Showing posts with label श्री विश्वकर्मा देव. Show all posts
Showing posts with label श्री विश्वकर्मा देव. Show all posts

Saturday, February 20, 2021


॥नरसिंहपुराणे सूर्याष्टोत्तरशतनामस्तोत्रं विश्वकर्मकृत ॥

भरद्वाज उवाच —


यैः स्तुतो नामभिस्तेन सविता विश्वकर्मणा ।

तान्यहं श्रोतुमिच्छामि वद सूत विवस्वतः ॥ १॥


सूत उवाच —


तानि मे शृणु नामानि यैः स्तुतो विश्वकर्मणा ।

सविता तानि वक्ष्यामि सर्वपापहराणि ते ॥ २॥


आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।

तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्ड आशुगः ॥ ३॥


हिरण्यगर्भः कपिलस्तपनो भास्करो रविः ।

अग्निगर्भोऽदितेः पुत्रः शम्भुस्तिमिरनाशनः ॥ ४॥


अंशुमानंशुमाली च तमोघ्नस्तेजसां निधिः ।

आतपी मण्डली मृत्युः कपिलः सर्वतापनः ॥ ५॥


हरिर्विश्वो महातेजाः सर्वरत्नप्रभाकरः ।

अंशुमाली तिमिरहा ऋग्यजुस्सामभावितः ॥ ६॥


प्राणाविष्करणो मित्रः सुप्रदीपो मनोजवः ।

यज्ञेशो गोपतिः श्रीमान् भूतज्ञः क्लेशनाशनः ॥ ७॥


अमित्रहा शिवो हंसो नायकः प्रियदर्शनः ।

शुद्धो विरोचनः केशी सहस्रांशुः प्रतर्दनः ॥ ८॥


धर्मरश्मिः पतंगश्च विशालो विश्वसंस्तुतः ।

दुर्विज्ञेयगतिः शूरस्तेजोराशिर्महायशाः ॥ ९॥


भ्राजिष्णुर्ज्योतिषामीशो विजिष्णुर्विश्वभावनः ।

प्रभविष्णुः प्रकाशात्मा ज्ञानराशिः प्रभाकरः ॥ १०॥


आदित्यो विश्वदृग् यज्ञकर्ता नेता यशस्करः ।

विमलो वीर्यवानीशो योगज्ञो योगभावनः ॥ ११॥


अमृतात्मा शिवो नित्यो वरेण्यो वरदः प्रभुः ।

धनदः प्राणदः श्रेष्ठः कामदः कामरूपधृक् ॥ १२॥


तरणिः शाश्वतः शास्ता शास्त्रज्ञस्तपनः शयः ।

वेदगर्भो विभुर्वीरः शान्तः सावित्रिवल्लभः ॥ १३॥


ध्येयो विश्वेश्वरो भर्ता लोकनाथो महेश्वरः ।

महेन्द्रो वरुणो धाता विष्णुरग्निर्दिवाकरः ॥ १४॥


एतैस्तु नामभिः सूर्यः स्तुतस्तेन महात्मना ।

उवाच विश्वकर्माणं प्रसन्नो भगवान् रविः ॥ १५॥


भ्रमिमारोप्य मामत्र मण्डलं मम शातय ।

त्वत्बुद्धिस्थं मया ज्ञातमेवमौष्ण्यं शमं व्रजेत् ॥ १६॥


इत्युक्तो विश्वकर्मा च तथा स कृतवान् द्विज ।

शान्तोष्णः सविता तस्य दुहितुर्विश्वकर्मणः ॥ १७॥


संज्ञायाश्चाभवद्विप्र भानुस्त्वष्टारमब्रवीत् ।

त्वया यस्मात् स्तुतोऽहं वै नाम्नामष्टशतेन च ॥ १८॥


वरं वृणीष्व तस्मात् त्वं वरदोऽहं तवानघ ।

इत्युक्तो भानुना सोऽथ विश्वकर्माब्रवीदिदम् ॥ १९॥


वरदो यदि मे देव वरमेतं प्रयच्छ मे ।

एतैस्तु नामभिर्यस्त्वां नरः स्तोष्यति नित्यशः ॥ २०॥


तस्य पापक्षयं देव कुरु भक्तस्य भास्कर ॥ २१॥

तेनैवमुक्तो दिनकृत् तथेति त्वष्टारमुक्त्वा विरराम भास्करः ।

संज्ञां विशङ्कां रविमण्डलस्थितां कृत्वा जगामाथ रविं प्रसाद्य ॥ २२॥


इति श्रीनरसिंहपुराणे एकोनविंशोऽध्यायः ॥

श्री विश्वकर्मा जी के

ॐ विश्वकर्मणे नमः
ॐ विश्वात्मने नमः
ॐ विश्वस्माय नमः
ॐ विश्वधाराय नमः
ॐ विश्वधर्माय नमः
ॐ विरजे नमः
ॐ विश्वेक्ष्वराय नमः
ॐ विष्णवे नमः
ॐ विश्वधराय नमः
ॐ विश्वकराय नमः
ॐ वास्तोष्पतये नमः
ॐ विश्वभंराय नमः
ॐ वर्मिणे नमः
ॐ वरदाय नमः
ॐ विश्वेशाधिपतये नमः
ॐ वितलाय नमः
ॐ विशभुंजाय नमः
ॐ विश्वव्यापिने नमः
ॐ देवाय नमः
ॐ धार्मिणे नमः
ॐ धीराय नमः
ॐ धराय नमः
ॐ परात्मने नमः
ॐ पुरुषाय नमः
ॐ धर्मात्मने नमः
ॐ श्वेतांगाय नमः
ॐ श्वेतवस्त्राय नमः
ॐ हंसवाहनाय नमः
ॐ त्रिगुणात्मने नमः
ॐ सत्यात्मने नमः
ॐ गुणवल्लभाय नमः
ॐ भूकल्पाय नमः
ॐ भूलेंकाय नमः
ॐ भुवलेकाय नमः
ॐ चतुर्भुजय नमः
ॐ विश्वरुपाय नमः
ॐ विश्वव्यापक नमः
ॐ अनन्ताय नमः
ॐ अन्ताय नमः
ॐ आह्माने नमः
ॐ अतलाय नमः
ॐ आघ्रात्मने नमः
ॐ अनन्तमुखाय नमः
ॐ अनन्तभूजाय नमः
ॐ अनन्तयक्षुय नमः
ॐ अनन्तकल्पाय नमः
ॐ अनन्तशक्तिभूते नमः
ॐ अतिसूक्ष्माय नमः
ॐ त्रिनेत्राय नमः
ॐ कंबीघराय नमः
ॐ ज्ञानमुद्राय नमः
ॐ सूत्रात्मने नमः
ॐ सूत्रधराय नमः
ॐ महलोकाय नमः
ॐ जनलोकाय नमः
ॐ तषोलोकाय नमः
ॐ सत्यकोकाय नमः
ॐ सुतलाय नमः
ॐ सलातलाय नमः
ॐ महातलाय नमः
ॐ रसातलाय नमः
ॐ पातालाय नमः
ॐ मनुषपिणे नमः
ॐ त्वष्टे नमः
ॐ देवज्ञाय नमः
ॐ पूर्णप्रभाय नमः
ॐ ह्रदयवासिने नमः
ॐ दुष्टदमनाथ नमः
ॐ देवधराय नमः
ॐ स्थिर कराय नमः
ॐ वासपात्रे नमः
ॐ पूर्णानंदाय नमः
ॐ सानन्दाय नमः
ॐ सर्वेश्वरांय नमः
ॐ परमेश्वराय नमः
ॐ तेजात्मने नमः
ॐ परमात्मने नमः
ॐ कृतिपतये नमः
ॐ बृहद् स्मणय नमः
ॐ ब्रह्मांडाय नमः
ॐ भुवनपतये नमः
ॐ त्रिभुवनाथ नमः
ॐ सतातनाथ नमः
ॐ सर्वादये नमः
ॐ कर्षापाय नमः
ॐ हर्षाय नमः
ॐ सुखकत्रे नमः
ॐ दुखहर्त्रे नमः
ॐ निर्विकल्पाय नमः
ॐ निर्विधाय नमः
ॐ निस्माय नमः
ॐ निराधाराय नमः
ॐ निकाकाराय नमः
ॐ महदुर्लभाय नमः
ॐ निमोहाय नमः
ॐ शांतिमुर्तय नमः
ॐ शांतिदात्रे नमः
ॐ मोक्षदात्रे नमः
ॐ स्थवीराय नमः
ॐ सूक्ष्माय नमः
ॐ निर्मोहय नमः
ॐ धराधराय नमः
ॐ स्थूतिस्माय नमः
ॐ विश्वरक्षकाय नमः
ॐ दुर्लभाय नमः
ॐ स्वर्गलोकाय नमः
ॐ पंचवकत्राय नमः
ॐ विश्वलल्लभाय नमः।

श्री विश्वकर्मा अष्टकम् || 
॥ श्रीविश्वकर्माष्टकम् ॥


आदिरूप नमस्तुभ्यं नमस्तुभ्यं पितामह ।

विराटाख्य नमस्तुभ्यं विश्वकर्मन्नमोनमः ॥ १॥


आकृतिकल्पनानाथस्त्रिनेत्री ज्ञाननायकः ।

सर्वसिद्धिप्रदाता त्वं विश्वकर्मन्नमोनमः ॥ २॥


पुस्तकं ज्ञानसूत्रं च कम्बी सूत्रं कमण्डलुम् ।

धृत्वा संमोहनं देव विश्वकर्मन्नमोनमः ॥ ३॥


विश्वात्मा भूतरूपेण नानाकष्टसंहारक ।

तारकानादिसंहाराद्विश्वकर्मन्नमोनमः ॥ ४॥


ब्रह्माण्डाखिलदेवानां स्थानं स्वर्भूतलं तलम् ।

लीलया रचितं येन विश्वरूपाय ते नमः ॥ ५॥


विश्वव्यापिन्नमस्तुभ्यं त्र्यम्बकं हंसवाहनम् ।

सर्वक्षेत्रनिवासाख्यं विश्वकर्मन्नमोनमः ॥ ६॥


निराभासाय नित्याय सत्यज्ञानान्तरात्मने ।

विशुद्धाय विदूराय विश्वकर्मन्नमोनमः ॥ ७॥


नमो वेदान्तवेद्याय वेदमूलनिवासिने ।

नमो विविक्तचेष्टाय विश्वकर्मन्नमोनमः ॥ ८॥


यो नरः पठते नित्यं विश्वकर्माष्टकमिदम् ।

धनं धर्मं च पुत्रश्च लभेदान्ते परां गतिम् ॥ ९॥


। इति विश्वकर्माष्टकं सम्पूर्णम् ।
श्री विश्वकर्मा अष्टकम || 

॥ विश्वकर्माष्टकम् ॥


निरञ्जनो निराकारः निर्विकल्पो मनोहरः ।

निरामयो निजानन्दः निर्विघ्नाय नमो नमः ॥ १॥


अनादिरप्रमेयश्च अरूपश्च जयाजयः ।

लोकरूपो जगन्नाथः विश्वकर्मन्नमो नमः ॥ २॥


नमो विश्वविहाराय नमो विश्वविहारिणे ।

नमो विश्वविधाताय नमस्ते विश्वकर्मणे ॥ ३॥


नमस्ते विश्वरूपाय विश्वभूताय ते नमः ।

नमो विश्वात्मभूथात्मन् विश्वकर्मन्नमोऽस्तु ते ॥ ४॥


विश्वायुर्विश्वकर्मा च विश्वमूर्तिः परात्परः ।

विश्वनाथः पिता चैव विश्वकर्मन्नमोऽस्तु ते ॥ ५॥


विश्वमङ्गलमाङ्गल्यः विश्वविद्याविनोदितः ।

विश्वसञ्चारशाली च विश्वकर्मन्नमोऽस्तु ते ॥ ६॥


विश्वैकविधवृक्षश्च विश्वशाखा महाविधः ।

शाखोपशाखाश्च तथा तद्वृक्षो विश्वकर्मणः ॥ ७॥


तद्वृक्षः फलसम्पूर्णः अक्षोभ्यश्च परात्परः ।

अनुपमानो ब्रह्माण्डः बीजमोङ्कारमेव च ॥ ८॥


। इति विश्वकर्माष्टकं सम्पूर्णम् ।
श्री विश्वकर्मा अष्टोत्तर शतनामावली || 

ॐ विश्वकर्मणे नमः ।
ॐ विश्वात्मने नमः ।
ॐ विश्वस्म्यै नमः ।
ॐ विश्वधाराय नमः ।
ॐ विश्वधर्माय नमः ।
ॐ विरजे नमः ।


ॐ विश्वेश्वराय नमः ।
ॐ विष्णवे नमः ।
ॐ विश्वधराय नमः ।
ॐ विश्वकराय नमः ।
ॐ वास्तोष्पतये नमः ।
ॐ विश्वम्भराय नमः ।
ॐ वर्मिणे नमः ।


ॐ वरदाय नमः ।
ॐ विश्वेशाधिपतये नमः ।
ॐ वितलाय नमः ।
ॐ विशभुजे नमः ।
ॐ विश्वव्यापिने नमः ।
ॐ देवाय नमः ।
ॐ धर्मिणे नमः ।
ॐ धीराय नमः ।
ॐ धराय नमः ।
ॐ परात्मने नमः ।
ॐ पुरुषाय नमः ।
ॐ धर्मात्मने नमः ।
ॐ श्वेताङ्गाय नमः ।


ॐ श्वेतवस्त्राय नमः ।
ॐ हंसवाहनाय नमः ।
ॐ त्रिगुणात्मने नमः ।
ॐ सत्यात्मने नमः ।
ॐ गुणवल्लभाय नमः ।
ॐ भूकल्पाय नमः ।


ॐ भूलोकाय नमः ।
ॐ भुवर्लोकाय नमः ।
ॐ चतुर्भुजाय नमः ।
ॐ विश्वरूपाय नमः ।
ॐ विश्वव्यापकाय नमः ।
ॐ अनन्ताय नमः ।
ॐ अन्ताय नमः ।


ॐ आह्मने नमः ।
ॐ अतलाय नमः ।
ॐ अद्यात्मने नमः ।
ॐ अनन्तमुखाय नमः ।
ॐ अनन्तभुजाय नमः ।
ॐ अनन्तचक्षुषे नमः ।


ॐ अनन्तकल्पाय नमः ।
ॐ अनन्तशक्तिभृते नमः ।
ॐ अतिसूक्ष्माय नमः ।
ॐ त्रिनेत्राय नमः ।
ॐ कम्बिधराय नमः ।
ॐ ज्ञानमुद्राय नमः ।
ॐ सूत्रात्मने नमः ।


ॐ सूत्रधराय नमः ।
ॐ महर्लोकाय नमः ।
ॐ जनलोकाय नमः ।
ॐ तपोलोकाय नमः ।
ॐ सत्यलोकाय नमः ।
ॐ सुतलाय नमः ।
ॐ तलातलाय नमः ।
ॐ महातलाय नमः ।
ॐ रसातलाय नमः ।


ॐ पातालाय नमः ।
ॐ मनुषपिणे नमः ।
ॐ त्वष्ट्रे नमः ।
ॐ देवज्ञाय नमः ।
ॐ पूर्णप्रभाय नमः ।
ॐ हृदयवासिने नमः ।
ॐ दुष्टदमनाय नमः ।
ॐ देवधराय नमः ।


ॐ स्थिरकराय नमः ।
ॐ वासपात्रे नमः । ७०
ॐ पूर्णानन्दाय नमः ।
ॐ सानन्दाय नमः ।
ॐ सर्वेश्वराय नमः ।
ॐ परमेश्वराय नमः ।
ॐ तेजात्मने नमः ।
ॐ परमात्मने नमः ।
ॐ कृतिपतये नमः ।


ॐ बृहद् स्मण्य नमः ।
ॐ ब्रह्माण्डाय नमः ।
ॐ भुवनपतये नमः ।
ॐ त्रिभुवनाय नमः ।
ॐ सनातनाय नमः ।
ॐ सर्वादये नमः ।


ॐ कर्षापणाय नमः ।
ॐ हर्षाय नमः ।
ॐ सुखकर्त्रे नमः ।
ॐ दुःखहर्त्रे नमः ।
ॐ निर्विकल्पाय नमः ।
ॐ निर्विधाय नमः ।
ॐ निस्स्माय नमः ।
ॐ निराधाराय नमः ।


ॐ निराकाराय नमः ।
ॐ महादुर्लभाय नमः ।
ॐ निर्मोहाय नमः ।
ॐ शान्तिमूर्तये नमः ।
ॐ शान्तिदात्रे नमः ।
ॐ मोक्षदात्रे नमः ।
ॐ स्थविराय नमः ।
ॐ सूक्ष्माय नमः ।
ॐ निर्मोहाय नमः ।


ॐ धराधराय नमः ।
ॐ स्थितिस्माय नमः ।
ॐ विश्वरक्षकाय नमः ।
ॐ दुर्लभाय नमः ।
ॐ स्वर्गलोकाय नमः ।
ॐ पञ्चवक्त्राय नमः ।
ॐ विश्ववल्लभाय नमः ।


इति विश्वकर्माष्टोत्तरशतनामावलिः सम्पूर्णा ।