Saturday, March 20, 2021

 श्री कृष्ण शतनामावली स्तोत्रम - 


श्रीक्रुष्णः कमलानाथो वासुदेवः सनातनः !
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥
श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः !
चतुर्भुजात्तचक्रासिगदाशंखाद्युदायुधः ॥
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः !
यमुनावेगसंहारी बलभद्रप्रियानुजः ॥
पूतनाजीवितहरः शकटासुरभञ्जनः !
नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः  ॥
नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः !
नवनीतनवाहारो मुचुकुंदप्रसादकः ॥
षोडशस्त्रीसहस्रेशो त्रिभंगीललिताकृतिः !
शुकवागमृताब्धीन्दुः गोविन्दो गोविदां पतिः॥
वत्सवाटचरोऽनन्तो धेनुकासुरमर्द्दनः !
तृणीकृततृणावर्तो यमलार्जुनभञ्जनः ॥
उत्तालतालभेत्ता च तमालश्यामलाकृतिः !
गोपगोपीश्वरो योगी कोटिसूर्यसमप्रभः॥
इलापतिः परंज्योतिः यादवेन्द्रो यदूद्वहः
वनमाली पीतवासा पारिजातापहारकः  ॥
गोवर्धनाचलोद्धर्त्ता गोपालस्सर्वपालकः !
अजो निरञ्जनः कामजनकः कञ्जलोचनः॥
मधुहा मथुरानाथो द्वारकानायको बली !
वृन्दावनांतसञ्चारी तुलसीदामभूषणः   ॥
स्यमन्तकमणेर्हर्ता नरनारायणात्मकः !
कुब्जाकृष्टांबरधरो मायी परमपूरुषः     ॥
मुष्टिकासुरचाणूरमल्लयुद्धविशारदः !
संसारवैरि कंसारी मुरारी नरकान्तकः ॥
अनादिब्रह्मचारी च कृष्णाव्यसनकर्शकः !
शिशुपालशिरच्छेत्ता दुर्योधनकुलान्तकः ॥
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः !
सत्यवाक्सत्यसंकल्पः सत्यभामारतो जयी ॥
सुभद्रापूर्वजो विष्णुः भीष्ममुक्तिप्रदायकः !
जगद्गुरुर्जगन्नाथो वेणुनादविशारदः    ॥
वृषभासुरविध्वंसी बाणासुरबलांतकः !
युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः  ॥
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः !
कालीयफणिमाणिक्यरञ्जितश्रीपदांबुजः ॥
दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशकः !
नारायणः परंब्रह्म पन्नगाशनवाहनः ॥
जलक्रीडासमासक्तगोपीवस्त्रापहारकः !
पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ॥
सर्वभूतात्मकस्सर्वग्रहरूपी परात्परः !
एवं कृष्णस्य देवस्य नाम्नामष्टोत्तरं शतं, ॥
कृष्णनामामृतं नाम परमानन्दकारकं,
अत्युपद्रवदोषघ्नं परमायुष्यवर्धनम् !
 श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्र- 

देव्युवाच
देवदेव! महादेव! त्रिकालज्ञ! महेश्वर!
करुणाकर देवेश! भक्तानुग्रहकारक! ॥
अष्टोत्तर शतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ॥
ईश्वर उवाच
देवि! साधु महाभागे महाभाग्य प्रदायकम् ।
सर्वैश्वर्यकरं पुण्यं सर्वपाप प्रणाशनम् ॥
सर्वदारिद्र्य शमनं श्रवणाद्भुक्ति मुक्तिदम् ।
राजवश्यकरं दिव्यं गुह्याद्–गुह्यतरं परम् ॥
दुर्लभं सर्वदेवानां चतुष्षष्टि कलास्पदम् ।
पद्मादीनां वरांतानां निधीनां नित्यदायकम् ॥
समस्त देव संसेव्यम् अणिमाद्यष्ट सिद्धिदम् ।
किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम् ॥
तव प्रीत्याद्य वक्ष्यामि समाहितमनाश्शृणु ।
अष्टोत्तर शतस्यास्य महालक्ष्मिस्तु देवता ॥
क्लीं बीज पदमित्युक्तं शक्तिस्तु भुवनेश्वरी ।
अंगन्यासः करन्यासः स इत्यादि प्रकीर्तितः ॥

ध्यानम्
वंदे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यामभयप्रदां मणिगणैः नानाविधैः भूषिताम् ।
भक्ताभीष्ट फलप्रदां हरिहर ब्रह्माधिभिस्सेवितां
पार्श्वे पंकज शंखपद्म निधिभिः युक्तां सदा शक्तिभिः ॥
सरसिज नयने सरोजहस्ते धवल तरांशुक गंधमाल्य शोभे ।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवन भूतिकरि प्रसीदमह्यम् ॥
ॐ प्रकृतिं, विकृतिं, विद्यां, सर्वभूत हितप्रदाम् ।
श्रद्धां, विभूतिं, सुरभिं, नमामि परमात्मिकाम् ॥ १ ॥
वाचं, पद्मालयां, पद्मां, शुचिं, स्वाहां, स्वधां, सुधाम् ।
धन्यां, हिरण्ययीं, लक्ष्मीं, नित्यपुष्टां, विभावरीम् ॥ २ ॥
अदितिं च, दितिं, दीप्तां, वसुधां, वसुधारिणीम् ।
नमामि कमलां, कांतां, क्षमां, क्षीरोद संभवाम् ॥ ३ ॥
अनुग्रहपरां, बुद्धिं, अनघां, हरिवल्लभाम् ।
अशोका,ममृतां दीप्तां, लोकशोक विनाशिनीम् ॥ ४ ॥
नमामि धर्मनिलयां, करुणां, लोकमातरम् ।
पद्मप्रियां, पद्महस्तां, पद्माक्षीं, पद्मसुंदरीम् ॥ ५ ॥
पद्मोद्भवां, पद्ममुखीं, पद्मनाभप्रियां, रमाम् ।
पद्ममालाधरां, देवीं, पद्मिनीं, पद्मगंधिनीम् ॥ ६ ॥
पुण्यगंधां, सुप्रसन्नां, प्रसादाभिमुखीं, प्रभाम् ।
नमामि चंद्रवदनां, चंद्रां, चंद्रसहोदरीम् ॥ ७ ॥
चतुर्भुजां, चंद्ररूपां, इंदिरा,मिंदुशीतलाम् ।
आह्लाद जननीं, पुष्टिं, शिवां, शिवकरीं, सतीम् ॥ ८ ॥
विमलां, विश्वजननीं, तुष्टिं, दारिद्र्य नाशिनीम् ।
प्रीति पुष्करिणीं, शांतां, शुक्लमाल्यांबरां, श्रियम् ॥ ९ ॥
भास्करीं, बिल्वनिलयां, वरारोहां, यशस्विनीम् ।
वसुंधरा, मुदारांगां, हरिणीं, हेममालिनीम् ॥ १० ॥

धनधान्यकरीं, सिद्धिं, स्रैणसौम्यां, शुभप्रदाम् ।
नृपवेश्म गतानंदां, वरलक्ष्मीं, वसुप्रदाम् ॥ ११ ॥
शुभां, हिरण्यप्राकारां, समुद्रतनयां, जयाम् ।
नमामि मंगलां देवीं, विष्णु वक्षःस्थल स्थिताम् ॥ १२ ॥
विष्णुपत्नीं, प्रसन्नाक्षीं, नारायण समाश्रिताम् ।
दारिद्र्य ध्वंसिनीं, देवीं, सर्वोपद्रव वारिणीम् ॥ १३ ॥
नवदुर्गां, महाकालीं, ब्रह्म विष्णु शिवात्मिकाम् ।
त्रिकालज्ञान संपन्नां, नमामि भुवनेश्वरीम् ॥ १४ ॥
लक्ष्मीं क्षीरसमुद्रराज तनयां श्रीरंगधामेश्वरीम् ।
दासीभूत समस्तदेव वनितां लोकैक दीपांकुराम् ॥
श्रीमन्मंद कटाक्ष लब्ध विभवद्–ब्रह्मेंद्र गंगाधराम् ।
त्वां त्रैलोक्य कुटुंबिनीं सरसिजां वंदे मुकुंदप्रियाम् ॥ १५ ॥
मातर्नमामि! कमले! कमलायताक्षि!
श्री विष्णु हृत्–कमलवासिनि! विश्वमातः!
क्षीरोदजे कमल कोमल गर्भगौरि!
लक्ष्मी! प्रसीद सततं समतां शरण्ये ॥ १६ ॥

त्रिकालं यो जपेत् विद्वान् षण्मासं विजितेंद्रियः ।
दारिद्र्य ध्वंसनं कृत्वा सर्वमाप्नोत्–ययत्नतः ।
देवीनाम सहस्रेषु पुण्यमष्टोत्तरं शतम् ।
येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ॥ १७ ॥
भृगुवारे शतं धीमान् पठेत् वत्सरमात्रकम् ।
अष्टैश्वर्य मवाप्नोति कुबेर इव भूतले ॥


दारिद्र्य मोचनं नाम स्तोत्रमंबापरं शतम् ।
येन श्रिय मवाप्नोति कोटिजन्म दरिद्रतः ॥ १८ ॥
भुक्त्वातु विपुलान् भोगान् अंते सायुज्यमाप्नुयात् ।
प्रातःकाले पठेन्नित्यं सर्व दुःखोप शांतये ।
पठंतु चिंतयेद्देवीं सर्वाभरण भूषिताम् ॥ १९ ॥
॥ इति श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रं संपूर्णम् ॥
 श्री अंगारक अष्टोत्तर शतनाम स्तोत्रम् -

महीसुतो महाभागो मंगळो मंगळप्रदः ।
महावीरो महाशूरो महाबलपराक्रमः ॥ १॥
महारौद्रो महाभद्रो माननीयो दयाकरः ।
मानजोऽमर्षणः क्रूरः तापपापविवर्जितः ॥ २॥
सुप्रतीपः सुताम्राक्षः सुब्रह्मण्यः सुखप्रदः ।
वक्रस्तम्भादिगमनो वरेण्यो वरदः सुखी ॥ ३॥
वीरभद्रो विरूपाक्षो विदूरस्थो विभावसुः ।
नक्षत्रचक्रसञ्चारी क्षत्रपः क्षात्रवर्जितः ॥ ४॥
क्षयवृद्धिविनिर्मुक्तः क्षमायुक्तो विचक्षणः ।
अक्षीणफलदः चक्षुर्गोचरष्षुभलक्षणः ॥ ५॥
वीतरागो वीतभयो विज्वरो विश्वकारणः ।
नक्षत्रराशिसञ्चारो नानाभयनिकृन्तनः ॥ ६॥
कमनीयो दयासारः कनत्कनकभूषणः ।
भयघ्नो भव्यफलदो भक्ताभयवरप्रदः ॥ ७॥
शत्रुहन्ता शमोपेतः शरणागतपोषकः ।
साहसः सद्गुणाध्यक्षः साधुः समरदुर्जयः ॥ ८॥
दुष्टदूरः शिष्टपूज्यः सर्वकष्टनिवारकः ।
दुश्चेष्टवारको दुःखभञ्जनो दुर्धरो हरिः ॥ ९॥
दुःस्वप्नहन्ता दुर्धर्षो दुष्टगर्वविमोचकः ।
भरद्वाजकुलोद्भूतो भूसुतो भव्यभूषणः ॥ १०॥
रक्ताम्बरो रक्तवपुर्भक्तपालनतत्परः ।
चतुर्भुजो गदाधारी मेषवाहो मिताशनः ॥ ११॥
शक्तिशूलधरश्शक्तः शस्त्रविद्याविशारदः ।
तार्किकः तामसाधारः तपस्वी ताम्रलोचनः ॥ १२॥
तप्तकाञ्चनसंकाशो रक्तकिञ्जल्कसन्निभः ।
गोत्राधिदेवो गोमध्यचरो गुणविभूषणः ॥ १३॥

असृजंगारकोऽवन्तीदेशाधीशो जनार्दनः ।
सूर्ययाम्यप्रदेशस्थो यावनो याम्यदिऽग्मुखः ॥ १४॥
त्रिकोणमण्डलगतो त्रिदशाधिपसन्नुतः ।
शुचिः शुचिकरः शूरो शुचिवश्यः शुभावहः ॥ १५॥
मेषवृश्चिकराशीशो मेधावी मितभाषणः ।
सुखप्रदः सुरूपाक्षः सर्वाभीष्टफलप्रदः ॥ १६॥
॥ इति मङ्गल एवं अङ्गारकाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम् ॥
 श्री कृष्ण अष्टोत्तर शतनाम स्तोत्रम् - 


कृष्णः कृती कृपाशीतः कृतज्ञः कृष्णमूर्धजः ।
कृष्णाव्यसनसंहर्ता कृष्णाम्बुधरविग्रहः ॥ १॥
कृष्णाब्जवदनः कृष्णाप्रकृत्यङ्गः कृताखिलः ।
कृतगीतः कृष्णगीतः कृष्णगोपीजनाम्बरः ॥ २॥
कृष्णस्वरः कृत्तजिष्णुगर्वः कृष्णोत्तरस्रजः ।
कृतलोकेशसम्मोहः कृतदावाग्निपारणः ॥ ३॥
कृष्टोलूखलनिर्भिन्न यमलार्जुनभूरुहः ।
कृतगोवर्धनच्छत्रो कृताहिफणताण्डवः ॥ ४॥
कृत्ताघः कृत्तभक्ताघः कृतदैवतमङ्गलः ।
कृतान्तसदनाधीतगुरुपुत्रः कृतस्मितः ॥ ५॥
कृतान्तभगिनीवारिविहारी कृतवित्प्रियः ।
कृतगोवत्ससन्त्राणः कृतकेतरसौहृदः ॥ ६॥
कृत्तभूमिभरः कृष्णबन्धुः कृष्णमहागुरुः ।
कृष्णप्रियः कृष्णसखः कृष्णेशः कृष्णसारधिः ॥ ७॥
कृतराजोत्सवः कृष्णगोपीजनमनोधनः ।
कृष्णगोपीकटाक्षालि पूजितेन्दीवराकृतिः ॥ ८॥
कृष्णप्रतापः कृष्णाप्तः कृष्णमानाभिरक्षणः ।
कृपीटधिकृतावासः कृपीटरुहलोचनः ॥ ९॥
कृशानुवदनाधीशः कृशानुहुतखाण्डवः ।
कृत्तिवासस्स्म्ययाहर्ता कृत्तिवासोज्ज्वरार्दनः ॥ १०॥
कृत्तबाणभुजाबृन्दः कृतबृन्दारकावनः ।
कृतादियुगसंस्थाकृत्कृतसद्धर्मपालनः ॥ ११॥
कृतचित्तजनप्राणः कृतकन्दर्पविग्रहः ।
कृशोदरीबृन्दबन्दीमोचकः कृपणावनः ॥ १२॥
कृत्स्नवित्कृत्स्नदुर्ञ्जेयमहिमा कृत्स्नपालकः ।
कृत्स्नान्तरः कृत्स्नयन्ता कृत्स्नहा कृत्स्नधारयः ॥ १३॥
कृत्स्नाकृतिः कृत्स्नदृष्टिः कृच्छलभ्यः कृताद्भुतः ।

कृत्स्नप्रियः कृत्स्नहीनः कृत्स्नात्मा कृत्स्नभासकः ॥ १४॥
कृत्तिकानन्तरोद्भूतः कृत्तरुक्मिकचव्रजः ।
कृपात्तरुक्मिणीकान्तः कृतधर्मक्रियावनः ॥ १५॥
कृष्णपक्षाष्टमीचन्द्र फालभागमनोहरः ।
कृत्यसाक्षी कृत्यपतिः कृत्स्नक्रतु फलप्रदः ॥ १६॥
कृष्णवर्मलसच्चक्रः कृपीटजविभूषणः ।
कृताख्यारूपनिर्वाहः कृतार्थीकृतबाडबः ॥ १७॥
कृतवन्यस्रजाभूषः कृपीटजलसत्करः ।
कृपीटजालयावक्षाः कृतपादार्चनाम्बुजः ॥ १८॥

कृतिमेतरसौन्दर्यः कृतिमाशयदुर्लभः ।
कृततार्क्ष्यध्वजरधः कृतमोक्षाभिधेयकः ॥ १९॥
कृतीकृतद्वापरकः कृतसौभाग्यभूतलः ।
कृतलोकत्रयानन्दः कृतीकृतकलिप्रधः ॥ २०॥
कृतोत्तरागर्भरक्षः कृतधी कृतलक्षणः ।
कृतत्रिजगतीमोहः कृतदेवद्रुमाहृतिः ॥ २१॥
कृत्स्नानन्दः कृत्स्नदुःखदूरः कृत्स्नविलक्षणः ।
कृत्स्नांशः कृत्स्नजीवांशः कृत्स्नसत्तः कृतिप्रियः ॥ २२॥

Wednesday, March 17, 2021

 लिंगाष्टकम || 


ब्रह्ममुरारिसुरार्चितलिङ्गम् निर्मलभासितशोभितलिङ्गम् ।

जन्मजदुःखविनाशकलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥१॥


देवमुनिप्रवरार्चितलिङ्गम् कामदहम् करुणाकरलिङ्गम् ।

रावणदर्पविनाशनलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥२॥


सर्वसुगन्धिसुलेपितलिङ्गम् बुद्धिविवर्धनकारणलिङ्गम् ।

सिद्धसुरासुरवन्दितलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥३॥


कनकमहामणिभूषितलिङ्गम् फणिपतिवेष्टितशोभितलिङ्गम् ।

दक्षसुयज्ञविनाशनलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥४॥


कुङ्कुमचन्दनलेपितलिङ्गम् पङ्कजहारसुशोभितलिङ्गम् ।

सञ्चितपापविनाशनलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥५॥


देवगणार्चितसेवितलिङ्गम् भावैर्भक्तिभिरेव च लिङ्गम् ।

दिनकरकोटिप्रभाकरलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥६॥


अष्टदलोपरिवेष्टितलिङ्गम् सर्वसमुद्भवकारणलिङ्गम् ।

अष्टदरिद्रविनाशितलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥७॥


सुरगुरुसुरवरपूजितलिङ्गम् सुरवनपुष्पसदार्चितलिङ्गम् ।

परात्परं परमात्मकलिङ्गम् तत् प्रणमामि सदाशिवलिङ्गम् ॥८॥


लिङ्गाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ ।

शिवलोकमवाप्नोति शिवेन सह मोदते ॥



श्री शिव कैलाश अष्टोत्तर शतनामावली ||


ॐ श्रीमहाकैलासशिखरनिलयाय नमोनमः ।
ॐ हिमाचलेन्द्रतनयावल्लभाय नमोनमः ।
ॐ वामभागकलत्रार्धशरीराय नमोनमः ।
ॐ विलसद्दिव्यकर्पूरदिव्याभाय नमोनमः ।
ॐ कोटिकन्दर्पसदृशलावण्याय नमोनमः ।
ॐ रत्नमौक्तिकवैडूर्यकिरीटाय नमोनमः ।
ॐ मंदाकिनीजलोपेतमूर्धजाय नमोनमः ।
ॐ चारुशीतांशुशकलशेखराय नमोनमः ।
ॐ त्रिपुण्ड्रभस्मविलसत्फालकाय नमोनमः ।
ॐ सोमपावकमार्ताण्डलोचनाय नमोनमः ।
ॐ वासुकीतक्षकलसत्कुण्डलाय नमोनमः ।
ॐ चारुप्रसन्नसुस्मेरवदनाय नमोनमः ।
ॐ समुद्रोद्भूतगरलकंधराय नमोनमः ।
ॐ कुरंगविलसत्पाणिकमलाय नमोनमः ।
ॐ परश्वधद्वयलसद्दिव्यकराब्जाय नमोनमः ।
ॐ वराभयप्रदकरयुगलाय नमोनमः ।
ॐ अनेकरत्नमाणिक्यसुहाराय नमोनमः ।
ॐ मौक्तिकस्वर्णरुद्राक्षमालिकाय नमोनमः ।
ॐ हिरण्यकिंकिणीयुक्तकंकणाय नमोनमः ।
ॐ मंदारमल्लिकादामभूषिताय नमोनमः ।
ॐ महामातंगसत्कृत्तिवसनाय नमोनमः ।
ॐ नागेंद्रयज्ञोपवीतशोभिताय नमोनमः ।
ॐ सौदामिनीसमच्छायसुवस्त्राय नमोनमः ।
ॐ सिंजानमणिमंजीरचरणाय नमोनमः ।
ॐ चक्राब्जध्वजयुक्तांघ्रिसरोजाय नमोनमः ।
ॐ अपर्णाकुचकस्तूरीशोभिताय नमोनमः ।
ॐ गुहमत्तेभवदनजनकाय नमोनमः ।
ॐ बिडौजोविधिवैकुण्ठसन्नुताय नमोनमः ।
ॐ कमलाभारतींद्राणीसेविताय नमोनमः ।
ॐ महापंचाक्षरीमन्त्रस्वरूपाय नमोनमः ।
ॐ सहस्रकोटितपनसंकाशाय नमोनमः ।
ॐ अनेककोटिशीतंशुप्रकाशाय नमोनमः ।
ॐ कैलासतुल्यवृषभवाहनाय नमोनमः ।
ॐ नंदीभृंगीमुखानेकसंस्तुताय नमोनमः ।
ॐ निजपादांबुजासक्तसुलभाय नमोनमः ।
ॐ प्रारब्धजन्ममरणमोचनाय नमोनमः ।
ॐ संसारमयदुःखौघभेषजाय नमोनमः ।
ॐ चराचरस्थूलसूक्ष्मकल्पकाय नमोनमः ।
ॐ ब्रह्मादिकीटपर्यन्तव्यापकाय नमोनमः ।
ॐ सर्वसहामहाचक्रस्यन्दनाय नमोनमः ।
ॐ सुधाकरजगच्छक्षूरथांगाय नमोनमः ।
ॐ अथर्वऋग्यजुस्सामतुरगाय नमोनमः ।
ॐ सरसीरुहसंजातप्राप्तसारथये नमोनमः ।
ॐ वैकुण्ठसायविलसत्सायकाय नमोनमः ।
ॐ चामीकरमहाशैलकार्मुकाय नमोनमः ।
ॐ भुजंगराजविलसत्सिञ्जिनीकृतये नमोनमः ।
ॐ निजाक्षिजाग्निसन्दग्ध त्रिपुराय नमोनमः ।
ॐ जलंधरासुरशिरच्छेदनाय नमोनमः ।
ॐ मुरारिनेत्रपूजांघ्रिपंकजाय नमोनमः ।
ॐ सहस्रभानुसंकाशचक्रदाअय नमोनमः ।
ॐ कृतान्तकमहादर्पनाशनाय नमोनमः ।
ॐ मार्कण्डेयमनोभीष्टदायकाय नमोनमः ।
ॐ समस्तलोकगीर्वाणशरण्याय नमोनमः ।
ॐ अतिज्वलज्वालामालविषघ्नाय नमोनमः ।
ॐ शिक्षितांधकदैतेयविक्रमाय नमोनमः ।
ॐ स्वद्रोहिदक्षसवनविघाताय नमोनमः ।
ॐ शंबरांतकलावण्यदेहसंहारिणे नमोनमः ।
ॐ रतिप्रार्तितमांगल्यफलदाय नमोनमः ।
ॐ सनकादिसमायुक्तदक्षिणामूर्तये नमोनमः ।
ॐ घोरापस्मारदनुजमर्दनाय नमोनमः ।
ॐ अनन्तवेदवेदान्तवेद्याय नमोनमः ।
ॐ नासाग्रन्यस्तनिटिलनयनाय नमोनमः ।
ॐ उपमन्युमहामोहभंजनाय नमोनमः ।
ॐ केशवब्रह्मसंग्रामनिवाराय नमोनमः ।
ॐ द्रुहिणांभोजनयनदुर्लभाय नमोनमः ।
ॐ धर्मार्थकामकैवल्यसूचकाय नमोनमः ।
ॐ उत्पत्तिस्थितिसंहारकारणाय नमोनमः ।
ॐ अनन्तकोटिब्रह्माण्डनायकाय नमोनमः ।
ॐ कोलाहलमहोदारशमनाय नमोनमः ।
ॐ नारसिंहमहाकोपशरभाय नमोनमः ।
ॐ प्रपंचनाशकल्पान्तभैरवाय नमोनमः ।
ॐ हिरण्यगर्भोत्तमांगच्छेदनाय नमोनमः ।
ॐ पतंजलिव्याघ्रपादसन्नुताय नमोनमः ।
ॐ महाताण्डवचातुर्यपंडिताय नमोनमः ।
ॐ विमलप्रणवाकारमध्यगाय नमोनमः ।
ॐ महापातकतूलौघपावनाय नमोनमः ।
ॐ चंडीशदोषविच्छेदप्रवीणाय नमोनमः ।
ॐ रजस्तमस्सत्त्वगुणगणेशाय नमोनमः ।
ॐ दारुकावनमानस्त्रीमोहनाय नमोनमः ।
ॐ शाश्वतैश्वर्यसहितविभवाय नमोनमः ।
ॐ अप्राकृतमहादिव्यवपुस्थाय नमोनमः ।
ॐ अखंडसच्छिदानन्दविग्रहाय नमोनमः ।
ॐ अशेषदेवताराध्यपादुकाय नमोनमः ।
ॐ ब्रह्मादिसकलदेववन्दिताय नमोनमः ।
ॐ पृथिव्यप्तेजोवाय्वाकाशतुरीयाय नमोनमः ।
ॐ वसुन्धरमहाभारसूदनाय नमोनमः ।
ॐ देवकीसुतकौन्तेयवरदाय नमोनमः ।
ॐ अज्ञानतिमिरध्वान्तभास्कराय नमोनमः ।
ॐ अद्वैतानन्दविज्ञानसुखदाय नमोनमः ।
ॐ अविद्योपाधिरहितनिर्गुणाय नमोनमः ।
ॐ सप्तकोटिमहामन्त्रपूरिताय नमोनमः ।
ॐ गंधशब्दस्पर्शरूपसाधकाय नमोनमः ।
ॐ अक्षराक्षरकूटस्थपरमाय नमोनमः ।
ॐ षोडशाब्दवयोपेतदिव्यांगाय नमोनमः ।
ॐ सहस्रारमहापद्ममण्डिताय नमोनमः ।
ॐ अनन्तानन्दबोधांबुनिधिस्थाय नमोनमः ।
ॐ अकारादिक्षकारान्तवर्णस्थाय नमोनमः ।
ॐ निस्तुलौदार्यसौभाग्यप्रमत्ताय नमोनमः ।
ॐ कैवल्यपरमानन्दनियोगाय नमोनमः ।
ॐ हिरण्यज्योतिविभ्राजत्सुप्रभाय नमोनमः ।
ॐ ज्योतिषांमूर्तिमज्योतिरूपदाय नमोनमः ।
ॐ अनौपम्यमहासौख्यपदस्थाय नमोनमः ।
ॐ अचिंत्यमहिमाशक्तिरंजिताय नमोनमः ।
ॐ अनित्यदेहविभ्रांतिवर्जिताय नमोनमः ।
ॐ सकृत्प्रपन्नदौर्भाग्यच्छेदनाय नमोनमः ।
ॐ षट्त्रिंशत्तत्त्वप्रशादभुवनाअय नमोनमः ।
ॐ आदिमध्यान्तरहितदेहस्थाय नमोनमः ।
ॐ परानन्दस्वरूपार्थप्रबोधाय नमोनमः ।
ॐ ज्ञानशक्तिकृयाशक्तिसहिताय नमोनमः ।
ॐ पराशक्तिसमायुक्तपरेशाय नमोनमः ।
ॐ ओंकारानन्दनोद्यानकल्पकाय नमोनमः ।
ॐ ब्रह्मादिसकलदेववन्दिताय नमोनमः ।
वीरविंशतिकाव्यं श्रीहनुमत्स्तोत्रम् || 
(उमापति कविविरचितम्)


लांगूलमृष्टवियदम्बुधिमध्यमार्ग- मुत्प्लुत्य यान्तममरेन्द्रमुदो निदानम् ।
आस्फालितस्वकभुजस्फुटिताद्रिकाण्डं द्राङ्मैथिलीनयननन्दनमद्य वन्दे ॥ १ ॥

मध्येनिशाचरमहाभयदुर्विषह्यं घोराद्भुतव्रतमिदं यददश्चचार ।
पत्ये तदस्य बहुधापरिणामदूतं सीतापुरस्कृततनुं हनुमन्तमीडे ॥ २ ॥

यः पादपङ्कजयुगं रघुनाथपत्न्या नैराश्यरूषितविरक्तमपि स्वरागैः ।
प्रागेव रागि विदधे बहु वन्दमानो वन्देऽञ्जनाजनुषमेव विशेषतुष्ट्यै ॥ ३ ॥

ताञ्जानकीविरहवेदनहेतुभूतान् द्रागाकलय्य सदशोकवनीयवृक्षान् ।
लङ्कालकानिव घनानुदपाटयद्य-स्तं हेमसुन्दरकपिं प्रणमामि पुष्ट्यै ॥ ४ ॥

घोषप्रतिध्वनितशैलगुहासहस्र-संभ्रान्तनादितवलन्मृगनाथयूथम् ।
अक्षक्षयक्षणविलक्षितराक्षसेन्द्र-मिन्द्रं कपीन्द्रपृतनावलयस्य वन्दे ॥ ५ ॥

हेलाविलङ्घितमहार्णवमप्यमन्दं घूर्णद्गदाविहतिविक्षतराक्षसेषु ।
स्वम्मोदवारिधिमपारमिवेक्षमाणं वन्देऽहमक्षयकुमारकमारकेशम् ॥ ६ ॥

जम्भारिजित्प्रसभलम्बितपाशबन्धं ब्रह्मानुरोधमिव तत्क्षणमुद्वहन्तम् ।
रौद्रावतारमपि रावणदीर्घदृष्टि-सङ्कोचकारणमुदारहरिं भजामि ॥ ७ ॥

दर्पोन्नमन्निशिचरेश्वरमूर्धचञ्च-त्कोटीरचुम्बि निजबिम्बमुदीक्ष्य हृष्टम् ।
पश्यन्तमात्मभुजयन्त्रणपिष्यमाण-तत्कायशोणितनिपातमपेक्षि वक्षः ॥ ८ ॥

अक्षप्रभृत्यमरविक्रमवीरनाश-क्रोधादिव द्रुतमुदञ्चितचन्द्रहासाम् ।
निद्रापिताभ्रघनगर्जनघोरघोषैः संस्थम्भयन्तमभिनौमि दशास्यमूर्तिम् ॥ ९ ॥

आशंस्यमानविजयं रघुनाथधाम शंसन्तमात्मकृतभूरिपराक्रमेण ।
दौत्ये समागमसमन्वयमादिशन्तं वन्दे हरेः क्षितिभृतः पृतनाप्रधानम् ॥ १० ॥

यस्यौचितीं समुपदिष्टवतोऽधिपुच्छं दम्भान्धितां धियमपेक्ष्य विवर्धमानः ।
नक्तञ्चराधिपतिरोषहिरण्यरेता लङ्कां दिधक्षुरपतत्तमहं वृणोमि ॥ ११ ॥

क्रन्दन्निशाचरकुलां ज्वलनावलीढैः साक्षाद्गृहैरिव बहिः परिदेवमानाम् ।
स्तब्धस्वपुच्छतटलग्नकृपीटयोनि-दन्दह्यमाननगरीं परिगाहमानाम् ॥ १२ ॥

मूर्तैर्गृहासुभिरिव द्युपुरं व्रजद्भि-र्व्योम्नि क्षणं परिगतं पतगैर्ज्वलद्भिः ।
पीताम्बरं दधतुमुच्छ्रितदीप्ति पुच्छं सेनां वहद्विहगराजमिवाहमीडे ॥ १३ ॥

स्थम्भीभवत्स्वगुरुवालधिलग्नवह्नि-ज्वालोल्ललद्ध्वजपटामिव देवतुष्ट्यै ।
वन्दे यथोपरि पुरो दिवि दर्शयन्त-मद्यैव रामविजयाजिकवैजयन्तीम् ॥ १४ ॥

रक्षक्षयैकचितकक्षकपूश्चितौ यः सीताशुचो निजविलोकनतो मृतायाः ।
दाहं व्यधादिव तदन्त्यविधेयभूतं लाङ्गूलदत्तदहनेन मुदे स नोऽस्तु ॥ १५ ॥

आशुद्धये रघुपतिप्रणयैकसाक्ष्ये वैदेहराजदुहितुः सरिदीश्वराय ।
न्यासं ददानमिव पावकमापतन्त-मब्धौ प्रभञ्जनतनूजनुषं भजामि ॥ १६ ॥

रक्षस्स्वतृप्तिरुडशान्तिविशेषशोण-मक्षक्षयक्षणविधानुमितात्मदाक्ष्यम् ।
भास्वत्प्रभातरविभानुभरावभासं लङ्काभयङ्करममुं भगवन्तमीडे ॥ १७ ॥

तीर्त्वोदधिं जनकजार्पितमाप्य चूडा-रत्नं रिपोरपि पुरं परमस्य दग्ध्वा ।
श्रीरामहर्षगलदश्र्वभिषिच्यमानं तं ब्रह्मचारिवरवानरमाश्रयेऽहम् ॥ १८ ॥

यः प्राणवायुजनितो गिरिशस्य शान्तः शिष्योऽपि गौतमगुरुर्मुनिशंकरात्मा ।
हृद्यो हरस्य हरिवद्धरितां गतोऽपि धीधैर्यशास्त्रविभवेऽतुलमाश्रये तं ॥ १९ ॥

स्कन्धेऽधिवाह्य जगदुत्तरगीतिरीत्या यः पार्वतीश्वरमतोषयदाशुतोषम् ।
तस्मादवाप च वरानपरानवाप्यान् तं वानरं परमवैष्णवमीशमीडे ॥ २० ॥

उमापतेः कविपतेः स्तुतिर्बाल्यविजृम्भिता । हनूमतस्तुष्टयेऽस्तु वीरविंशतिकाभिधा ॥ २१ ॥

 राम अष्टोत्तर शतनाम स्तोत्रम् -


अथ श्रीमदानन्दरामायणान्तर्गत श्री रामाष्टोत्तरशतनाम स्तोत्रम्



विष्णुदास उवाच-


अस्य श्रीरामचन्द्रनामाष्टोत्तरशतमन्त्रस्य ब्रह्मा ऋषिः


अनुष्टुप् छन्दः जानकीवल्लभः श्रीरामचन्द्रो देवता


बीजम् नमः शक्तिः श्रीरामचन्द्रः कीलकम्


श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः



अङ्गुलीन्यासः


नमो भगवते राजाधिराजाय परमात्मने अङ्गुष्ठाभ्यां नमः


नमो भगवते विद्याधिराजाय हयग्रीवाय तर्जनीभ्यां नमः


नमो भगवते जानकीवल्लभाय मध्यमाभ्यां नमः


नमो भगवते रघुनन्दनायामिततेजसे अनामिकाभ्यां नमः


नमो भगवते क्षीराब्धिमध्यस्थाय नारायणाय कनिष्ठिकाभ्यां नमः


नमो भगवते सत्प्रकाशाय रामाय करतलकरपृष्ठाभ्यां नमः


षडङ्गन्यासः


नमो भगवते राजाधिराजाय परमात्मने हृदयाय नमः


नमो भगवते विद्याधिराजाय हयग्रीवाय शिरसे स्वाहा




नमो भगवते जानकीवल्लभाय शिखायै वषट्


नमो भगवते रघुनन्दनायामिततेजसे कवचाय हुम्




नमो भगवते क्षीराब्धिमध्यस्थाय नारायणाय नेत्रत्रयाय वौषट्


नमो भगवते सत्प्रकाशाय रामाय अस्त्राय फट् इति दिग्बन्धः


अथ ध्यानम्


मन्दाराकृतिपुण्यधामविलसद्वक्षस्थलं कोमलं,

शान्तं कान्तमहेन्द्रनीलरुचिराभासं सहस्राननम्


वन्देऽहं रघुनन्दनं सुरपतिं कोदण्डदीक्षागुरुं,


रामं सर्वजगत्सुसेवितपदं सीतामनोवल्लभम् १६॥


अथ स्तोत्रम्


सहस्रशीर्ष्णे वै तुभ्यं सहस्राक्षाय ते नमः

नमः सहस्रहस्ताय सहस्रचरणाय १७॥


नमो जीमूतवर्णाय नमस्ते विश्वतोमुख

अच्युताय नमस्तुभ्यं नमस्ते शेषशायिने १८॥


नमो हिरण्यगर्भाय पञ्चभूतात्मने नमः

नमो मूलप्रकृतये देवानां हितकारिणे १९॥


नमस्ते सर्वलोकेश सर्वदुःखनिषूदन

शङ्खचक्रगदापद्मजटामुकुटधारिणे २०॥


नमो गर्भाय तत्त्वाय ज्योतिषां ज्योतिषे नमः

नमो वासुदेवाय नमो दशरथात्मज २१॥


नमो नमस्ते राजेन्द्र सर्वसम्पत्प्रदाय

नमः कारुण्यरूपाय कैकेयीप्रियकारिणे २२॥


नमो दन्ताय शान्ताय विश्वामित्रप्रियाय ते

यज्ञेशाय नमस्तुभ्यं नमस्ते क्रतुपालक २३॥


नमो नमः केशवाय नमो नाथाय शर्ङ्गिणे

नमस्ते रामचन्द्राय नमो नारायणाय २४॥


नमस्ते रामचन्द्राय माधवाय नमो नमः

गोविन्द्राय नमस्तुभ्यं नमस्ते परमात्मने २५॥


नमस्ते विष्णुरूपाय रघुनाथाय ते नमः

नमस्तेऽनाथनाथाय नमस्ते मधुसूदन २६॥


त्रिविक्रम नमस्तेऽस्तु सीतायाः पतये नमः


वामनाय नमस्तुभ्यं नमस्ते राघवाय २७॥


नमो नमः श्रीधराय जानकीवल्लभाय

नमस्तेऽस्तु हृषीकेश कन्दर्पाय नमो नमः २८॥


नमस्ते पद्मनाभाय कौसल्याहर्षकारिणे

नमो राजीवनेत्राय नमस्ते लक्ष्मणाग्रज २९॥


नमो नमस्ते काकुत्स्थ नमो दामोदराय

विभीषणपरित्रातर्नमः सङ्कर्षणाय ३०॥


वासुदेव नमस्तेऽस्तु नमस्ते शङ्करप्रिय

प्रद्युम्नाय नमस्तुभ्यमनिरुद्धाय ते नमः ३१॥


सदसद्भक्तिरूपाय नमस्ते पुरुषोत्तम

अधोक्षज नमस्तेऽस्तु सप्ततालहराय ३२॥


खरदूषणसंहर्त्रे श्रीनृसिम्हाय ते नमः

अच्युताय नमस्तुभ्यं नमस्ते सेतुबन्धक ३३॥


जनार्दन नमस्तेऽस्तु नमो हनुमदाश्रय

उपेन्द्रचन्द्रवन्द्याय मारीचमथनाय ३४॥


नमो बालिप्रहरण नमः सुग्रीवराज्यद

जामदग्न्यमहादर्पहराय हरये नमः ३५॥



नमो नमस्ते कृष्णाय नमस्ते भरताग्रज

नमस्ते पितृभक्ताय नमः शत्रुघ्नपूर्वज ३६॥


अयोध्याधिपते तुभ्यं नमः शत्रुघ्नसेवित

नमो नित्याय सत्याय बुद्ध्यादिज्ञानरूपिणे ३७॥


अद्वैतब्रह्मरूपाय ज्ञानगम्याय ते नमः

नमः पूर्णाय रम्याय माधवाय चिदात्मने ३८॥


अयोध्येशाय श्रेष्ठाय चिन्मात्राय परात्मने

नमोऽहल्योद्धारणाय नमस्ते चापभञ्जिने ३९॥


सीतारामाय सेव्याय स्तुत्याय परमेष्ठिने

नमस्ते बाणहस्ताय नमः कोदण्डधारिणे ४०॥


नमः कबन्धहन्त्रे वालिहन्त्रे नमोऽस्तु ते

नमस्तेऽस्तु दशग्रीवप्राणसंहारकारिणे ४१॥


अष्टोत्तरशतं नाम्नां रमचन्द्रस्य पावनम्

एतत्प्रोक्तं मया श्रेष्ठ सर्वपातकनाशनम् ४२॥


प्रचरिष्यति तल्लोके प्राण्यदृष्टवशाद्द्विज

तस्य कीर्तनमात्रेण जना यास्यन्ति सद्गतिम् ४३॥


तावद्विजृम्भते पापं ब्रह्महत्यापुरःसरम्।

यावन्नामाष्टकशतं पुरुषो हि कीर्तयेत् ४४॥


तावत्कलेर्महोत्साहो निःशङ्कं सम्प्रवर्तते

यावच्छ्रीरामचन्द्रस्य शतनाम्नां कीर्तनम् ४६॥



तावत्स्वरूपं रामस्य दुर्बोधं प्राणिनां स्फुटम्

यावन्न निष्ठया रामनाममाहात्म्यमुत्तमम् ४७॥



कीर्तितं पठितं चित्ते धृतं संस्मारितं मुदा

अन्यतः शृणुयान्मर्त्यः सोऽपि मुच्येत पातकात् ४८॥



ब्रह्महत्यादिपापानां निष्कृतिं यदि वाञ्छति

रामस्तोत्रं मासमेकं पठित्वा मुच्यते नरः ४९॥



दुष्प्रतिग्रहदुर्भोज्यदुरालापादिसम्भवम्

पापं सकृत्कीर्तनेन रामस्तोत्रं विनाशयेत् ५०॥



श्रुतिस्मृतिपुराणेतिहासागमशतानि

अर्हन्ति नाल्पां श्रीरामनामकीर्तिकलामपि ५१॥



अष्टोत्तरशतं नाम्नां सीतारामस्य पावनम्

अस्य सङ्कीर्तनादेव सर्वान् कामान् लभेन्नरः ५२॥



पुत्रार्थी लभते पुत्रान् धनार्थी धनमाप्नुयात्

स्त्रियं प्राप्नोति पत्न्यर्थी स्तोत्रपाठश्रवादिना ५३॥



कुम्भोदरेण मुनिना येन स्तोत्रेण राघवः

स्तुतः पूर्वं यज्ञवाटे तदेतत्त्वां मयोदितम् ५४॥


 | कीलकस्तोत्रम् - शक्तिशाली दुर्गा मंत्र

॥ अथ कीलकम् ॥
ॐ अस्य श्रीकीलकमन्त्रस्य शिव ऋषिः,अनुष्टुप् छन्दः,
श्रीमहासरस्वती देवता,श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः।


ॐ नमश्‍चण्डिकायै॥


मार्कण्डेय उवाच
ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे।
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे॥1॥


सर्वमेतद्विजानीयान्मन्त्राणामभिकीलकम्।
सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः॥2॥


सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि।
एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्ध्यति॥3॥


न मन्त्रो नौषधं तत्र न किञ्चिदपि विद्यते।
विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम्॥4॥


समग्राण्यपि सिद्ध्यन्ति लोकशङ्कामिमां हरः।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम्॥5॥


स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार सः।
समाप्तिर्न च पुण्यस्य तां यथावन्नियन्त्रणाम्॥6॥


सोऽपि क्षेममवाप्नोति सर्वमेवं न संशयः।
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः॥7॥


ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति।
इत्थंरुपेण कीलेन महादेवेन कीलितम्॥8॥


यो निष्कीलां विधायैनां नित्यं जपति संस्फुटम्।
स सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः॥9॥


न चैवाप्यटतस्तस्य भयं क्वापीह जायते।
नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात्॥10॥


ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति।
ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः॥11॥


सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने।
तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभम्॥12॥


शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः।
भवत्येव समग्रापि ततः प्रारभ्यमेव तत्॥13॥


ऐश्‍वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः।
शत्रुहानिःपरो मोक्षः स्तूयते सा न किं जनैः॥14॥

 दुर्गा सप्तशती अर्गला स्तोत्रम

 ॥ अथार्गलास्तोत्रम् ॥
ॐ अस्य श्रीअर्गलास्तोत्रमन्त्रस्य विष्णुर्ऋषिः,अनुष्टुप् छन्दः,
श्रीमहालक्ष्मीर्देवता, श्रीजगदम्बाप्रीतयेसप्तशतीपाठाङ्गत्वेन जपे विनियोगः॥



ॐ नमश्‍चण्डिकायै॥


मार्कण्डेय उवाच
ॐ जयन्ती मङ्गला काली भद्रकाली कपालिनी।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु ते॥1॥


जय त्वं देवि चामुण्डे जय भूतार्तिहारिणि।
जय सर्वगते देवि कालरात्रि नमोऽस्तु ते॥2॥


मधुकैटभविद्राविविधातृवरदे नमः।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥3॥


महिषासुरनिर्णाशि भक्तानां सुखदे नमः।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥4॥


रक्तबीजवधे देवि चण्डमुण्डविनाशिनि।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥5॥


शुम्भस्यैव निशुम्भस्य धूम्राक्षस्य च मर्दिनि।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥6॥


वन्दिताङ्‌घ्रियुगे देवि सर्वसौभाग्यदायिनि।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥7॥


अचिन्त्यरुपचरिते सर्वशत्रुविनाशिनि।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥8॥


नतेभ्यः सर्वदा भक्त्या चण्डिके दुरितापहे।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥9॥


स्तुवद्‌भ्यो भक्तिपूर्वं त्वां चण्डिके व्याधिनाशिनि।
रुपं देहि जयं देहि यशो देहि द्विषो जहि१॥10॥


चण्डिके सततं ये त्वामर्चयन्तीह भक्तितः।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥11॥


देहि सौभाग्यमारोग्यं देहि मे परमं सुखम्।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥12॥


विधेहि द्विषतां नाशं विधेहि बलमुच्चकैः।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥13॥


विधेहि देवि कल्याणं विधेहि परमां श्रियम्।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥14॥


सुरासुरशिरोरत्ननिघृष्टचरणेऽम्बिके।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥15॥


विद्यावन्तं यशस्वन्तं लक्ष्मीवन्तं जनं कुरु।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥16॥


प्रचण्डदैत्यदर्पघ्ने चण्डिके प्रणताय मे।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥17॥


चतुर्भुजे चतुर्वक्त्रसंस्तुते परमेश्‍वरि।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥18॥


कृष्णेन संस्तुते देवि शश्‍वद्भक्त्या सदाम्बिके।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥19॥


हिमाचलसुतानाथसंस्तुते परमेश्‍वरि।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥20॥


इन्द्राणीपतिसद्भावपूजिते परमेश्‍वरि।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥21॥


देवि प्रचण्डदोर्दण्डदैत्यदर्पविनाशिनि।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥22॥


देवि भक्तजनोद्दामदत्तानन्दोदयेऽम्बिके।
रुपं देहि जयं देहि यशो देहि द्विषो जहि॥23॥


पत्नीं मनोरमां देहि मनोवृत्तानुसारिणीम्।
तारिणीं दुर्गसंसारसागरस्य कुलोद्भवाम्॥24॥


इदं स्तोत्रं पठित्वा तु महास्तोत्रं पठेन्नरः।
स तु सप्तशतीसंख्यावरमाप्नोति सम्पदाम्॥25॥


॥ इति देव्या अर्गलास्तोत्रं सम्पूर्णम् ॥

श्री स्वर्णाकर्षण भैरव स्तोत्र - 

। श्री मार्कण्डेय उवाच ।। 


भगवन् ! प्रमथाधीश ! शिव-तुल्य-पराक्रम ! 
पूर्वमुक्तस्त्वया मन्त्रं, भैरवस्य महात्मनः ।। 
इदानीं श्रोतुमिच्छामि, तस्य स्तोत्रमनुत्तमं । 
तत् केनोक्तं पुरा स्तोत्रं, पठनात्तस्य किं फलम् ।। 
तत् सर्वं श्रोतुमिच्छामि, ब्रूहि मे नन्दिकेश्वर ! ।। 




।। श्री नन्दिकेश्वर उवाच ।। 
इदं ब्रह्मन् ! महा-भाग, लोकानामुपकारक ! स्तोत्रं वटुक-नाथस्य, दुर्लभं भुवन-त्रये ।। 
सर्व-पाप-प्रशमनं, सर्व-सम्पत्ति-दायकम् । दारिद्र्य-शमनं पुंसामापदा-भय-हारकम् ।।
अष्टैश्वर्य-प्रदं नृणां, पराजय-विनाशनम् । महा-कान्ति-प्रदं चैव, सोम-सौन्दर्य-दायकम् ।। 
महा-कीर्ति-प्रदं स्तोत्रं, भैरवस्य महात्मनः । न वक्तव्यं निराचारे, हि पुत्राय च सर्वथा ।।
शुचये गुरु-भक्ताय, शुचयेऽपि तपस्विने । महा-भैरव-भक्ताय, सेविते निर्धनाय च ।। 
निज-भक्ताय वक्तव्यमन्यथा शापमाप्नुयात् । स्तोत्रमेतत् भैरवस्य, ब्रह्म-विष्णु-शिवात्मनः ।। 
श्रृणुष्व ब्रूहितो ब्रह्मन् ! सर्व-काम-प्रदायकम् ।। 


विनियोग 
ॐ अस्य श्रीस्वर्णाकर्षण-भैरव-स्तोत्रस्य ब्रह्मा ऋषिः, अनुष्टुप् छन्दः, श्रीस्वर्णाकर्षण-भैरव-देवता, ह्रीं बीजं, क्लीं शक्ति, सः कीलकम्, मम-सर्व-काम-सिद्धयर्थे पाठे विनियोगः । 


ध्यान
मन्दार-द्रुम-मूल-भाजि विजिते रत्नासने संस्थिते । 
दिव्यं चारुण-चञ्चुकाधर-रुचा देव्या कृतालिंगनः ।। 


भक्तेभ्यः कर-रत्न-पात्र-भरितं स्वर्ण दधानो भृशम् । 
स्वर्णाकर्षण-भैरवो भवतु मे स्वर्गापवर्ग-प्रदः ।। 


।। स्तोत्र-पाठ ।। 


ॐ नमस्तेऽस्तु भैरवाय, ब्रह्म-विष्णु-शिवात्मने, नमः त्रैलोक्य-वन्द्याय, वरदाय परात्मने ।। 
रत्न-सिंहासनस्थाय, दिव्याभरण-शोभिने । नमस्तेऽनेक-हस्ताय, ह्यनेक-शिरसे नमः ।  नमस्तेऽनेक-नेत्राय, ह्यनेक-विभवे नमः ।।


 नमस्तेऽनेक-कण्ठाय, ह्यनेकान्ताय ते नमः । नमोस्त्वनेकैश्वर्याय, ह्यनेक-दिव्य-तेजसे ।।  
अनेकायुध-युक्ताय, ह्यनेक-सुर-सेविने । अनेक-गुण-युक्ताय, महा-देवाय ते नमः ।। 
नमो दारिद्रय-कालाय, महा-सम्पत्-प्रदायिने । श्रीभैरवी-प्रयुक्ताय, त्रिलोकेशाय ते नमः ।। 
दिगम्बर ! नमस्तुभ्यं, दिगीशाय नमो नमः । नमोऽस्तु दैत्य-कालाय, पाप-कालाय ते नमः ।। 
सर्वज्ञाय नमस्तुभ्यं, नमस्ते दिव्य-चक्षुषे । अजिताय नमस्तुभ्यं, जितामित्राय ते नमः ।। 
नमस्ते रुद्र-पुत्राय, गण-नाथाय ते नमः । नमस्ते वीर-वीराय, महा-वीराय ते नमः ।। 
नमोऽस्त्वनन्त-वीर्याय, महा-घोराय ते नमः । नमस्ते घोर-घोराय, विश्व-घोराय ते नमः ।। 
नमः उग्राय शान्ताय, भक्तेभ्यः शान्ति-दायिने । गुरवे सर्व-लोकानां, नमः प्रणव-रुपिणे ।। 
नमस्ते वाग्-भवाख्याय, दीर्घ-कामाय ते नमः । नमस्ते काम-राजाय, योषित्कामाय ते नमः ।। 
दीर्घ-माया-स्वरुपाय, महा-माया-पते नमः । सृष्टि-माया-स्वरुपाय, विसर्गाय सम्यायिने ।। 
रुद्र-लोकेश-पूज्याय, ह्यापदुद्धारणाय च । नमोऽजामल-बद्धाय, सुवर्णाकर्षणाय ते ।। 
नमो नमो भैरवाय, महा-दारिद्रय-नाशिने । उन्मूलन-कर्मठाय, ह्यलक्ष्म्या सर्वदा नमः ।। 
नमो लोक-त्रेशाय, स्वानन्द-निहिताय ते । नमः श्रीबीज-रुपाय, सर्व-काम-प्रदायिने ।। 
नमो महा-भैरवाय, श्रीरुपाय नमो नमः । धनाध्यक्ष ! नमस्तुभ्यं, शरण्याय नमो नमः ।। 
नमः प्रसन्न-रुपाय, ह्यादि-देवाय ते नमः । नमस्ते मन्त्र-रुपाय, नमस्ते रत्न-रुपिणे ।। 
नमस्ते स्वर्ण-रुपाय, सुवर्णाय नमो नमः । नमः सुवर्ण-वर्णाय, महा-पुण्याय ते नमः ।। 
नमः शुद्धाय बुद्धाय, नमः संसार-तारिणे । नमो देवाय गुह्याय, प्रबलाय नमो नमः ।। 
नमस्ते बल-रुपाय, परेषां बल-नाशिने । नमस्ते स्वर्ग-संस्थाय, नमो भूर्लोक-वासिने ।। 
नमः पाताल-वासाय, निराधाराय ते नमः । नमो नमः स्वतन्त्राय, ह्यनन्ताय नमो नमः ।। 
द्वि-भुजाय नमस्तुभ्यं, भुज-त्रय-सुशोभिने । नमोऽणिमादि-सिद्धाय, स्वर्ण-हस्ताय ते नमः ।। 
पूर्ण-चन्द्र-प्रतीकाश-वदनाम्भोज-शोभिने । नमस्ते स्वर्ण-रुपाय, स्वर्णालंकार-शोभिने ।। 
नमः स्वर्णाकर्षणाय, स्वर्णाभाय च ते नमः । नमस्ते स्वर्ण-कण्ठाय, स्वर्णालंकार-धारिणे ।। 
स्वर्ण-सिंहासनस्थाय, स्वर्ण-पादाय ते नमः । नमः स्वर्णाभ-पाराय, स्वर्ण-काञ्ची-सुशोभिने ।। 
नमस्ते स्वर्ण-जंघाय, भक्त-काम-दुघात्मने । नमस्ते स्वर्ण-भक्तानां, कल्प-वृक्ष-स्वरुपिणे ।। 
चिन्तामणि-स्वरुपाय, नमो ब्रह्मादि-सेविने । कल्पद्रुमाधः-संस्थाय, बहु-स्वर्ण-प्रदायिने ।। 
भय-कालाय भक्तेभ्यः, सर्वाभीष्ट-प्रदायिने । नमो हेमादि-कर्षाय, भैरवाय नमो नमः ।। 
स्तवेनानेन सन्तुष्टो, भव लोकेश-भैरव ! पश्य मां करुणाविष्ट, शरणागत-वत्सल ! 
श्रीभैरव धनाध्यक्ष, शरणं त्वां भजाम्यहम् । प्रसीद सकलान् कामान्, प्रयच्छ मम सर्वदा ।। 


।। फल-श्रुति ।। 
श्रीमहा-भैरवस्येदं, स्तोत्र सूक्तं सु-दुर्लभम् । मन्त्रात्मकं महा-पुण्यं, सर्वैश्वर्य-प्रदायकम् ।। 
यः पठेन्नित्यमेकाग्रं, पातकैः स विमुच्यते । लभते चामला-लक्ष्मीमष्टैश्वर्यमवाप्नुयात् ।।
 चिन्तामणिमवाप्नोति, धेनुं कल्पतरुं ध्रुवम् । स्वर्ण-राशिमवाप्नोति, सिद्धिमेव स मानवः ।। 
संध्याय यः पठेत्स्तोत्र, दशावृत्त्या नरोत्तमैः । स्वप्ने श्रीभैरवस्तस्य, साक्षाद् भूतो जगद्-गुरुः । स्वर्ण-राशि ददात्येव, तत्क्षणान्नास्ति संशयः । सर्वदा यः पठेत् स्तोत्रं, भैरवस्य महात्मनः ।। 
लोक-त्रयं वशी कुर्यात्, अचलां श्रियं चाप्नुयात् । न भयं लभते क्वापि, विघ्न-भूतादि-सम्भव ।। 
म्रियन्ते शत्रवोऽवश्यम लक्ष्मी-नाशमाप्नुयात् । अक्षयं लभते सौख्यं, सर्वदा मानवोत्तमः ।। 
अष्ट-पञ्चाशताणढ्यो, मन्त्र-राजः प्रकीर्तितः । दारिद्र्य-दुःख-शमनं, स्वर्णाकर्षण-कारकः ।। 
य येन संजपेत् धीमान्, स्तोत्र वा प्रपठेत् सदा । महा-भैरव-सायुज्यं, स्वान्त-काले भवेद् ध्रुवं ।। 




मूल-मन्त्रः 
“ॐ ऐं क्लां क्लीं क्लूं ह्रां ह्रीं ह्रूं सः वं आपदुद्धारणाय अजामल-बद्धाय लोकेश्वराय स्वर्णाकर्षण-भैरवाय मम दारिद्र्य-विद्वेषणाय श्रीं महा-भैरवाय नमः ।” 

 
शिव जयजयकार ध्यान स्तोत्रम् || 

स्फटिकप्रतिभटकान्त विरचितकलिमलशान्त ।
शिव शंकर शिव शंकर जय कैलासपते ॥ १ ॥


गंगाधरपिंगलजट हृतशरणागतसङ्कट ।
शिव शंकर शिव शंकर जय कैलासपते ॥ २ ॥

बालसुधाकरशेखर भाललसद्वैश्वानर ।
शिव शंकर शिव शंकर जय कैलासपते ॥ ३ ॥


पद्मदलायतलोचन दृढभवबन्धनमोचन ।
शिव शंकर शिव शंकर जय कैलासपते ॥४ ॥

मन्दमधुरहासवदन निर्जितदुर्लसितमदन ।
शिव शंकर शिव शंकर जय कैलासपते ॥ ५ ॥

सनकादिकवन्द्यचरण दुस्तरभवसिन्धुतरण ।
शिव शंकर शिव शंकर जय कैलासपते ॥ ६ ॥

लालितबालगजानन कलितमहापितृकानन ।
शिव शंकर शिव शंकर जय कैलासपते ॥ ७ ॥


सच्चिद्घनसुखसार लीलापीतमहागर ।
शिव शंकर शिव शंकर जय कैलासपते ॥ ८ ॥

गिरिजाश्लिष्टार्धतनो कल्पितगिरिराजधनो ।
शिव शंकर शिव शंकर जय कैलासपते ॥ ९ ॥