Showing posts with label माता धूमावती देवी. Show all posts
Showing posts with label माता धूमावती देवी. Show all posts

Thursday, February 18, 2021

श्रीधूमावतीकवचम्


श्रीगणेशाय नमः ।

अथ धूमावती कवचम् ।

श्रीपार्वत्युवाच –

धूमावत्यर्चनं शम्भो श्रुतं विस्तरतोमया ।
कवचं श्रोतुमिच्छामि तस्या देव वदस्व मे ॥ १॥

श्रीभैरव उवाच –

श‍ृणुदेवि परं गुह्यं न प्रकाश्यं कलौयुगे ।
कवचं श्रीधूमावत्याश्शत्रुनिग्रहकारकम् ॥ २॥

ब्रह्माद्यादेवि सततं यद्वशादरिघातिनः ।
योगिनोभवछत्रुघ्ना यस्याध्यान प्रभावतः ॥ ३॥


ॐ अस्य श्रीधूमावतीकवचस्य पिप्पलाद ऋषिः अनुष्टुप्छन्दः श्रीधूमावती देवता
धूं बीजम् स्वाहाशक्तिः धूमावती कीलकम् शत्रुहनने पाठे विनियोगः ।


ॐ धूं बीजं मे शिरः पातु धूं ललाटं सदावतु ।
धूमानेत्रयुगं पातु वती कर्णौसदावतु ॥ ४॥


दीर्घातूदरमध्ये तु नाभिं मे मलिनाम्बरा ।
शूर्पहस्ता पातु गुह्यं रूक्षारक्षतु जानुनी ॥ ५॥

मुखं मे पातु भीमाख्या स्वाहा रक्षतु नासिकाम् ।
सर्वं विद्यावतु कष्टं विवर्णा बाहुयुग्मकम् ॥ ६॥

चञ्चला हृदयं पातु दुष्टा पार्श्वं सदावतु ।
धूतहस्ता सदा पातु पादौ पातु भयावहा ॥ ७॥

प्रवृद्धरोमा तु भृशं कुटिला कुटिलेक्षणा ।
क्षृत्पिपासार्दिता देवी भयदा कलहप्रिया ॥ ८॥

सर्वाङ्गं पातु मे देवी सर्वशत्रुविनाशिनी ।
इति ते कवचं पुण्यं कथितं भुवि दुर्लभम् ॥ ९॥

न प्रकाश्यं न प्रकाश्यं न प्रकाश्यं कलौ युगे ।
पठनीयं महादेवि त्रिसन्ध्यं ध्यानतत्परैः ।
दुष्टाभिचारो देवेशि तद्गात्रं नैव संस्पृशेत् ॥ १०॥


श्री धुमावती अष्टकम || 


ॐ प्रातर्वा स्यात कुमारी कुसुम-कलिकया जप-मालां जपन्ती।
मध्यान्हे प्रौढ-रुपा विकसित-वदना चारु-नेत्रा निशायाम।।

सन्ध्यायां ब्रिद्ध-रुपा गलीत-कुच-युगा मुण्ड-मालां वहन्ती।
सा देवी देव-देवी त्रिभुवन-जननी चण्डिका पातु युष्मान ।।१।।

बद्ध्वा खट्वाङ्ग कोटौ कपिल दर जटा मण्डलं पद्म योने:।
कृत्वा दैत्योत्तमाङ्गै: स्रजमुरसी शिर: शेखरं ताक्ष्र्य पक्षै: ।।

पूर्ण रक्त्तै: सुराणां यम महिष-महा-श्रिङ्गमादाय पाणौ।
पायाद वौ वन्ध मान: प्रलय मुदितया भैरव: काल रात्र्या ।।२।।

चर्वन्ती ग्रन्थी खण्ड प्रकट कट कटा शब्द संघातमुग्रम।
कुर्वाणा प्रेत मध्ये ककह कह हास्यमुग्रं कृशाङ्गी।।


नित्यं न्रीत्यं प्रमत्ता डमरू डिम डिमान स्फारयन्ती मुखाब्जम।
पायान्नश्चण्डिकेयं झझम झम झमा जल्पमाना भ्रमन्ती।।३।।

टण्टट् टण्टट् टण्टटा प्रकट मट मटा नाद घण्टां वहन्ती।
स्फ्रें स्फ्रेंङ्खार कारा टक टकित हसां दन्त सङ्घट्ट भिमा।।

लोलं मुण्डाग्र माला ललह लह लहा लोल लोलोग्र रावम्।
चर्वन्ती चण्ड मुण्डं मट मट मटितं चर्वयन्ती पुनातु।।४।।

वामे कर्णे म्रिगाङ्कं प्रलया परीगतं दक्षिणे सुर्य बिम्बम्।
कण्डे नक्षत्र हारं वर विकट जटा जुटके मुण्ड मालम्।।

स्कन्धे कृत्वोरगेन्द्र ध्वज निकर युतं ब्रह्म कङ्काल भारम्।
संहारे धारयन्ती मम हरतु भयं भद्रदा भद्र काली ।।५।।

तैलोभ्यक्तैक वेणी त्रयु मय विलसत् कर्णिकाक्रान्त कर्णा।
लोहेनैकेन् कृत्वा चरण नलिन कामात्मन: पाद शोभाम्।।

दिग् वासा रासभेन ग्रसती जगादिदं या जवा कर्ण पुरा-
वर्षिण्युर्ध्व प्रब्रिद्धा ध्वज वितत भुजा साSसी देवी त्वमेव।।६।।


संग्रामे हेती कृत्तै: स रुधिर दर्शनैर्यद् भटानां शिरोभी-
र्मालामाबध्य मुर्घ्नी ध्वज वितत भुजा त्वं श्मशाने प्रविष्टा।।

दृंष्ट्वा भुतै: प्रभुतै: प्रिथु जघन घना बद्ध नागेन्द्र कान्ञ्ची-
शुलाग्र व्यग्र हस्ता मधु रुधिर मदा ताम्र नेत्रा निशायाम्।।७।।

दंष्ट्रा रौद्रे मुखे स्मिंस्तव विशती जगद् देवी! सर्व क्षणार्ध्दात्सं
सारस्यान्त काले नर रुधिर वसा सम्प्लवे धुम धुम्रे।।

काली कापालिकी त्वं शव शयन रता योगिनी योग मुद्रा।
रक्त्ता ॠद्धी कुमारी मरण भव हरा त्वं शिवा चण्ड धण्टा।।८।।


।।फलश्रुती।।


ॐ धुमावत्यष्टकं पुण्यं, सर्वापद् विनिवारकम्।
य: पठेत् साधको भक्तया, सिद्धीं विन्दती वंदिताम्।।१।।

महा पदी महा घोरे महा रोगे महा रणे।
शत्रुच्चाटे मारणादौ, जन्तुनां मोहने तथा।।२।।

पठेत् स्तोत्रमिदं देवी! सर्वत्र सिद्धी भाग् भवेत्।
देव दानव गन्धर्व यक्ष राक्षरा पन्नगा: ।।३।।

सिंह व्याघ्रदिका: सर्वे स्तोत्र स्मरण मात्रत:।
दुराद् दुर तरं यान्ती किं पुनर्मानुषादय:।।४।।

स्तोत्रेणानेन देवेशी! किं न सिद्धयती भु तले।
सर्व शान्तीर्भवेद्! चानते निर्वाणतां व्रजेत्।।५।।
श्री धूमावती अष्टोत्तर शतनामावली || 


श्रीधूमावत्यै नमः ।
श्रीधूम्रवर्णायै नमः ।
श्रीधूम्रपानपरायणायै नमः ।
श्रीधूम्राक्षमथिन्यै नमः ।
श्रीधन्यायै नमः ।
श्रीधन्यस्थाननिवासिन्यै नमः ।
श्रीअघोराचारसन्तुष्टायै नमः ।
श्रीअघोराचारमण्डितायै नमः ।
श्रीअघोरमन्त्रसम्प्रीतायै नमः ।
श्रीअघोरमन्त्रसम्पूजितायै नमः । १०


श्रीअट्टाट्टहासनिरतायै नमः ।
श्रीमलिनाम्बरधारिण्यै नमः ।
श्रीवृद्धायै नमः ।
श्रीविरूपायै नमः ।
श्रीविधवायै नमः ।
श्रीविद्यायै नमः ।
श्रीविरलाद्विजायै नमः ।
श्रीप्रवृद्धघोणायै नमः ।
श्रीकुमुख्यै नमः ।
श्रीकुटिलायै नमः । २०


श्रीकुटिलेक्षणायै नमः ।
श्रीकराल्यै नमः ।
श्रीकरालास्यायै नमः ।
श्रीकङ्काल्यै नमः ।
श्रीशूर्पधारिण्यै नमः ।
श्रीकाकध्वजरथारूढायै नमः ।


श्रीकेवलायै नमः ।
श्रीकठिनायै नमः ।
श्रीकुहवे नमः ।
श्रीक्षुत्पिपासार्द्दितायै नमः ।
श्रीनित्यायै नमः ।
श्रीललज्जिह्वायै नमः ।
श्रीदिगम्बरायै नमः ।


श्रीदीर्घोदर्यै नमः ।
श्रीदीर्घरवायै नमः ।
श्रीदीर्घाङ्ग्यै नमः ।
श्रीदीर्घमस्तकायै नमः ।
श्रीविमुक्तकुन्तलायै नमः ।


श्रीकीर्त्यायै नमः ।
श्रीकैलासस्थानवासिन्यै नमः ।
श्रीक्रूरायै नमः ।
श्रीकालस्वरूपायै नमः ।
श्रीकालचक्रप्रवर्तिन्यै नमः ।
श्रीविवर्णायै नमः ।
श्रीचञ्चलायै नमः ।
श्रीदुष्टायै नमः ।


श्रीदुष्टविध्वंसकारिण्यै नमः ।
श्रीचण्ड्यै नमः ।
श्रीचण्डस्वरूपायै नमः ।
श्रीचामुण्डायै नमः ।
श्रीचण्डनिःस्वनायै नमः ।
श्रीचण्डवेगायै नमः ।


श्रीचण्डगत्यै नमः ।
श्रीचण्डविनाशिन्यै नमः ।
श्रीमुण्डविनाशिन्यै नमः ।
श्रीचाण्डालिन्यै नमः ।
श्रीचित्ररेखायै नमः ।
श्रीचित्राङ्ग्यै नमः ।


श्रीचित्ररूपिण्यै नमः ।
श्रीकृष्णायै नमः ।
श्रीकपर्दिन्यै नमः ।
श्रीकुल्लायै नमः ।
श्रीकृष्णरूपायै नमः ।
श्रीक्रियावत्यै नमः ।


श्रीकुम्भस्तन्यै नमः ।
श्रीमहोन्मत्तायै नमः ।
श्रीमदिरापानविह्वलायै नमः ।
श्रीचतुर्भुजायै नमः ।
श्रीललज्जिह्वायै नमः ।
श्रीशत्रुसंहारकारिण्यै नमः ।


श्रीशवारूढायै नमः ।
श्रीशवगतायै नमः ।
श्रीश्मशानस्थानवासिन्यै नमः ।
श्रीदुराराध्यायै नमः ।
श्रीदुराचारायै नमः ।


श्रीदुर्जनप्रीतिदायिन्यै नमः ।
श्रीनिर्मांसायै नमः ।
श्रीनिराकारायै नमः ।


श्रीधूमहस्तायै नमः ।
श्रीवरान्वितायै नमः ।
श्रीकलहायै नमः ।
श्रीकलिप्रीतायै नमः ।
श्रीकलिकल्मषनाशिन्यै नमः ।
श्रीमहाकालस्वरूपायै नमः ।
श्रीमहाकालप्रपूजितायै नमः ।
श्रीमहादेवप्रियायै नमः ।


श्रीमेधायै नमः ।
श्रीमहासङ्कष्टनाशिन्यै नमः ।
श्रीभक्तप्रियायै नमः ।
श्रीभक्तगत्यै नमः ।
श्रीभक्तशत्रुविनाशिन्यै नमः ।
श्रीभैरव्यै नमः ।
श्रीभुवनायै नमः ।
श्रीभीमायै नमः ।


श्रीभारत्यै नमः ।
श्रीभुवनात्मिकायै नमः ।
श्रीभेरुण्डायै नमः ।
श्रीभीमनयनायै नमः ।
श्रीत्रिनेत्रायै नमः ।
श्रीबहुरूपिण्यै नमः ।
श्रीत्रिलोकेश्यै नमः ।


श्रीत्रिकालज्ञायै नमः ।
श्रीत्रिस्वरूपायै नमः ।
श्रीत्रयीतनवे नमः ।
श्रीत्रिमूर्त्यै नमः ।
श्रीतन्व्यै नमः ।
श्रीत्रिशक्तये नमः ।
श्रीत्रिशूलिन्यै नमः ।