Showing posts with label श्री कृष्ण. Show all posts
Showing posts with label श्री कृष्ण. Show all posts

Saturday, April 10, 2021

श्री राधे कृष्णा अष्टोत्तर


ॐ राधिकारमणाय नम: ।

ॐ राधास्वान्तस्थाय नम: ।

ॐ राधिकापतये नम: ।

ॐ राधामुखाब्जमार्ताण्डाय नम: ।

ॐ राधिकारतिलोलुपाय नम: ।

ॐ राधाधरसुधासत्काय नम: ।

ॐ राधाप्रस्तावसादराय राधासनसुखासीनाय नम: ।

ॐ राधारमितविग्रहाय नम: ।

ॐ राधासर्वस्वभूताय नम: ।

ॐ राधालिङ्गनतत्पराय नम: ।

ॐ राधासंलापमुदिताय नम: ।

ॐ राधाकृतनखक्षताय नम: ।

ॐ राधावरोधनिरताय नम: ।

ॐ राधिकास्तनशायिताय नम: ।

ॐ राधिकासहभोक्त्रे नम: ।

ॐ राधासर्वस्वसम्पुटाय नम: ।

ॐ राधापयोधरासक्ताय नम: ।

ॐ राधालीलाविमोहिताय नम: ।

ॐ राधिकानयनोन्नेयाय नमः ॥

ॐ राधानयनपूजिताय नम: ।

ॐ राधिकानयनानन्दाय नम: ।

ॐ राधिकाहृदयालयाय नम: ।

ॐ राधामङ्गलसर्वस्वाय नम: ।

ॐ राधामङ्गलकारणाय नम: ।

ॐ राधिकाध्यानसन्तुष्टाय नम: ।

ॐ राधाध्यानपरायणाय नम: ।

ॐ राधाकथाविलासिने नम: ।

ॐ राधानियमितान्तराय नम: ।

ॐ राधाचित्तहराय नम: ।

ॐ राधास्वाधीनकरणत्रयाय नम: ।

ॐ राधाशुश्रूषणरताय नम: ।

ॐ राधिकापरिचारकाय नम: ।

ॐ राधिकावासितस्वान्ताय नम: ।

ॐ राधिकास्वान्तवासिताय नम: ।

ॐ राधिकाकलिताकल्पाय नम: ।

ॐ राधाकल्पितभूषणाय नम: ।

ॐ राधिकाहृदयानन्दाय नम: ।

ॐ राधाकूतविनोदवते नम: ।

ॐ राधिकानयनाधीनाय नमः ॥

ॐ राधिकानिहितेक्षणाय नम: ।

ॐ राधाविलासमुदिताय नम: ।

ॐ राधानयनगोचराय नम: ।

ॐ राधापाङ्गहताय नम: ।

ॐ राधापाङ्गविभ्रमवञ्चिताय नम: ।

ॐ राधिकापुण्यनिवहाय नम: ।

ॐ राधिकाकुचमर्दनाय नम: ।

ॐ राधिकासङ्गमश्रान्ताय नम: ।

ॐ राधिकाबाहुसन्धिताय नम: ।

ॐ राधापुण्यफलाय नम: ।

ॐ राधानखाङ्कपरिमण्डिताय नम: ।

ॐ राधाचर्चितगन्धाढ्याय नम: ।

ॐ राधादृतविलासवते नम: ।

ॐ राधालीलारताय नम: ।

ॐ राधाकुचमण्डलशायिताय नम: ।

ॐ राधातपःफलाय नम: ।

ॐ राधासङ्क्रान्ताय नम: ।

ॐ राधिकाजयिने नम: ।

ॐ राधानयनविक्रीताय नम: ।

ॐ राधासंश्लेषणोत्सुकाय नमः ॥

ॐ राधिकावचनप्रीताय नम: ।

ॐ राधिकानर्तनोद्यताय नम: ।

ॐ राधापाणिगृहीत्रे नम: ।

ॐ राधिकानर्मदायकाय नम: ।

ॐ राधातर्जनसन्तुष्टाय नम: ।

ॐ राधालिङ्गनतत्पराय नम: ।

ॐ राधाचरित्रगायिने नम: ।

ॐ राधागीतचरित्रवते नम: ।

ॐ राधिकाचित्तसम्मोहाय नम: ।

ॐ राधामोहितमानसाय नम: ।

ॐ राधावश्यमतये नम: ।

ॐ राधाभुक्तशेषसुभोजनाय नम: ।

ॐ राधाकेलिकलासक्ताय नम: ।

ॐ राधिकाकृतभोजनाय नम: ।

ॐ राधाभ्यञ्जनपारीणाय नम: ।

ॐ राधाक्ष्यञ्जनचित्रिताय नम: ।

ॐ राधिकाश्रवणानन्दवचनाय नम: ।

ॐ राधिकायनाय नम: ।

ॐ राधिकामङ्गलाय नम: ।

ॐ राधापुण्याय नमः ॥

ॐ ॐ राधायशःपराय नम: ।

ॐ राधाजीवितकालाय नम: ।

ॐ राधिकाजीवनौषधाय नम: ।

ॐ राधाविरहसन्तप्ताय नम: ।

ॐ राधाबर्हिणीनीरदाय नम: ।

ॐ राधिकामन्मथाय नम: ।

ॐ राधास्तनकुड्मलमोहिताय नम: ।

ॐ राधिकारूपविक्रीताय नम: ।

ॐ राधालावण्यवञ्चिताय नम: ।

ॐ राधाक्रीडावनावासिने नम: ।

ॐ राधाक्रीडाविलासवते नम: ।

ॐ राधासन्नुतचारित्राय नम: ।

ॐ राधाचरितसादराय नम: ।

ॐ राधासङ्कल्पसन्तानाय नम: ।

ॐ राधिकामितदायकाय नम: ।

ॐ राधिकागण्डसंसक्तराकाचन्द्रमुखाम्बुजाय नम: ।

ॐ राधिकाक्ष्यञ्जनापीच्यकोमलाधरविद्रुमाय नम: ।

ॐ राधिकारदसन्दष्टरक्तिमाधरमञ्जुलाय नम: ।

ॐ राधापीनकुचद्वन्द्वमर्दनोद्युक्तमानसाय नम: ।

ॐ राधाचरितसंवादिवेणुवादनतत्पराय नमः ॥

ॐ राधिकामुखलावण्यसुधाम्भोनिधिचन्द्रमसे नम: ।

ॐ राधिकासदनोद्यानजलक्रीडाविहारवते नम: ।

ॐ राधिकाकुचकस्तूरीपत्रलेखनतत्पराय नम: ।

ॐ राधिकाकारितेङ्गिताय नम: ।

ॐ राधाभुजलताश्लिष्टाय नम: ।

ॐ राधिकाकार्यकारिणे नम: ।

ॐ राधिकाकारितेङ्गिताय नम: ।

ॐ राधाभुजलताश्लिष्टाय नम: ।

ॐ राधावसनभूषिताय नमः ॥ 

राधिकारमणस्योक्तं पुण्यमष्टोत्तरं शतम् ।


 आरती श्रीमद्भागवतमहापुराण की 


आरती अतिपावन पुराण की ।
धर्म-भक्ति-विज्ञान-खान की ॥
महापुराण भागवत निर्मल ।
शुक-मुख-विगलित निगम-कल्प-फल ॥
परमानन्द सुधा-रसमय कल ।
लीला-रति-रस रसनिधान की ॥
॥ आरती अतिपावन पुरान की ॥
कलिमथ-मथनि त्रिताप-निवारिणि ।
जन्म-मृत्यु भव-भयहारिणी ॥
सेवत सतत सकल सुखकारिणि ।
सुमहौषधि हरि-चरित गान की ॥
॥ आरती अतिपावन पुरान की ॥
विषय-विलास-विमोह विनाशिनि ।
विमल-विराग-विवेक विकासिनि ॥
भगवत्-तत्त्व-रहस्य-प्रकाशिनि ।
परम ज्योति परमात्मज्ञान की ॥
॥ आरती अतिपावन पुरान की ॥
परमहंस-मुनि-मन उल्लासिनि ।
रसिक-हृदय-रस-रासविलासिनि ॥
भुक्ति-मुक्ति-रति-प्रेम सुदासिनि ।
कथा अकिंचन प्रिय सुजान की ॥
॥ आरती अतिपावन पुरान की ॥
॥ इति श्रीमद्भागवतमहापुराण की आरती ॥
 आरती कृष्ण भगवान की –

ओम जय श्री कृष्ण हरे,
प्रभु जय श्री कृष्ण हरे,
भक्तन के दुख सारे पल में दूर करे
!! ओम जय श्री कृष्ण हरे !!

परमानंद मुरारी मोहन गिरधारी,
जय रास बिहारी जय जय गिरधारी
!! ओम जय श्री कृष्ण हरे !!

कर कंकण कटि सोहत कानन मे बाला,
मोर मुकुट पीताम्बर सोहे वनमाला
!! ओम जय श्री कृष्ण हरे !!

दीन सुदामा तारे दरिद्रों के दुख टारे ,
गज के फंद छुड़ये भव सागर तारे
!! ओम जय श्री कृष्ण हरे !!

हिरण्यकश्यप संहारे नरहरि रूप धरे ,
पाहन से प्रभु प्रगटे यम के बीच परे
!! ओम जय श्री कृष्ण हरे !!

केशी कंस विदारे नल कुबर तारे,
दामोदर छवि सुंदर भगतन के प्यारे
!! ओम जय श्री कृष्ण हरे !!

काली नाग नथैया नटवर छवि सोहे,
फन फन नाचा करते नागन मन मोहे
!! ओम जय श्री कृष्ण हरे !!

राज्य उग्रसेन पाये माताशोक हरे,
द्रुपद सुता पत राखी,
करुणा लाज भरे
!! ओम जय श्री कृष्ण हरे !!
॥ इति श्री कृष्णा आरती ॥
 आरती कुंजबिहारी की


गले में बैजंती माला,
बजावै मुरली मधुर बाला ।
श्रवण में कुण्डल झलकाला,
नंद के आनंद नंदलाला ।
गगन सम अंग कांति काली,
राधिका चमक रही आली ।
लतन में ठाढ़े बनमाली
भ्रमर सी अलक,
कस्तूरी तिलक,
चंद्र सी झलक,
ललित छवि श्यामा प्यारी की,

श्री गिरिधर कृष्ण मुरारी की ॥
॥ आरती कुंजबिहारी की…॥
कनकमय मोर मुकुट बिलसै,
देवता दरसन को तरसैं ।
गगन सों सुमन रासि बरसै ।
बजे मुरचंग,
मधुर मिरदंग,
ग्वालिन संग,
अतुल रति गोप कुमारी की,
श्री गिरिधर कृष्णमुरारी की ॥
॥ आरती कुंजबिहारी की…॥
जहां ते प्रकट भई गंगा,
सकल मन हारिणि श्री गंगा ।
स्मरन ते होत मोह भंगा
बसी शिव सीस,
जटा के बीच,
हरै अघ कीच,
चरन छवि श्रीबनवारी की,
श्री गिरिधर कृष्णमुरारी की ॥
॥ आरती कुंजबिहारी की…॥
चमकती उज्ज्वल तट रेनू,
बज रही वृंदावन बेनू ।
चहुं दिसि गोपि ग्वाल धेनू
हंसत मृदु मंद,
चांदनी चंद,
कटत भव फंद,
टेर सुन दीन दुखारी की,
श्री गिरिधर कृष्णमुरारी की ॥
॥ आरती कुंजबिहारी की…॥
आरती कुंजबिहारी की,
श्री गिरिधर कृष्ण मुरारी की ॥
आरती कुंजबिहारी की,
श्री गिरिधर कृष्ण मुरारी की ॥

Saturday, March 20, 2021

 श्री कृष्ण शतनामावली स्तोत्रम - 


श्रीक्रुष्णः कमलानाथो वासुदेवः सनातनः !
वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥
श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः !
चतुर्भुजात्तचक्रासिगदाशंखाद्युदायुधः ॥
देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः !
यमुनावेगसंहारी बलभद्रप्रियानुजः ॥
पूतनाजीवितहरः शकटासुरभञ्जनः !
नन्दव्रजजनानन्दी सच्चिदानन्दविग्रहः  ॥
नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः !
नवनीतनवाहारो मुचुकुंदप्रसादकः ॥
षोडशस्त्रीसहस्रेशो त्रिभंगीललिताकृतिः !
शुकवागमृताब्धीन्दुः गोविन्दो गोविदां पतिः॥
वत्सवाटचरोऽनन्तो धेनुकासुरमर्द्दनः !
तृणीकृततृणावर्तो यमलार्जुनभञ्जनः ॥
उत्तालतालभेत्ता च तमालश्यामलाकृतिः !
गोपगोपीश्वरो योगी कोटिसूर्यसमप्रभः॥
इलापतिः परंज्योतिः यादवेन्द्रो यदूद्वहः
वनमाली पीतवासा पारिजातापहारकः  ॥
गोवर्धनाचलोद्धर्त्ता गोपालस्सर्वपालकः !
अजो निरञ्जनः कामजनकः कञ्जलोचनः॥
मधुहा मथुरानाथो द्वारकानायको बली !
वृन्दावनांतसञ्चारी तुलसीदामभूषणः   ॥
स्यमन्तकमणेर्हर्ता नरनारायणात्मकः !
कुब्जाकृष्टांबरधरो मायी परमपूरुषः     ॥
मुष्टिकासुरचाणूरमल्लयुद्धविशारदः !
संसारवैरि कंसारी मुरारी नरकान्तकः ॥
अनादिब्रह्मचारी च कृष्णाव्यसनकर्शकः !
शिशुपालशिरच्छेत्ता दुर्योधनकुलान्तकः ॥
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः !
सत्यवाक्सत्यसंकल्पः सत्यभामारतो जयी ॥
सुभद्रापूर्वजो विष्णुः भीष्ममुक्तिप्रदायकः !
जगद्गुरुर्जगन्नाथो वेणुनादविशारदः    ॥
वृषभासुरविध्वंसी बाणासुरबलांतकः !
युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः  ॥
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः !
कालीयफणिमाणिक्यरञ्जितश्रीपदांबुजः ॥
दामोदरो यज्ञभोक्ता दानवेन्द्रविनाशकः !
नारायणः परंब्रह्म पन्नगाशनवाहनः ॥
जलक्रीडासमासक्तगोपीवस्त्रापहारकः !
पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः ॥
सर्वभूतात्मकस्सर्वग्रहरूपी परात्परः !
एवं कृष्णस्य देवस्य नाम्नामष्टोत्तरं शतं, ॥
कृष्णनामामृतं नाम परमानन्दकारकं,
अत्युपद्रवदोषघ्नं परमायुष्यवर्धनम् !
 श्री कृष्ण अष्टोत्तर शतनाम स्तोत्रम् - 


कृष्णः कृती कृपाशीतः कृतज्ञः कृष्णमूर्धजः ।
कृष्णाव्यसनसंहर्ता कृष्णाम्बुधरविग्रहः ॥ १॥
कृष्णाब्जवदनः कृष्णाप्रकृत्यङ्गः कृताखिलः ।
कृतगीतः कृष्णगीतः कृष्णगोपीजनाम्बरः ॥ २॥
कृष्णस्वरः कृत्तजिष्णुगर्वः कृष्णोत्तरस्रजः ।
कृतलोकेशसम्मोहः कृतदावाग्निपारणः ॥ ३॥
कृष्टोलूखलनिर्भिन्न यमलार्जुनभूरुहः ।
कृतगोवर्धनच्छत्रो कृताहिफणताण्डवः ॥ ४॥
कृत्ताघः कृत्तभक्ताघः कृतदैवतमङ्गलः ।
कृतान्तसदनाधीतगुरुपुत्रः कृतस्मितः ॥ ५॥
कृतान्तभगिनीवारिविहारी कृतवित्प्रियः ।
कृतगोवत्ससन्त्राणः कृतकेतरसौहृदः ॥ ६॥
कृत्तभूमिभरः कृष्णबन्धुः कृष्णमहागुरुः ।
कृष्णप्रियः कृष्णसखः कृष्णेशः कृष्णसारधिः ॥ ७॥
कृतराजोत्सवः कृष्णगोपीजनमनोधनः ।
कृष्णगोपीकटाक्षालि पूजितेन्दीवराकृतिः ॥ ८॥
कृष्णप्रतापः कृष्णाप्तः कृष्णमानाभिरक्षणः ।
कृपीटधिकृतावासः कृपीटरुहलोचनः ॥ ९॥
कृशानुवदनाधीशः कृशानुहुतखाण्डवः ।
कृत्तिवासस्स्म्ययाहर्ता कृत्तिवासोज्ज्वरार्दनः ॥ १०॥
कृत्तबाणभुजाबृन्दः कृतबृन्दारकावनः ।
कृतादियुगसंस्थाकृत्कृतसद्धर्मपालनः ॥ ११॥
कृतचित्तजनप्राणः कृतकन्दर्पविग्रहः ।
कृशोदरीबृन्दबन्दीमोचकः कृपणावनः ॥ १२॥
कृत्स्नवित्कृत्स्नदुर्ञ्जेयमहिमा कृत्स्नपालकः ।
कृत्स्नान्तरः कृत्स्नयन्ता कृत्स्नहा कृत्स्नधारयः ॥ १३॥
कृत्स्नाकृतिः कृत्स्नदृष्टिः कृच्छलभ्यः कृताद्भुतः ।

कृत्स्नप्रियः कृत्स्नहीनः कृत्स्नात्मा कृत्स्नभासकः ॥ १४॥
कृत्तिकानन्तरोद्भूतः कृत्तरुक्मिकचव्रजः ।
कृपात्तरुक्मिणीकान्तः कृतधर्मक्रियावनः ॥ १५॥
कृष्णपक्षाष्टमीचन्द्र फालभागमनोहरः ।
कृत्यसाक्षी कृत्यपतिः कृत्स्नक्रतु फलप्रदः ॥ १६॥
कृष्णवर्मलसच्चक्रः कृपीटजविभूषणः ।
कृताख्यारूपनिर्वाहः कृतार्थीकृतबाडबः ॥ १७॥
कृतवन्यस्रजाभूषः कृपीटजलसत्करः ।
कृपीटजालयावक्षाः कृतपादार्चनाम्बुजः ॥ १८॥

कृतिमेतरसौन्दर्यः कृतिमाशयदुर्लभः ।
कृततार्क्ष्यध्वजरधः कृतमोक्षाभिधेयकः ॥ १९॥
कृतीकृतद्वापरकः कृतसौभाग्यभूतलः ।
कृतलोकत्रयानन्दः कृतीकृतकलिप्रधः ॥ २०॥
कृतोत्तरागर्भरक्षः कृतधी कृतलक्षणः ।
कृतत्रिजगतीमोहः कृतदेवद्रुमाहृतिः ॥ २१॥
कृत्स्नानन्दः कृत्स्नदुःखदूरः कृत्स्नविलक्षणः ।
कृत्स्नांशः कृत्स्नजीवांशः कृत्स्नसत्तः कृतिप्रियः ॥ २२॥

Monday, March 15, 2021

वासुदेव कृत श्री कृष्ण स्तोत्र ||


श्रीमन्तमिन्द्रियातीतमक्षरं निर्गुणं विभुम् ।

ध्यानासाध्यं च सर्वेषां परमात्मानमीश्र्वरम् ॥ १ ॥


स्वेच्छामयं सर्वरुपं स्वेच्छारुपधरं परम् ।

निर्लिप्तं परमं ब्रह्म बीजरुपं सनातनम् ॥ २ ॥


स्थूलात् स्थूलतरं व्याप्तमतिसूक्ष्ममदर्शनम् ।

स्थितं सर्वशरीरेषु साक्षिरूपमदृश्यकम् ॥ ३ ॥


शरीरवन्तं सगुणमशरीरं गुणोत्करम् ।

प्रकृतिं प्रकृतीशं च प्राकृतं प्रकृतेः परम् ॥ ४ ॥


सर्वेशं सर्वरूपं च सर्वान्तकरमव्ययम् ।

सर्वाधारं निराधारं निर्व्यूहं स्तौमि किं विभो ॥ ५ ॥


अनन्तः स्तवनेsशक्तोsशक्ता देवी सरस्वती ।

यं स्तोतुमसमर्थश्र्च पञ्चवक्त्रः षडाननः ॥ ६ ॥


चतुर्मुखो वेदकर्ता यं स्तोतुमक्षमः सदा ।

गणेशो न समर्थश्र्च योगीन्द्राणां गुरोर्गुरुः ॥ ७ ॥


ऋषयो देवताश्र्चैव मुनीन्द्रमनुमानवाः ।

स्वप्ने तेषामदृश्यं च त्वामेवं किं स्तुवन्ति ते ॥ ८ ॥


श्रुतयः स्तवनेsशक्ताः किं स्तुवन्ति विपश्र्चितः ।

विहायैवं शरीरं च बालो भवितुमर्हसि ॥ ९ ॥


वसुदेवकृतं स्तोत्रं त्रिसंध्यं यः पठेन्नरः ।

भक्तिदास्यमवाप्नोति श्रीकृष्णचरणाम्बुजे ॥ १० ॥


विशिष्टपुत्रं लभते हरिदासं गुणान्वितम् ।

सङकटं निस्तरेत् तूर्णं शत्रुभीत्या प्रमुच्यते ॥ ११ ॥

Tuesday, February 23, 2021

श्री कृष्ण स्तोत्र ||


वन्दे नवघनश्यामं पीतकौशेयवाससं।

सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम्॥१॥


राधेशं राधिकाप्राणवल्लभं वल्लवीसुतं।

राधासेवितपादाब्जं राधावक्षःस्थलस्थितम्॥२॥


राधानुगं राधिकेशं राधानुकृतमानसं।

राधाधारं भवाधारं सर्वाधारं नमामि तम्॥३॥


राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभं।

राधासहचरं शश्वद्राधाज्ञापरिपालकम् ॥४॥


ध्यायन्ते योगिनो योगात् सिद्धाः सिद्धेश्वराश्च यम्।

तं ध्यायेत् सन्ततं शुद्धं भगवन्तं सनातनम् ॥५॥


सेवने सततं सन्तो ब्रह्मेशशेषसंज्ञकाः।

सेवन्ते निर्गुणब्रह्म भगवन्तं सनातनं॥६॥


निर्लिप्तं च निरीहं च परमानन्दमीश्वरं।

नित्यं सत्यं च परमं भगवन्तं सनातनं॥७॥


यं सृष्टेरादिभूतं च सर्वबीजं परात्परं।

योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनं॥८॥


बीजं नानावताराणां सर्वकारणकारणं।

वेदाऽवेद्यं वेदबीजं वेदकारणकारणम् ॥९॥
श्री कृष्ण स्तोत्र || 


रक्ष रक्ष हरे मां च निमग्नं कामसागरे ।

दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसङ्कटे ॥ १ ॥


भक्तिविस्मृतिबीजे च विपत्सोपानदुस्तरे ।

अतीव निर्मलज्ञानचक्षुःप्रच्छन्नकारणे ॥ २ ॥


जन्मोर्मिसङ्गसहिते योषिन्नक्रौघसङ्कुले ।

रतिस्रोतसमायुक्ते गंभीरे घोर एव च ॥ ३ ॥


प्रथमामृतरूपे च परिणामविषालये ।

यमालय प्रवेशाय मुक्तिद्वारादिविस्मृतौ ॥ ४ ॥


बुद्ध्या तरण्या विज्ञानैः उद्धरास्मानतः स्वयं ।

स्वयं च त्वं कर्णधार प्रसीद मधुसूदन ॥ ५ ॥


मद्विधा कतिचिन्नाथ नियोज्या भवकर्मणि ।

सन्ति विश्वेश विधयो हि विश्वेश्वर माधव ॥ ६ ॥


न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमीप्सितः ।

तथापि च स्पृहा कामे त्वद्भक्तिव्यवधायके ॥ ७ ॥


हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु ।

त्वं महेश महाज्ञाता दुःस्वप्नं मां न दर्शय ॥ ८ ॥


ब्रह्मणा निर्मितं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।

स चैवाकर्मविषये न निमग्नो भवेत् ध्रुवम् ॥ ९ ॥

Monday, February 22, 2021

श्री बालकृष्ण अष्टकम ||

यत्कृपादृष्टिसद्वृष्टिसिक्ता भक्ता निरन्तरम् ।
भवन्ति सुखिनः स्निग्धास्तं श्रीबालहरिं भजे ॥ १॥


प्रतिपक्षक्षयात्क्षोण्यामङ्क्षु जातं महद्यशः ।
यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ २॥


स्वीयविश्लेषजक्लेशो नष्टः पुष्टः सुखोदितः ।
यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ३॥


सुस्थिरं सुदृढं पूर्णं प्रियं प्राप्येत सत्वरम् ।
यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ४॥


सुसम्पदा सत्कलया सद्विद्यावृद्धिगामिनी ।
यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ५॥


अनन्याऽहैतुकी पूर्णा स भक्तिः सुदृढा भवेत् ।
यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ६॥


इयत्तारहितो नित्य आनन्दः प्राप्यतेऽनिशम् ।
यत्कृपालेशमात्रेण तं श्रीबालहरि भजे ॥ ७॥


श्रीवल्लभेशपादाब्जे रतिः स्याद्विमला परा ।
यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ८॥


अष्टकं श्रीबालहरेरिदं मङ्गलकृत्प्रियम् ।
पठेद्वा शृणुयाद्भक्त्या फलं विन्देत्स वाञ्छितम् ॥ ९॥

Saturday, February 13, 2021

हरे कृष्णा हरे कृष्णा मंत्र


“हरे कृष्णा महा मंत्र इस प्रकार है-

हरे कृष्ण हरे कृष्ण

कृष्ण कृष्ण हरे हरे

हरे राम हरे राम

राम राम हरे हरे॥”


“Hare Kṛṣṇa Hare Kṛṣṇa

Kṛṣṇa Kṛṣṇa Hare Hare

Hare Rāma Hare Rāma

Rāma Rāma Hare Hare”


Krishna Moola Mantra

ॐ कृष्णाय नमः
“Om Krishnaya Namah”
Meaning : ‘Accept my salutations, Oh Sri Krishna.’'

Hare Krishna Maha Mantra
It is a 16-word Vaishnava mantra, the most famous mantra of Lord Krishna, which first appeared in the Kali-Santarana Upanishad.


हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे
हरे राम हरे राम राम राम हरे हरे

“Hare Krishna, Hare Krishna, Krishna Krishna, Hare Hare
Hare Rama, Hare Rama, Rama Rama, Hare Hare”


Meaning : Ode to Sri Krishna and Lord Rama who are both two bodies but one being, as they are the incarnation of Sri Hari Vishnu.


Sri Krishna Mantra For Success

ॐ श्री कृष्णः शरणं ममः
“Om Sri Krishnah sharanam mamah”

Meaning : ‘To the beloved Lord Krishna I pray to take me under your shelter, I surrender to you Oh lord.’


Krishna Gayatri Mantra

“ॐ देव्किनन्दनाय विधमहे

वासुदेवाय धीमहि
तन्नो कृष्ण:प्रचोदयात”


“Aum Devkinandanaye Vidmahe
Vasudevaye Dhi-Mahi
Tanno Krishna Prachodayat”

Thursday, February 11, 2021

कृष्णाष्टकम् || Krishna Ashtakam || Shri Krishna Ashtakam


श्रियाश्लिष्टो विष्णुः स्थिरचरवपुर्वेदविषयो,
धियां साक्षी शुद्धो हरिरसुरहन्ताब्जनयनः ।


गदी शङ्खी चक्री विमलवनमाली स्थिररुचिः,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ १ ॥


यतः सर्वं जातं वियदनिलमुख्यं जगदिदं,
स्थितौ निःशेषं योऽवति निजसुखांशेन मधुहा ।


लये सर्वं स्वस्मिन् हरति कलया यस्तु स विभुः,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ २ ॥


असूनायम्यादौ यमनियममुख्यैः सुकरणैः,
निरुध्येदं चित्तं हृदि विलयमानीय सकलम् ।


यमीड्यं पश्यन्ति प्रवरमतयो मायिनमसौ,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ३ ॥


पृथिव्यां तिष्ठन् यो यमयति महीं वेद न धरा,
यमित्यादौ वेदो वदति जगतामीशममलम् ।


नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमसौ,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ४ ॥


महेन्द्रादिर्देवो जयति दितिजान्यस्य बलतो,
न कस्य स्वातन्त्र्यं क्वचिदपि कृतौ यत्कृतिमृते ।


बलारातेर्गर्वं परिहरति योऽसौ विजयिनः,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ५ ॥


विना यस्य ध्यानं व्रजति पशुतां सूकरमुखाम्,
विना यस्य ज्ञानं जनिमृतिभयं याति जनता ।


विना यस्य स्मृत्या कृमिशतजनिं याति स विभुः,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ६ ॥


नरातङ्कोत्तङ्कः शरणशरणो भ्रान्तिहरणो,
घनश्यामो वामो व्रजशिशुवयस्योऽर्जुनसखः ।


स्वयंभूर्भूतानां जनक उचिताचारसुखदः,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ७ ॥


यदा धर्मग्लानिर्भवति जगतां क्षोभणकरी,
तदा लोकस्वामी प्रकटितवपुः सेतुधृगजः ।


सतां धाता स्वच्छो निगमगणगीतो व्रजपतिः,
शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषयः ॥ ८ ॥


इति हरिरखिलात्माराधितः शङ्करेण,
श्रुतिविशदगुणोऽसौ मातृमोक्षार्थमाद्यः ।


यतिवरनिकटे श्रीयुक्त आविर्बभूव,
स्वगुणवृत उदारः शङ्खचक्राब्जहस्तः ॥ ९ ॥