Showing posts with label ग्रह राहु देव. Show all posts
Showing posts with label ग्रह राहु देव. Show all posts

Wednesday, February 17, 2021

राहु अष्टोत्तर शतनामावली ||



ॐ राहवॆ नमः ।
ॐ सिंहिकॆयाय नमः ।
ॐ विधंतुदाय नमः ।
ॐ सुरशत्रवॆ नमः ।

ॐ तमसॆ नमः ।
ॐ फणिनॆ नमः ।
ॐ गार्ग्यानयाय नमः ।
ॐ सुरागवॆ नमः ।
ॐ नीलजीमूतसंकाशाय नमः ।
ॐ चतुर्भुजाय नमः ॥ १० ॥


ॐ खड्गखॆटकधारिणॆ नमः ।
ॐ वरदायकहस्ताय नमः ।
ॐ शूलायुधाय नमः ।
ॐ मॆघवर्णाय नमः ।
ॐ कृष्णध्वजपताकवतॆ नमः ।
ॐ दक्षिणाभिमुखरथाय नमः ।
ॐ तीक्ष्णदंष्ट्रकराय नमः ।
ॐ शूर्पाकारसनस्थाय नमः ।
ॐ गॊमॆधाभरणप्रियाय नमः ।
ॐ माषप्रियाय नमः ॥ २० ॥


ॐ काश्यपर्षिनंदनाय नमः ।
ॐ भुजगॆश्वराय नमः ।
ॐ उल्कापातयित्रॆ नमः ।
ॐ शूलनिधिपाय नमः ।
ॐ कृष्णसर्पराज्ञॆ नमः ।
ॐ वृषत्पालाव्रतास्याय नमः ।
ॐ अर्धशरीराय नमः ।
ॐ जाड्यप्रदाय नमः ।
ॐ रवींदुभीकराय नमः ।
ॐ छायास्वरूपिणॆ नमः ॥ ३० ॥


ॐ कथिनांगकाय नमः ।
ॐ द्विषट्‌ चक्रछॆदकाय नमः ।
ॐ कराळास्याय नमः ।
ॐ भयंकराय नमः ।
ॐ क्रूरकर्मिणॆ नमः ।
ॐ तमॊरूपाय नमः ।
ॐ श्यामात्मनॆ नमः ।
ॐ नीललॊहिताय नमः ।
ॐ किरीटिनॆ नमः ।
ॐ नीलवसनाय नमः ॥ ४० ॥


ॐ शनिसामंतवर्त्मगाय नमः ।
ॐ चंडालवर्णाय नमः ।
ॐ आत्वर्क्ष्यभवाय नमः ।
ॐ मॆषभवाय नमः ।
ॐ शनिलत्पलदाय नमः ।
ॐ शूलाय नमः ।
ॐ अपसव्यगतयॆ नमः ।
ॐ उपरागकराय नमः ।
ॐ सूर्यॆंदुच्छविव्रातकराय नमः ।
ॐ नीलपुष्पविहाराय नमः ॥ ५० ॥


ॐ ग्रहश्रॆष्ठाय नमः ।
ॐ अष्टमग्रहाय नमः ।
ॐ कबंधमात्रदॆहाय नमः ।
ॐ यातुधानकुलॊद्भवाय नमः ।
ॐ गॊविंदवरपात्राय नमः ।
ॐ दॆवजातिप्रविष्ठकाय नमः ।
ॐ क्रूराय नमः ।
ॐ घॊराय नमः ।
ॐ शनॆर्मित्राय नमः ।
ॐ शुक्रमित्राय नमः ॥ ६० ॥


ॐ अगॊचराय नमः ।
ॐ मौनयॆ नमः ।
ॐ गंगास्नानयात्राय नमः ।
ॐ स्वगृहॆभूबलाढ्यकाय नमः ।
ॐ स्वगृहॆस्यबलहृतॆ नमः ।
ॐ मातामहकारकाय नमः ।
ॐ चंद्रायुतचंडालजन्मसूचकाय नमः ।
ॐ जन्मसिंहाय नमः ।
ॐ राज्यधात्रॆ नमः ।
ॐ महाकायाय नमः ॥ ७० ॥


ॐ जन्मकर्त्रॆ नमः ।
ॐ राज्यकर्त्रॆ नमः ।
ॐ मत्तकाज्ञानप्रदायिनॆ नमः ।
ॐ जन्मकन्याराज्यदायकाय नमः ।
ॐ जन्महानिदाय नमः ।
ॐ नवमॆपितृरॊगाय नमः ।
ॐ पंचमॆशॊकनायकाय नमः ।
ॐ द्यूनॆकळत्रहंत्रॆ नमः ।
ॐ सप्तमॆकलहप्रदायकाय नमः ।
ॐ षष्ठॆवित्तदात्रॆ नमः ॥ ८० ॥


ॐ चतुर्थॆवरदायकाय नमः ।
ॐ नवमॆपापदात्रॆ नमः ।
ॐ दशमॆशॊकदायकाय नमः ।
ॐ आदौयशःप्रदात्रॆ नमः ।
ॐ अंत्यवैर्यप्रदायकाय नमः ।
ॐ कलात्मनॆ नमः ।
ॐ गॊचराचराय नमः ।
ॐ धनॆककुत्प्रदायकाय नमः ।
ॐ पंचमॆदृषणाशृंगदायकाय नमः ।
ॐ स्वर्भानवॆ नमः ॥ ९० ॥


ॐ बलिनॆ नमः ।
ॐ महासौख्यप्रदायकाय नमः ।
ॐ चंद्रवैरिणॆ नमः ।
ॐ शाश्वताय नमः ।
ॐ सूर्यशतृवॆ नमः ।
ॐ पापग्रहाय नमः ।
ॐ शांभवाय नमः ।
ॐ पूज्यकाय नमः ।
ॐ पाठिनपूर्णदाय नमः ।
ॐ पैठीनसकुलॊद्भवाय नमः ॥ १०० ॥


ॐ भक्तरक्षाय नमः ।
ॐ राहुमूर्तयॆ नमः ।
ॐ सर्वाभीष्टफलप्रदाय नमः ।
ॐ दीर्घाय नमः ।
ॐ कृष्णाय नमः ।
ॐ अशिवणॆ नमः ।
ॐ विष्णुनॆत्रारयॆ नमः ।
ॐ दॆवाय नमः ।
ॐ दानवाय नमः ॥ १०९ ॥

 राहु ग्रह कवच - 


अथ राहुकवचम्

अस्य श्रीराहुकवचस्तोत्रमंत्रस्य चंद्रमा ऋषिः ।

अनुष्टुप छन्दः । रां बीजं । नमः शक्तिः ।

स्वाहा कीलकम् । राहुप्रीत्यर्थं जपे विनियोगः ॥

प्रणमामि सदा राहुं शूर्पाकारं किरीटिन् ॥

सैन्हिकेयं करालास्यं लोकानाम भयप्रदम् ॥ १ ॥


निलांबरः शिरः पातु ललाटं लोकवन्दितः ।

चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरीरवान् ॥ २ ॥


नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम ।

जिव्हां मे सिंहिकासूनुः कंठं मे कठिनांघ्रीकः ॥ ३ ॥


भुजङ्गेशो भुजौ पातु निलमाल्याम्बरः करौ ।

पातु वक्षःस्थलं मंत्री पातु कुक्षिं विधुंतुदः ॥ ४ ॥


कटिं मे विकटः पातु ऊरु मे सुरपूजितः ।

स्वर्भानुर्जानुनी पातु जंघे मे पातु जाड्यहा ॥ ५ ॥


गुल्फ़ौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः ।

सर्वाणि अंगानि मे पातु निलश्चंदनभूषण: ॥ ६ ॥


राहोरिदं कवचमृद्धिदवस्तुदं यो ।

भक्ता पठत्यनुदिनं नियतः शुचिः सन् ।

प्राप्नोति कीर्तिमतुलां श्रियमृद्धिमायु

रारोग्यमात्मविजयं च हि तत्प्रसादात् ॥ ७ ॥

 राहु स्तोत्र || 


राहुर्दानव मन्त्री च सिंहिकाचित्तनन्दनः । 

अर्धकायः सदाक्रोधी चन्द्रादित्यविमर्दनः ॥ १ ॥ 


रौद्रो रुद्रप्रियो दैत्यः स्वर्भानुर्भानुमीतिदः । 

ग्रहराजः सुधापायी राकातिथ्यभिलाषुकः ॥ २ ॥ 


कालदृष्टिः कालरुपः श्रीकष्ठह्रदयाश्रयः । 

विधुंतुदः सैंहिकेयो घोररुपो महाबलः ॥ ३ ॥ 


ग्रहपीडाकरो द्रंष्टी रक्तनेत्रो महोदरः । 

पञ्चविंशति नामानि स्मृत्वा राहुं सदा नरः ॥ ४ ॥ 


यः पठेन्महती पीडा तस्य नश्यति केवलम् । 

विरोग्यं पुत्रमतुलां श्रियं धान्यं पशूंस्तथा ॥ ५ ॥ 


ददाति राहुस्तस्मै यः पठते स्तोत्रमुत्तमम् । 

सततं पठते यस्तु जीवेद्वर्षशतं नरः ॥ ६ ॥ 


॥  इति श्रीस्कन्दपुराणे राहुस्तोत्रं संपूर्णम् ॥

राहु ग्रह के मंत्र ||


राहु ग्रह का वैदिक मंत्र || 

ऊँ कयानश्चित्र आभुवदूतीसदा वृध: सखा । कयाशश्चिष्ठया वृता ।


राहु ग्रह का तांत्रिक मंत्र ||

ऊँ ऎं ह्रीं राहवे नम:
ऊँ भ्रां भ्रीं भ्रौं स: राहवे नम:
ऊँ ह्रीं ह्रीं राहवे नम:



राहु ग्रह का पौराणिक मंत्र ||

ऊँ अर्धकायं महावीर्य चन्द्रादित्यविमर्दनम । सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम ।।


राहु ग्रह का गायत्री मंत्र

“ॐ शिरो रूपाय विद्महे अमृतेशाय धीमहि तन्नो राहुः प्रचोदयात्” ।।