Showing posts with label श्री नृसिंह भगवान देव. Show all posts
Showing posts with label श्री नृसिंह भगवान देव. Show all posts

Thursday, May 13, 2021

 ॥ आरती श्री नरसिंह भगवान की ॥

ॐ जय नरसिंह हरे, प्रभु जय नरसिंह हरे।

स्तम्भ फाड़ प्रभु प्रकटे, स्तम्भ फाड़ प्रभु प्रकटे, जन का ताप हरे॥ १ ॥
ॐ जय नरसिंह हरे॥

तुम हो दीन दयाला, भक्तन हितकारी, प्रभु भक्तन हितकारी।
अद्भुत रूप बनाकर, अद्भुत रूप बनाकर, प्रकटे भय हारी॥ २ ॥
ॐ जय नरसिंह हरे॥

सबके ह्रदय विदारण, दुस्यु जियो मारी, प्रभु दुस्यु जियो मारी।
दास जान अपनायो, दास जान अपनायो, जन पर कृपा करी॥ ३ ॥
ॐ जय नरसिंह हरे॥

ब्रह्मा करत आरती, माला पहिनावे, प्रभु माला पहिनावे।
शिवजी जय जय कहकर, पुष्पन बरसावे॥ ४ ॥
ॐ जय नरसिंह हरे॥ 

॥ इति आरती श्री नरसिंह भगवान सम्पूर्णम ॥

Monday, March 15, 2021

 
प्रह्लाद कृत नृसिंह स्तोत्र || 

ब्रह्मादयः सुरगणा मुनयोऽथ सिद्धाः सत्त्वैकतानमतयो वचसां प्रवाहैः।
नाराधितुं पुरुगुणैरधुनापि पिप्रुः किं तोष्टुमर्हति स मे हरिरुग्रजातेः॥१॥

मन्ये धनाभिजनरूपतपःश्रुतौज- स्तेजःप्रभावबलपौरुषबुद्धियोगाः।
नाराधनाय हि भवन्ति परस्य पुंसो भक्त्या तुतोष भगवान् गजयूथपाय॥२॥

विप्राद्द्विषड्गुणयुतादरविन्दनाभ- पादारविन्दविमुखाच्छ्वपचं वरिष्ठम्।
मन्ये तदर्पितमनोवचनेहितार्थ- प्राणं पुनाति स कुलं न तु भूरिमानः॥३॥

नैवात्मनः प्रभुरयं निजलाभपूर्णो मानं जनादविदुषः करुणो वृणीते ।
यद्यज्जनो भगवते विदधीत मानं तच्चात्मने प्रतिमुखस्य यथा मुखश्रीः ॥४॥

तस्मादहं विगतविक्लव ईश्वरस्य सर्वात्मना महि गृणामि यथा मनीषम्।
नीचोऽजया गुणविसर्गमनुप्रविष्टः पूयेत येन हि पुमाननुवर्णितेन ॥५॥

सार्वे ह्यमी विधिकरास्तव सत्त्वधाम्नो ब्रह्मादयो वयमिवेश न चोद्विजन्तः |
क्षेमाय भूतय  उतात्मसुखाय चास्य विक्रीडितं  भगवतो रुचिरावतारैः ॥६॥

तद्यच्छ मन्युमसुरश्च हतस्त्वयाद्य मोदेत साधुरपि वृश्चिकसर्पहत्या।
लोकाश्च निर्वृतिमिताः प्रतियन्ति सर्वे रूपं नृसिंह विभवाय जनाः स्मरन्ति॥७॥

नाहं बिभेम्यजित तेऽतिभयानकास्य- जिह्वार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् ।
आन्त्रस्रजः क्षतजकेसरशङ्कुकर्णा- न्निर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् ॥८॥

त्रस्तोऽस्म्यहं कृपणवत्सलदुःसहोग्र- संसारचक्रकदनाद्ग्रसतां प्रणीतः।
बद्धः स्वकर्मभिरुशत्तम तेऽङ्घ्रिमूलं प्रीतोऽपवर्गशरणं ह्वयसे कदा नु॥९॥

यस्मात्प्रियाप्रियवियोगसयोगजन्म- शोकाग्निना सकलयोनिषु दह्यमानः।
दुःखौषधं तदपि दुःखमतद्धियाऽहं भूमन् भ्रमामि वद मे तव दास्ययोगम्॥१०॥

सोऽहं प्रियस्य सुहृदः परदेवताया लीलाकथास्तव नृसिंह विरिञ्चिगीताः।
अञ्जस्तितर्म्यनुगृणन् गुणविप्रमुक्तो दुर्गाणि ते पदयुगालयहंससङ्गः ॥११॥

बालस्य नेह शरणं पितरौ नृसिंह नार्तस्य चागदमुदन्वति मज्जतो नौः।
तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्ट- स्तावद्विभो तनुभृतां त्वदुपक्षितानाम् ॥१२॥


यस्मिन् यतो यर्हि येन च यस्य यस्मा- द्यस्मै यथा यदुत यस्त्वपरः परो वा।
भावः करोति विकरोति पृथक्स्वभावः सञ्चोदितस्तदखिलं भवतः स्वरूपम् ॥१३॥

माया मनः सृजति कर्ममयं बलीयः कालेन चोदितगुणानुमतेन पुंसः ।
छन्दोम्यं यदजयार्पितषोडशारं संसारचक्रमज कोऽतितरेत्त्वदन्यः॥१४॥

स त्वं हि नित्यविजितात्मजुणः स्वधाम्ना कालो वशीकृतविसृज्यविसर्गशक्तिः।
चक्रे विसृष्टमजयेश्वर षोडशारे निष्पीड्यमाणमुपकर्ष विभो प्रपन्नम् ॥१५॥

दृष्टा मया दिवि विभोऽखिलधिष्ण्यपाना- मायुः श्रियो विभव इच्छति याञ्जनोऽयम्।
येऽस्मत्पितुः कुपितहासविजृंभितभ्रू- विस्फूर्जितेन लुलिताः स तु ते निरस्तः ॥१६॥

तस्मादमूस्तनुभृतामहमाशिषो ज्ञ आयुः श्रियं विभवमैन्द्रियमाविरिञ्चात् ।
नेच्छामि ते  विलुलितानुरुविक्रमेण कालात्मनोपनय मां निजभृत्यपार्श्वम्॥१७॥

कुत्राशिषः श्रुतिसुखाः मृगतृष्णिरूपाः क्वेदं कलेवरमशेषरुजां विरोहः ।
निर्विद्यते न तु जनो यदपीति विद्वान् कामानलं मधुलवैः शमयन्दुरापैः॥१८॥

क्वाहं रजवप्रभव ईश तमोऽधिकेऽस्मि- ञ्जातः सुरेतरकुले क्व तवानुकम्पा।
न ब्रह्मणॊ न भवस्य न वै रमायाः यन्मेऽर्पितः शिरसि पद्मकरप्रसादः ॥१९॥

नैषा परावरमतिर्भवतो ननु स्या- ज्जन्तोर्यथाऽऽत्मसुहृदो जगतस्तथापि।
संसेवया सुरतरोरिव ते प्रसादः सेवानुरूपमुदयो न परावरत्वम् ॥२०॥

एवं जनं निपतितं प्रभवाहिकूपे कामाभिकाममनु य़ः प्रपतन्प्रसङ्गात्।
कृत्वाऽऽत्मसात्सुरर्षिणा भगवन्गृहीतः सोऽहं कथं नु विसृजे तव भृत्यसेवाम् ॥२१॥

मत्प्राणरक्षणमनन्त पितुर्वधश्च मन्ये स्वभृत्यऋषिवाक्यमृतं  विधातुम्।
खड्गं प्रगृह्य यदवोचदसद्विधित्सु- स्त्वामीश्वरो मदपरोऽवतु कं हरामि॥२२॥

एकस्त्वमेव जगदेतदमुष्य यत्त्व- माद्यन्तयोः पृथगवस्यसि मध्यतश्च।
सृष्ट्वा गुणव्यतिकरं निजमाययेदं नानेव तैरवसितस्तदनुप्रविष्टः ॥२३॥

त्वं वा इदं सदसदीश भवांस्ततोऽन्यो माया यदात्मपरबुद्धिरियं ह्यपार्था।
यद्यस्य जन्म निधनं स्थितिरीक्षणं च तद्वै तदेव वसुकालवदष्टितर्वोः॥२४॥

न्यस्येदमात्मनि जगद्विलयांबुमध्ये शेषेऽऽत्मना निजसुखानुभवो निरीहः।
योगेन मीलितदृगात्मनिपीतनिद्र- स्तुर्ये स्थितो न तु तमो न गुणांश्च भुङ्क्ते॥२५॥

तस्यैव ते वपुरिदं निजकालशक्त्या सञ्चोदितप्रकृतिधर्मण आत्मगूढम्।
अम्भस्यनन्तशयनाद्विरमद्समाधे- र्नाभेरभूत्स्वकणिकावटन्महाब्जम्॥२६॥

तत्सम्भवः कविरतोऽन्यदपश्यमान- स्त्वां बीजमात्मनि ततं स्वबहिर्विचिन्त्य।
नाविन्ददब्दशतमप्सु निमज्जमानो जातेऽङ्कुरे कथमु होपलभेत बीजम् ॥२७॥

स त्वात्मयोनिरतिविस्मित आस्थितोऽब्जं कालेन तीव्रतपसा परिशुद्धभावः।
त्वामात्मनीश भुवि गन्धमिवातिसूक्ष्मं भूतेन्द्रियाशयमये विततं ददर्श ॥२८॥

एवं सहस्रवदनाङ्घ्रिशिरःकरोरु- नासास्यकर्णनयनाभरणायुधाढ्यम्।
मायामयं सदुपलक्षितसन्निवेशं दृष्ट्वा महापुरुषमाप मुदं विरिञ्चः ॥२९॥

तस्मै भवान् हयशिरस्तनुवं च बिभ्रत् वेदद्रुहावतिबलौ मधुकैटभाख्यौ।
हत्वाऽऽनयंच्छ्रुतिगणांस्तु रजस्तमश्च सत्त्वं तव प्रियतमां तनुमामनन्ति॥३०॥

इत्थं नृतिर्यगृषिदेवझषावतारै- र्लोकान् विभावयसि हंसि जगत्प्रतीपान्।
धर्मं महापुरुष पासि युगानुवृत्तं छन्नः कलौ यदभवस्त्रियुगोऽथ स त्वम्॥३१॥

नैतन्मनस्तव कथासु विकुण्ठनाथ सम्प्रीयते दुरितदुष्टमसाधु तीव्रम्।
कामातुरं हर्षशोकभयैषणार्थं तस्मिन् कथं तव गतिं विमृशामि दीनः ॥३२॥

जिह्वैकतोऽच्युत विकर्षति मावितृप्ता शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित्।
घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्ति- र्बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति॥३३॥

एवं स्वकर्मपतितं भववैतरण्या- मन्योन्यजन्ममरणाशनभीतभीतम्।
पश्यञ्जनं स्वपरविग्रहवैरमैत्रं हन्तेति पारचर पीपृहि मूढमद्य॥३४॥

को न्वत्र तेऽखिलगुरो भगवन् प्रयास उत्तारणेऽस्य भवसंभवलोपहेतोः।
मूढॆषु वै महदनुग्रह आर्तबन्धो किं तेन ते प्रियजनाननुसेवतां नः ॥३५॥

नैवोद्विजे पर दुरत्ययवैतरण्या- स्त्वद्वीर्यगायनमहामृतमग्नचित्तः।
शोचे ततो विमुखचेतस इन्द्रियार्थ- मायासुखाय भरमुद्वहतो विमूढान् ॥३६॥

प्रायेण देव मुनयः स्वविमुक्तिकामा मौनं चरन्ति विजने न परार्थनिष्ठाः।
नैतान् विहाय कृपणान् विमुमुक्ष एको नान्यं त्वदस्य  शरणं भ्रमतोऽनुपश्ये॥३७॥

यन्मैथुनादि गृहमेधिसुखं हि तुच्छं कण्डूयनेन करयोरिव दुःखदुःखम्।
तृप्यन्ति नेह कृपणा बहुदुःखभाजः कण्डूतिवन्मनसिजं विषहेत धीरः ॥३८॥

मौनव्रतश्रुततपोऽध्ययनस्वधर्म- व्याख्यारहोजपसमाधय आपवर्ग्याः।
प्रायः परं पुरुष ते त्वजितेन्द्रियाणां वार्ता भवन्त्युत न वात्र तु दांभिकानाम् ॥३९॥

रूपे इमे सदसती तव वेदसृष्टे बीजाङ्कुराविव न चान्यदरूपकस्य।
युक्ताः समक्षमुभयत्र विचिन्वते त्वां योगेन वह्निमिव दारुषु नान्यतो स्यात्॥४०॥

त्वं वायुरग्निरवनिर्वियदंबुमात्राः प्राणेन्द्रियाणि हृदयं चिदनुग्रहश्च।
सर्वं त्वमेव सगुणो विगुणश्च भूमन् नान्यत् त्वदस्त्यपि मनोवचसा निरुक्तम् ॥४१॥

नैते गुणा न गुणिनो महदादयो ये सर्वे मनः प्रभृतयः सहदेवमर्त्याः।
आद्यन्तवन्त उरुगाय विदन्ति हि त्वा- मेवं विमृश्य सुधियो विरमन्ति शब्दात् ॥४२॥

तत् तेऽर्हत्तम नमःस्तुतिकर्मपूजाः कर्म स्तुतिश्चरणयोः श्रवणं कथायाम्।
संसेवया त्वयि विनेति षडङ्गया किं भक्तिं जनः परमहंसगतौ लभेत ॥४३॥

नारद उवाच: 
एतावद्वर्णितगुणॊ भक्त्या भक्तेन निर्गुणः।
प्रह्लादं प्रणतं प्रीतो यतमन्युरभाषत ॥४४॥

श्रीभगवानुवाच: 
प्रह्लाद भद्र भद्रं ते प्रीतोऽहं तेऽसुरोत्तम।
वरं वृणीष्वाभिमतं कामपूरोस्म्यहं नृणाम् ॥४५॥

मामप्रीणत आयुष्मन् दर्शनं दुर्लभं हि मे ।
दृष्ट्वा मां न पुनर्जन्तुरात्मानं तप्तुमर्हति॥४६॥

प्रीणन्ति ह्यथ मां धीराः सर्वभावेन साधवः ।
श्रेयस्कामा महाभागाः सर्वासामाशिषां पतिम्॥४७॥

एवं प्रलोभ्यमानोऽपि वरैर्लोकप्रलोभनैः।
एकान्तित्वात् भगवति नैच्छत् तानसुरोत्तमः ॥४८॥

Saturday, February 20, 2021

श्री नृसिंह गिरि अष्टोत्तर शतनाम स्तोत्रम् || 


ब्रह्मवर्ण समुद्भूतो ब्रह्ममार्गप्रवर्द्धकः ।

ब्रह्मज्ञानसदासक्तो व्रह्मज्ञानपरायणः ॥ १॥


शिवपञ्चाक्षररतोऽशिवज्ञानविनाशकः ॥

शिवाभिषेकनिरतः शिवपूजापरायणः ॥ २॥


नारायणप्रवचनो नारायणपरायणः ।

नारायणप्रत्नतनुर्नारायणनयस्थितः ॥ ३॥


दक्षिणामूर्तिपीठस्थो दक्षिणामूर्तिदेवतः ।

श्रीमेधादक्षिणामूर्तिमन्त्रयन्त्रसदारतः ॥ ४॥


मण्डलेशवरप्रेष्ठो मण्डलेशवरप्रदः ।

मण्डलेशगुरुश्रेष्ठो मण्डलेशवरस्तुतः ॥ ५॥


निरञ्जनप्रपीठस्थो निरञ्जनविचारकः ।

निरञ्जनसदाचारो निरञ्जनतनुस्थितः ॥ ६॥


वेदविद्वेदहृदयो वेदपाठप्रवर्तकः।

वेदराद्धान्तसंविष्टोऽवेदपथप्रखण्डकः ॥ ७॥


शाङ्कराद्वैतव्याख्याता शाङ्कराद्वैतसंस्थितः ।

शाकराद्वैतविद्वेष्टृविनाशनपरायणः ॥ ८॥


अत्याश्रमाचाररतो भूतिधारणतत्परः ।

सिद्धासनसमासीनो काञ्चनाभो मनोहरः ॥ ९॥


अक्षमालाधृतग्रीवः काषायपरिवेष्टितः ।

ज्ञानमुद्रादक्षहस्तो वामहस्तकमण्डलुः ॥ १०॥


सन्न्यासाश्रमनिर्भाता परहंसधुरन्धरः ।

सन्न्यासिनयसंस्कर्ता परहंसप्रमाणकः ॥ ११॥


माधुर्यपूर्णचरितो मधुराकारविग्रहः ।

मधुवाङ्निग्रहरतो मधुविद्याप्रदायकः ॥ १२॥


मधुरालापचतुरो निग्रहानुग्रहक्षमः ।

आर्द्धरात्रध्यानरतस्त्रिपुण्ड्राङ्कितमस्तकः ॥ १३॥


आरण्यवार्तिकपरः पुष्पमालाविभूषितः ।

वेदान्तवार्तानिरतः प्रस्थानत्रयभूषणः ॥ १४॥


सानन्दज्ञानभाष्यादिग्रन्थग्रन्थिप्रभेदकः ।

दृष्टान्तानूक्तिकुशलो दृष्टान्तार्थनिरूपकः ॥ १५॥


वीकानेरगुरुर्वाग्मी वङ्गदेशप्रपूजितः ।

लाहौरसरगोदादौ हिन्दूधर्मप्रचारकः ॥ १६॥


गणेशजययात्रादिप्रतिष्ठापनतत्परः ।

गणेशशक्तिसूर्येशविष्णुभक्तिप्रचारकः ॥ १७॥


सर्ववर्णसमाम्नातलिङ्गपूजाप्रवर्द्धकः ।

गीतोत्सवसपर्यादिचित्रयज्ञप्रवर्तकः ॥ १८॥


लोकेश्वरानन्दप्रियो दयानन्दप्रसेवितः ।

आत्मानन्दगिरिज्ञानसतीर्थ्यपरिवेष्टितः ॥ १९॥


अनन्तश्रद्धापरमप्रकाशानन्दपूजितः ।

जूनापीठस्थरामेशवरानन्दगिरेर्गुरुः ॥ २०॥


माधवानन्दसंवेष्टा काशिकानन्ददेशिकः ।

वेदान्तमूर्तिराचार्यो शान्तो दान्तः प्रभुस्सुहृत् ॥ २१॥


निर्ममो विश्वतरणिः स्मितास्यो निर्मलो महान् ।

तत्त्वमस्यादिवाक्योत्थदिव्यज्ञानप्रदायकः ॥ २२॥


गिरीशानन्दसम्प्राप्तपरमहंसपरम्परा ।

जनार्दनगिरिब्रह्यसंन्यासाश्रमदीक्षितः ॥ २३॥


मण्डलेशकुलश्रेष्ठजयेन्द्रपुरीसंस्तुतः ।

रामानन्दगिरिस्थानस्थापितो मण्डलेश्वरः ॥ २४॥


शन्दमहेशानन्दाय स्वकीयपददायकः ।

यतीन्द्रकृष्णानन्दैश्च पूजितपादपद्मक्ः ॥ २५॥


उषोत्थानस्नानपूजाजपध्यानप्रचोदकः ।

तुरीयाश्रमसंविष्ठभाष्यपाठप्रवर्तकः ॥ २६॥


अष्टलक्ष्यीप्रदस्तृप्तः स्पर्शदीक्षाविधायकः ।

अहैतुककृपासिन्धुरनघोभक्तवत्सलः ॥ २७॥


विकारशून्यो दुर्धर्षः शिवसक्तो वरप्रदः ।

काशीवासप्रियो मुक्तो भक्तमुक्तिविधायकः ॥ २८॥


श्रीभत्परमहंसादिसमस्तबिरुदाङ्कितः ।

नृसिंहब्रह्म वेदान्तजगत्यद्य जगद्गुरुः ॥ २९॥


विलयं यान्ति पापानि गुरुनामानुकीर्तनात् ।

मुच्यते नात्र सन्देहः श्रद्धाभक्तिसमन्वितः ॥ ३०॥
श्री नृसिंह अष्टकम ||


श्रीमदकलङ्कपरिपूर्णशशिकोटि- श्रीधर मनोहरसटापटलकान्त ।

पालय कृपालय भवाम्बुधिनिमग्नं दैत्यवरकाल नरसिंह नरसिंह ॥ १ ॥


पादकमलावनतपातकिजनानां पातकदवानलपतत्रि वरकेतो ।

भावनपरायण भवार्तिहरया मां पाहि कृपयैव नरसिंह नरसिंह ॥ २ ॥


तुङ्गनखपङ्क्तिदलितासुरवरासृ- क्पङ्कनवकुङ्‌कुमविपङ्किलमहोरः ।

पण्डितनिधान कमलालय नमस्ते पङ्कजनिषण्ण नरसिंह नरसिंह ॥ ३ ॥


मौलिषु विभूषणमिवामरवराणां योगिहृदयेषु च शिरस्सु निगमानाम् ।

राजदरविन्दरुचिरं पदयुगं ते धेहि मम मूर्ध्नि नरसिंह नरसिंह ॥ ४ ॥


वारिजविलोचन मदन्तिमदशायां क्लेशविवशीकृतसमस्तकरणायाम् ।

एहि रमया सह शरण्य विहगानां नाथमधिरुह्य नरसिंह नरसिंह ॥ ५ ॥


हाटककिरीटवरहारवनमाला- ताररशनामकरकुण्डलमणीन्द्रैः ।

भूषितमशेषनिलयं तव वपुर्मे चेतसि चकास्तु नरसिंह नरसिंह ॥ ६ ॥


इन्दुरविपावकविलोचन रमाया मन्दिर महाभुजलसद्वररथाङ्ग ।

सुन्दर चिराय रमतां त्वयि मनो मे नन्दितसुरेश नरसिंह नरसिंह ॥ ७ ॥


माधव मुकुन्द मधुसूदन मुरारे वामन नृसिंह शरणं भव नतानाम् ।

कामद घृणिन् निखिलकारण नयेयं कालममरेश नरसिंह नरसिंह ॥ ८ ॥


अष्टकमिदं सकलपातकभयघ्नं कामदमशेषदुरितामयरिपुघ्नम् ।

यः पठति सन्ततमशेषनिलयं ते गच्छति पदं स नरसिंह नरसिंह ॥ ९ ॥
श्री नृसिंह अष्टोत्तर शतनामावली || 


ॐ नारसिंहाय नमः ।
ॐ महासिंहाय नमः ।
ॐ दिव्यसिंहाय नमः ।
ॐ महाबलाय नमः ।
ॐ उग्रसिंहाय नमः ।
ॐ महादॆवाय नमः ।
ॐ स्तंभजाय नमः ।
ॐ उग्रलॊचनाय नमः ।
ॐ रौद्राय नमः ।
ॐ सर्वाद्भुताय नमः ॥ १० ॥


ॐ श्रीमतॆ नमः ।
ॐ यॊगानंदाय नमः ।
ॐ त्रिविक्रमाय नमः ।
ॐ हरियॆ नमः ।
ॐ कॊलाहलाय नमः ।
ॐ चक्रिणॆ नमः ।
ॐ विजयाय नमः ।
ॐ जयवर्धनाय नमः ।
ॐ पंचाननाय नमः ।
ॐ परब्रह्मणॆ नमः ॥ २० ॥


ॐ अघॊराय नमः ।
ॐ घॊरविक्रमाय नमः ।
ॐ ज्वलन्मुखाय नमः ।
ॐ ज्वालामालिनॆ नमः ।
ॐ महाज्वालाय नमः ।
ॐ महाप्रभवॆ नमः ।
ॐ निटिलाक्षाय नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ दुर्निरीक्षाय नमः ।
ॐ प्रतापनाय नमः ॥ ३० ॥


ॐ महादंष्ट्रायुधाय नमः ।
ॐ प्राज्ञाय नमः ।
ॐ चंडकॊपिनॆ नमः ।
ॐ सदाशिवाय नमः ।
ॐ हिरण्यकशिपुध्वंसिनॆ नमः ।
ॐ दैत्यदानवभंजनाय नमः ।
ॐ गुणभद्राय नमः ।
ॐ महाभद्राय नमः ।
ॐ बलभद्रकाय नमः ।
ॐ सुभद्रकाय नमः ॥ ४० ॥


ॐ कराळाय नमः ।
ॐ विकराळाय नमः ।
ॐ विकर्त्रॆ नमः ।
ॐ सर्वकर्तृकाय नमः ।
ॐ शिंशुमाराय नमः ।
ॐ त्रिलॊकात्मनॆ नमः ।
ॐ ईशाय नमः ।
ॐ सर्वॆश्वराय नमः ।
ॐ विभवॆ नमः ।
ॐ भैरवाडंबराय नमः ॥ ५० ॥


ॐ दिव्याय नमः ।
ॐ अच्युताय नमः ।
ॐ कविमाधवाय नमः ।
ॐ अधॊक्षजाय नमः ।
ॐ अक्षराय नमः ।
ॐ शर्वाय नमः ।
ॐ वनमालिनॆ नमः ।
ॐ वरप्रदाय नमः ।
ॐ विश्वंभराय नमः ।
ॐ अद्भुताय नमः ॥ ६० ॥


ॐ भव्याय नमः ।
ॐ श्रीविष्णवॆ नमः ।
ॐ पुरुषॊत्तमाय नमः ।
ॐ अनघास्त्राय नमः ।
ॐ नखास्त्राय नमः ।
ॐ सूर्यज्यॊतिषॆ नमः ।
ॐ सुरॆश्वराय नमः ।
ॐ सहस्रबाहवॆ नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वसिद्धिप्रदायकाय नमः ॥ ७० ॥


ॐ वज्रदंष्ट्राय नमः ।
ॐ वज्रनखाय नमः ।
ॐ महानंदाय नमः ।
ॐ परंतपाय नमः ।
ॐ सर्वमंत्रैकरूपाय नमः ।
ॐ सर्वयंत्र विधारणाय नमः ।
ॐ सर्वतंत्रात्मकाय नमः ।
ॐ अव्यक्ताय नमः ।
ॐ सुव्यक्ताय नमः ।
ॐ भक्तवत्सलाय नमः ॥ ८० ॥


ॐ वैशाखशुक्लभूतॊत्थाय नमः ।
ॐ शरणागतवत्सलाय नमः ।
ॐ उदारकीर्तयॆ नमः ।
ॐ पुण्यात्मनॆ नमः ।
ॐ महात्मनॆ नमः ।
ॐ दंडविक्रमाय नमः ।
ॐ वॆदत्रयप्रपूज्याय नमः ।
ॐ भगवतॆ नमः ।
ॐ परमॆश्वराय नमः ।
ॐ श्रीवत्सांकाय नमः ॥ ९० ॥


ॐ श्रीनिवासाय नमः ।
ॐ जगद्व्यापिनॆ नमः ।
ॐ जगन्मयाय नमः ।
ॐ जगत्पालाय नमः ।
ॐ जगन्नाथाय नमः ।
ॐ महाकायाय नमः ।
ॐ द्विरूपभृतॆ नमः ।
ॐ परमात्मनॆ नमः ।
ॐ परंज्यॊतिषॆ नमः ।
ॐ निर्गुणाय नमः ॥ १०० ॥


ॐ नृकॆसरिणॆ नमः ।
ॐ परतत्त्वाय नमः ।
ॐ परंधाम्नॆ नमः ।
ॐ सच्चिदानंद विग्रहाय नमः ।
ॐ लक्ष्मीनृसिंहाय नमः ।
ॐ सर्वात्मनॆ नमः ।
ॐ धीराय नमः ।
ॐ प्रह्लादपालकाय नमः ॥ १०८ ॥


॥ श्री नरसिंहाष्टॊत्तर शतनामावलिः सपूर्णम्‌ ॥
श्री नृसिंह स्तोत्र || 

कुन्देन्दुशङ्खवर्णः कृतयुगभगवान्पद्मपुष्पप्रदाता

त्रेतायां काञ्चनाभिः पुनरपि समये द्वापरे रक्तवर्णः ।


शङ्को सम्प्राप्तकाले कलियुगसमये नीलमेघश्च नाभा

प्रद्योतसृष्टिकर्ता परबलमदनः पातु मां नारसिंहः ॥ १ ॥


नासाग्रं पीनगण्डं परबलमदनं बद्धकेयुरहारं

वज्रं दंष्ट्राकरालं परिमितगणनः कोटिसूर्याग्नितेजः ।


गांभीर्यं पिङ्गलाक्षं भ्रुकिटतमुखं केशकेशार्धभागं

वन्दे भीमाट्टहासं त्रिभुवनजयः पातु मां नारसिंहः ॥ २ ॥


पादद्वन्द्वं धरित्र्यां पटुतरविपुलं मेरुमध्याह्नसेतुं

नाभिं ब्रह्माण्डसिन्धो हृदयमभिमुखं भूतविद्वांसनेतः ।


आहुश्चक्रं तस्य बाहुं कुलिशनखमुखं चन्द्रसूर्याग्निनेत्रम् ।

वक्त्रं वह्न्यस्य विद्यस्सुरगणविनुतः पातु मां नारसिंहः ॥ ३ ॥


घोरं भीमं महोग्रं स्फटिककुटिलता भीमपालं पलाक्षं

चोर्ध्वं केशं प्रलयशशिमुखं वज्रदंष्ट्राकरालम् ।


द्वात्रिंशद्बाहुयुग्मं परिखगदात्रिशूलपाशपाण्यग्निधार

वन्दे भीमाट्टहासं लखगुणविजयः पातु मां नारसिंहः ॥ ४ ॥


गोकण्ठं दारुणान्तं वनवरविदिपी डिंडिडिंडोटडिंभं

डिंभं डिंभं डिडिंभं दहमपि दहमः झंप्रझंप्रेस्तु झंप्रैः ।


तुल्यस्तुल्यस्तुतुल्य त्रिघुम घुमघुमां कुङ्कुमां कुङ्कुमाङ्गं

इत्येवं नारसिंहं पूर्णचन्द्रं वहति कुकुभः पातु मां नारसिंहः ॥ ५ ॥

भूभृद्भूभुजङ्गं मकरकरकर प्रज्वलज्ज्वालमालं

खर्जर्जं खर्जखर्जं खजखजखजितं खर्जखर्जर्जयन्तम् ।


भोभागं भोगभागं गग गग गहनं कद्रुम धृत्य कण्ठं

स्वच्छं पुच्छं सुकच्छं स्वचितहितकरः पातु मां नारसिंहः ॥ ६ ॥


झुंझुंझुंकारकारं जटमटिजननं जानुरूपं जकारं

हंहंहं हंसरूपं हयशत ककुभं अट्टहासं विवेशम् ।


वंवंवं वायुवेगं सुरवरविनुतं वामनाक्षं सुरेशं

लंलंलं लालिताक्षं लखगुणविजयः पातु मां नारसिंहः ॥ ७ ॥


यं दृष्ट्वा नारसिंहं विकृतनखमुखं तीक्ष्णदंष्ट्राकरालं

पिङ्गाक्षं स्निग्धवर्णं जितवपुसदृशः कुंचिताग्रोग्रतेजाः ।


भीताश्चा दानवेन्द्रास्सुरभयविनुतिश्शक्तिनिर्मुक्तहस्तं

नाशास्यं किं कमेतं क्षपितजनकजः पातु मां नारसिंहः ॥ ८ ॥


श्रीवत्साङ्कं त्रिनेत्रं शशिधरधवलं चक्रहस्तं सुरेशं

वेदाङ्गं वेदनादं विनुततनुविदं वेदरूपं स्वरूपम् ।


होंहों होंकारकारं हुतवह नयनं प्रज्वलज्वाल पाक्षं

क्षंक्षंक्षं बीजरूपं नरहरि विनुतः पातु मां नारसिंहः ॥ ९ ॥


अहो वीर्यमहो शौर्यं महाबलपराक्रमम् ।

नारसिंहं महादेवं अहोबलमहाबलम् ॥ १० ॥


ज्वालाहोबलमालोलः क्रोडाकारं च भार्गवम् ।

योगानन्दश्चत्रवट पावना नवमूर्तये ॥ ११ ॥


श्रीमन्नृसिंह विभवे गरुडध्वजाय तापत्रयोपशमनाय भवौषधाय ।

तृष्णादि वृश्चिक जलाग्निभुजङ्ग रोग-क्लेशव्ययाय हरये गुरवे नमस्ते ॥


। इति श्री नृसिंह स्तोत्रं ।
श्री नृसिंह अष्टकम || 

ध्यायामि नरसिम्हक्यं ब्रह्म वेदन्तगोचारं ।
भवाब्धि तरनोपयं संख चाकर धरं परम् || १ ||


नीलं रामं चा परिभूय कृपा रसेन स्तम्भे स्वसक्ति मनघं विनिधाय देव ।
प्रह्लाद रक्षण विधि यति कृपा ते श्री नरसिंह परिपालय मम च भक्तं || २ ||


इन्द्रादि देव निकरस्य कीर्त कोटि प्रत्युप्त रत्न प्रति बिम्बित पद पद्म ।
कल्पान्त कला घन गर्जन तुल्य नाद श्री नरसिंह परिपालय मम च भक्तं || ३ ||


प्रह्लाद पोष प्रलयर्क समान वक्त्र हूं -कर निर्जिता निसाचर वृन्द नाद ।
श्री -नारद मुनि संघ सुगियमाना श्री नरसिंह परिपालय मम च भक्तं || ४ ||


रत्रिन चरद्रि जतरत परिस्रंस्य मन रक्तं निपीय परिकल्पित सान्तर मल ।
विद्रावित -अखिल सुरो उग्र नरसिंह रूपं श्री नरसिंह परिपालय मम चा भक्तं || ५ ||


योगीन्द्र, योग परिरक्सक, देव देव दिनार्थि हरि विभव अगम गीयमान ।
मां वीक्ष्य दिनं असरण्यं अगन्य -शिलं श्री नरसिंह परिपालय मम चा भक्तं || ६ ||


प्रह्लाद सोक विनिवरण भद्र सिंह नकतन चरेन्द्र मद खण्डन वीर सिंह ।
इन्द्रादि देवजना संगनुत पद पद्म श्री नरसिंह परिपालय मम चा भक्तं || ७ ||


ज्ञानेन केचित् अवलम्ब्य पदंभुजं थेय, केचित् सुकर्म निकरेण परे चा भक्त्य ।
मुक्तिं गतः खलु जनः कृपय मुरारे श्री नरसिंह परिपालय मम चा भक्तं || ८ ||
श्री नृसिंह कवच || 


विनयोग-


ॐ अस्य श्रीलक्ष्मीनृसिंह कवच महामंत्रस्य

ब्रह्माऋिषः, अनुष्टुप् छन्दः, श्रीनृसिंहोदेवता, ॐ

क्षौ बीजम्, ॐ रौं शक्तिः, ॐ ऐं क्लीं कीलकम्

मम सर्वरोग, शत्रु, चौर, पन्नग,

व्याघ्र, वृश्चिक, भूत-प्रेत, पिशाच, डाकिनी-

शाकिनी, यन्त्र मंत्रादि, सर्व विघ्न निवाराणार्थे

श्री नृसिहं कवचमहामंत्र जपे विनयोगः।।

एक आचमन जल छोड़ दें।


अथ ऋष्यादिन्यास –

ॐ ब्रह्माऋषये नमः शिरसि।

ॐ अनुष्टुप् छन्दसे नमो मुखे।

ॐ श्रीलक्ष्मी नृसिंह देवताये नमो हृदये।

ॐ क्षौं बीजाय नमोनाभ्याम्।

ॐ शक्तये नमः कटिदेशे।

ॐ ऐं क्लीं कीलकाय नमः पादयोः।

ॐ श्रीनृसिंह कवचमहामंत्र जपे विनयोगाय नमः सर्वाङ्गे॥


अथ करन्यास –

ॐ क्षौं अगुष्ठाभ्यां नमः।

ॐ प्रौं तर्जनीभ्यां नमः।

ॐ ह्रौं मध्यमाभयां नमः।

ॐ रौं अनामिकाभ्यां नमः।

ॐ ब्रौं कनिष्ठिकाभ्यां नमः।

ॐ जौं करतलकर पृष्ठाभ्यां नमः।


अथ हृदयादिन्यास –

ॐ क्षौ हृदयाय नमः।

ॐ प्रौं शिरसे स्वाहा।

ॐ ह्रौं शिखायै वषट्।

ॐ रौं कवचाय हुम्।

ॐ ब्रौं नेत्रत्रयाय वौषट्।

ॐ जौं अस्त्राय फट्।


नृसिंह ध्यान –


ॐ सत्यं ज्ञान सुखस्वरूप ममलं क्षीराब्धि मध्ये स्थित्।

योगारूढमति प्रसन्नवदनं भूषा सहस्रोज्वलम्।

तीक्ष्णं चक्र पीनाक शायकवरान् विभ्राणमर्कच्छवि।

छत्रि भूतफणिन्द्रमिन्दुधवलं लक्ष्मी नृसिंह भजे॥


कवच पाठ –


ॐ नमोनृसिंहाय सर्व दुष्ट विनाशनाय सर्वंजन मोहनाय सर्वराज्यवश्यं कुरु कुरु स्वाहा।

ॐ नमो नृसिंहाय नृसिंहराजाय नरकेशाय नमो नमस्ते।

ॐ नमः कालाय काल द्रष्ट्राय कराल वदनाय च।

ॐ उग्राय उग्र वीराय उग्र विकटाय उग्र वज्राय वज्र देहिने रुद्राय रुद्र घोराय भद्राय भद्रकारिणे ॐ ज्रीं ह्रीं नृसिंहाय नमः स्वाहा !!

ॐ नमो नृसिंहाय कपिलाय कपिल जटाय अमोघवाचाय सत्यं सत्यं व्रतं महोग्र प्रचण्ड रुपाय।

ॐ ह्रां ह्रीं ह्रौं ॐ ह्रुं ह्रुं ह्रुं ॐ क्ष्रां क्ष्रीं क्ष्रौं फट् स्वाहा।

ॐ नमो नृसिंहाय कपिल जटाय ममः सर्व रोगान् बन्ध बन्ध, सर्व ग्रहान बन्ध बन्ध, सर्व दोषादीनां बन्ध बन्ध, सर्व वृश्चिकादिनां विषं बन्ध बन्ध, सर्व भूत प्रेत, पिशाच, डाकिनी शाकिनी, यंत्र मंत्रादीन् बन्ध बन्ध, कीलय कीलय चूर्णय चूर्णय, मर्दय मर्दय, ऐं ऐं एहि एहि, मम येये विरोधिन्स्तान् सर्वान् सर्वतो हन हन, दह दह, मथ मथ, पच पच, चक्रेण, गदा, वज्रेण भष्मी कुरु कुरु स्वाहा।

ॐ क्लीं श्रीं ह्रीं ह्रीं क्ष्रीं क्ष्रीं क्ष्रौं नृसिंहाय नमः स्वाहा।

ॐ आं ह्रीं क्ष्रौं क्रौं ह्रुं फट्।

ॐ नमो भगवते सुदर्शन नृसिंहाय मम विजय रुपे कार्ये ज्वल ज्वल प्रज्वल प्रज्वल असाध्यमेनकार्य शीघ्रं साधय साधय एनं सर्व प्रतिबन्धकेभ्यः सर्वतो रक्ष रक्ष हुं फट् स्वाहा।

ॐ क्षौं नमो भगवते नृसिंहाय एतद्दोषं प्रचण्ड चक्रेण जहि जहि स्वाहा।

ॐ नमो भगवते महानृसिंहाय कराल वदन दंष्ट्राय मम विघ्नान् पच पच स्वाहा।

ॐ नमो नृसिंहाय हिरण्यकश्यप वक्षस्थल विदारणाय त्रिभुवन व्यापकाय भूत-प्रेत पिशाच डाकिनी-शाकिनी कालनोन्मूलनाय मम शरीरं स्तम्भोद्भव समस्त दोषान् हन हन, शर शर, चल चल, कम्पय कम्पय, मथ मथ, हुं फट् ठः ठः।

ॐ नमो भगवते भो भो सुदर्शन नृसिंह ॐ आं ह्रीं क्रौं क्ष्रौं हुं फट्।

ॐ सहस्त्रार मम अंग वर्तमान ममुक रोगं दारय दारय दुरितं हन हन पापं मथ मथ आरोग्यं कुरु कुरु ह्रां ह्रीं ह्रुं ह्रैं ह्रौं ह्रुं ह्रुं फट् मम शत्रु हन हन द्विष द्विष तद पचयं कुरु कुरु मम सर्वार्थं साधय साधय।

ॐ नमो भगवते नृसिंहाय ॐ क्ष्रौं क्रौं आं ह्रीं क्लीं श्रीं रां स्फ्रें ब्लुं यं रं लं वं षं स्त्रां हुं फट् स्वाहा।

ॐ नमः भगवते नृसिंहाय नमस्तेजस्तेजसे अविराभिर्भव वज्रनख वज्रदंष्ट्र कर्माशयान् रंधय रंधय तमो ग्रस ग्रस ॐ स्वाहा।

अभयमभयात्मनि भूयिष्ठाः ॐ क्षौम्।

ॐ नमो भगवते तुभ्य पुरुषाय महात्मने हरिंऽद्भुत सिंहाय ब्रह्मणे परमात्मने।

ॐ उग्रं उग्रं महाविष्णुं सकलाधारं सर्वतोमुखम्।

नृसिंह भीषणं भद्रं मृत्युं मृत्युं नमाम्यहम्।
भगवान नृसिंह  मंत्र 


भगवान नृसिंह का बीज मंत्र

1. - 'श्रौं'/ क्ष्रौं (नृसिंहबीज)।

2. ।। ॐ श्री लक्ष्मीनृसिंहाय नम:।।

3. ॐ नृम नृम नृम नर सिंहाय नमः ।

इस बीज में क्ष् = नृसिंह, र् = ब्रह्म, औ = दिव्यतेजस्वी, एवं बिंदु = दुखहरण है। इस बीज मंत्र का अर्थ है ‘दिव्यतेजस्वी ब्रह्मस्वरूप श्री नृसिंह मेरे दुख दूर करें'।

4. संकटमोचन नृसिंह मंत्र :-

ध्याये न्नृसिंहं तरुणार्कनेत्रं सिताम्बुजातं ज्वलिताग्रिवक्त्रम्।
अनादिमध्यान्तमजं पुराणं परात्परेशं जगतां निधानम्।।

अगर आप कई संकटों से घिरे हुए हैं या संकटों का सामना कर रहे हैं, तो भगवान विष्णु या श्री नृसिंह प्रतिमा की पूजा करके उपरोक्त संकटमोचन नृसिंह मंत्र का स्मरण करें। समस्त संकटों से आसानी से छुटकारा मिल जाएगा।


आपत्ति निवारक नृसिंह मंत्र- 

ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम्।

नृसिंहं भीषणं भद्रं मृत्यु मृत्युं नमाम्यहम्॥