री राम मंत्र : 
ॐ राम ॐ राम ॐ राम ।
ह्रीं राम ह्रीं राम ।
श्रीं राम श्रीं राम ।
रामाय नमः ।
रां रामाय नमः


सौभाग्य और सुख की प्राप्ति के लिए श्री राम मंत्र : 
१.श्री राम जय राम जय जय राम ।
२. श्री रामचन्द्राय नमः ।
३. राम रामेति रामेति रमे रामे मनोरमे । सहस्त्र नाम तत्तुन्यं राम नाम वरानने ।।