Showing posts with label श्री परशुराम देव. Show all posts
Showing posts with label श्री परशुराम देव. Show all posts

Monday, February 22, 2021

श्री परशुराम अष्टोत्तर शतनामावली ||



ॐ रामाय नमः ।
ॐ राजाटवीवह्नये नमः ।
ॐ रामचन्द्रप्रसादकाय नमः ।
ॐ राजरक्तारुणस्नाताय नमः ।
ॐ राजीवायतलोचनाय नमः ।
ॐ रैणुकेयाय नमः ।
ॐ रुद्रशिष्याय नमः ।
ॐ रेणुकाच्छेदनाय नमः ।
ॐ रयिणे नमः ।
ॐ रणधूतमहासेनाय नमः ।


ॐ रुद्राणीधर्मपुत्रकाय नमः ।
ॐ राजत्परशुविच्छिन्नकार्तवीर्यार्जुनद्रुमाय नमः ।
ॐ राताखिलरसाय नमः ।
ॐ रक्तकृतपैतृक तर्पणाय नमः ।
ॐ रत्नाकरकृतावासाय नमः ।
ॐ रतीशकृतविस्मयाय नमः ।


ॐ रागहीनाय नमः ।
ॐ रागदूराय नमः ।
ॐ रक्षितब्रह्मचर्यकाय नमः ।
ॐ राज्यमत्तक्षत्त्रबीज भर्जनाग्निप्रतापवते नमः ।
ॐ राजद्भृगुकुलाम्बोधिचन्द्रमसे नमः ।
ॐ रञ्जितद्विजाय नमः ।
ॐ रक्तोपवीताय नमः ।


ॐ रक्ताक्षाय नमः ।
ॐ रक्तलिप्ताय नमः ।
ॐ रणोद्धताय नमः ।
ॐ रणत्कुठाराय नमः ।
ॐ रविभूदण्डायित महाभुजाय नमः ।
ॐ रमानाधधनुर्धारिणे नमः ।
ॐ रमापतिकलामयाय नमः ।
ॐ रमालयमहावक्षसे नमः ।
ॐ रमानुजलसन्मुखाय नमः ।
ॐ रणैकमल्लाय नमः ।


ॐ रसनाऽविषयोद्दण्ड पौरुषाय नमः ।
ॐ रामनामश्रुतिस्रस्तक्षत्रियागर्भसञ्चयाय नमः ।
ॐ रोषानलमयाकाराय नमः ।
ॐ रेणुकापुनराननाय नमः ।
ॐ रधेयचातकाम्भोदाय नमः ।
ॐ रुद्धचापकलापगाय नमः ।
ॐ राजीवचरणद्वन्द्वचिह्नपूतमहेन्द्रकाय नमः ।
ॐ रामचन्द्रन्यस्ततेजसे नमः ।
ॐ राजशब्दार्धनाशनाय नमः ।


ॐ राद्धदेवद्विजव्राताय नमः ।
ॐ रोहिताश्वाननार्चिताय नमः ।
ॐ रोहिताश्वदुराधर्षाय नमः ।
ॐ रोहिताश्वप्रपावनाय नमः ।
ॐ रामनामप्रधानार्धाय नमः ।


ॐ रत्नाकरगभीरधिये नमः ।
ॐ राजन्मौञ्जीसमाबद्ध सिंहमध्याय नमः ।
ॐ रविद्युतये नमः ।
ॐ रजताद्रिगुरुस्थानाय नमः ।
ॐ रुद्राणीप्रेमभाजनाय नमः ।
ॐ रुद्रभक्ताय नमः ।
ॐ रौद्रमूर्तये नमः ।
ॐ रुद्राधिकपराक्रमाय नमः ।
ॐ रविताराचिरस्थायिने नमः ।
ॐ रक्तदेवर्षिभावनाय नमः ।


ॐ रम्याय नमः ।
ॐ रम्यगुणाय नमः ।
ॐ रक्ताय नमः ।
ॐ रातभक्ताखिलेप्सिताय नमः ।
ॐ रचितस्वर्गगोपाय नमः ।
ॐ रन्धिताशयवासनाय नमः ।
ॐ रुद्धप्राणादिसञ्चाराय नमः ।


ॐ राजद्ब्रह्मपदस्थिताय नमः ।
ॐ रत्नसानुमहाधीराय नमः ।
ॐ रसासुरशिखामणये नमः ।
ॐ रक्तसिद्धये नमः ।
ॐ रम्यतपसे नमः ।
ॐ राततीर्थाटनाय नमः ।
ॐ रसिने नमः ।
ॐ रचितभ्रातृहननाय नमः ।


ॐ रक्षितभातृकाय नमः ।
ॐ राणिने नमः ।
ॐ राजापहृततातेष्टिधेन्वाहर्त्रे नमः ।
ॐ रसाप्रभवे नमः ।
ॐ रक्षितब्राह्म्यसाम्राज्याय नमः ।
ॐ रौद्राणेयजयध्वजाय नमः ।


ॐ राजकीर्तिमयच्छत्राय नमः ।
ॐ रोमहर्षणविक्रमाय नमः ।
ॐ राजसौर्यरसाम्भोधिकुम्भसम्भूतिसायकाय नमः ।
ॐ रात्रिन्दिवसमाजाग्रत्प्रतापग्रीष्मभास्कराय नमः ।
ॐ राजबीजोदरक्षोणीपरित्यागिने नमः ।
ॐ रसात्पतये नमः ।
ॐ रसाभारहराय नमः ।


ॐ रस्याय नमः ।
ॐ राजीवजकृतक्षमाय नमः ।
ॐ रुद्रमेरुधनुर्भङ्ग कृद्धात्मने नमः ।
ॐ रौद्रभूषणाय नमः ।
ॐ रामचन्द्रमुखज्योत्स्नामृतक्षालितहृन्मलाय नमः ।
ॐ रामाभिन्नाय नमः ।
ॐ रुद्रमयाय नमः ।
ॐ रामरुद्रो भयात्मकाय नमः ।


ॐ रामपूजितपादाब्जाय नमः ।
ॐ रामविद्वेषिकैतवाय नमः ।
ॐ रामानन्दाय नमः ।
ॐ रामनामाय नमः ।
ॐ रामाय नमः ।
ॐ रामात्मनिर्भिदाय नमः ।
ॐ रामप्रियाय नमः ।
ॐ रामतृप्ताय नमः ।


ॐ रामगाय नमः ।
ॐ रामविश्रमाय नमः ।
ॐ रामज्ञानकुठारात्तराजलोकमहातमसे नमः ।
ॐ रामात्ममुक्तिदाय नमः ।
ॐ रामाय नमः ।
ॐ रामदाय नमः ।
ॐ राममङ्गलाय नमः ।


श्रीपरशुरामाष्टकम् ॥


विप्रवंशावतंशं सदा नौम्यहं, रेणुकानन्दनं जामदग्ने प्रभो ।


द्रोहक्रोधाग्नि वैकष्टतां लोपकं, रेणुकानन्दनं वन्दते सर्वदा ॥ १॥


क्षत्रदुष्टान्तकं वै करस्यं धनुं, राजतेयस्य हस्ते कुठारं प्रभो ।


फुल्लरक्ताब्ज नेत्रं सदा भास्वरं, रेणुकानन्दनं वन्दते सर्वदा ॥ २॥


तेजसं शुभ्रदेहं विशालौ करौ, श्वेतयज्ञोपवीतं सदाधारकम् ।


दिव्यभाले त्रिपुण्ड्रं जटाजूवरं , रेणुकानन्दनं वन्दते सर्वदा ॥ ३॥


भक्तपालं कृपालं कृपासागरं, रौद्ररूपं करालं सुरैः वन्दितैः ।


जन्मतो ब्रह्मचारी व्रतीधारकः, रेणुकानन्दनं वन्दते सर्वदा ॥ ४॥


ज्ञानविज्ञानशक्तिश्च भण्डारकः, वेदयुद्धेषु विद्यासु पारङ्गतः ।


वासमाहेन्द्रशैले शिवाराधकः, रेणुकानन्दनं वन्दते सर्वदा ॥ ५॥


ज्ञानदाता विधाता सदा भूतले, पापसन्तापकष्टादि संहारकः ।


दिव्यभव्यात्मकं पूर्णं योगीश्वरं, रेणुकानन्दनं वन्दते सर्वदा ॥ ६॥


आर्तदुःखादिकानां सदारक्षकः, भीतदैत्यादिकानां सदा नाशकः ।


त्रीन्गुणः सप्तकृत्वातुभूर्दत्तकः, रेणुकानन्दनं वन्दते सर्वदा ॥ ७॥


शीलकारुण्यरूपं दयासागरं, भक्तिदं कीर्तिदं शान्तिदं मोक्षदम् ।


विश्वमायापरं भक्तसंरक्षकं, रेणुकानन्दनं वन्दते सर्वदा ॥ ८॥


भार्गवस्याष्टकं नित्यं प्रातः सायं पठेन्नरः ।


तस्य सर्वभयं नास्ति भार्गवस्य प्रसादतः ॥


॥ इति आचार्य राधेश्याम अवस्थी “रसेन्दु” कृतम् श्रीपरशुरामाष्टकं सम्पूर्णम् ॥
परशुराम कृतं दुर्गा स्तोत्र |


परशुराम उवाच


श्रीकृष्णस्य च गोलोके परिपूर्णतमस्य च:आविर्भूता विग्रहत: पुरा सृष्ट्युन्मुखस्य च॥

सूर्यकोटिप्रभायुक्त ा वस्त्रालंकारभूषिता। वह्निशुद्धांशुकाधाना सुस्मिता सुमनोहरा॥


नवयौवनसम्पन्ना सिन्दूरविन्दुशोभिता। ललितं कबरीभारं मालतीमाल्यमण्डितम्॥

अहोऽनिर्वचनीया त्वं चारुमूर्ति च बिभ्रती। मोक्षप्रदा मुमुक्षूणां महाविष्णोर्विधि: स्वयम्॥


मुमोह क्षणमात्रेण दृ त्वां सर्वमोहिनीम्। बालै: सम्भूय सहसा सस्मिता धाविता पुरा॥

सद्भि: ख्याता तेन राधा मूलप्रकृतिरीश्वरी। कृष्णस्त्वां सहसाहूय वीर्याधानं चकार ह॥


ततो डिम्भं महज्जज्ञे ततो जातो महाविराट्। यस्यैव लोमकूपेषु ब्रह्माण्डान्यखिलानि च॥

तच्छृङ्गारक्रमेणैव त्वन्नि:श्वासो बभूव ह। स नि:श्वासो महावायु: स विराड् विश्वधारक:॥


तव घर्मजलेनैव पुप्लुवे विश्वगोलकम्। स विराड् विश्वनिलयो जलराशिर्बभूव ह॥

ततस्त्वं पञ्चधाभूय पञ्चमूर्तीश्च बिभ्रती। प्राणाधिष्ठातृमूर्तिर्या कृष्णस्य परमात्मन:॥


कृष्णप्राणाधिकां राधां तां वदन्ति पुराविद:॥

वेदाधिष्ठातृमूर्तियां वेदाशास्त्रप्रसूरपि। तौ सावित्रीं शुद्धरूपां प्रवदन्ति मनीषिण:॥

ऐश्वर्याधिष्ठातृमूर्ति: शान्तिश्च शान्तरूपिणी। लक्ष्मीं वदन्ति संतस्तां शुद्धां सत्त्‍‌वस्रूपिणीम्॥

रागाधिष्ठातृदेवी या शुक्लमूर्ति: सतां प्रसू:। सरस्वतीं तां शास्त्रज्ञां शास्त्रज्ञा: प्रवदन्त्यहो॥

बुद्धिर्विद्या सर्वशक्ते र्या मूर्तिरधिदेवता। सर्वमङ्गलमङ्गल्या सर्वमङ्गलरूपिणी॥


सर्वमङ्गलबीजस्य शिवस्य निलयेऽधुना॥


शिवे शिवास्वरूपा त्वं लक्ष्मीर्नारायणान्तिके। सरस्वती च सावित्री वेदसू‌र्ब्रह्मण: प्रिया॥

राधा रासेश्वरस्यैव परिपूर्णतमस्य च। परमानन्दरूपस्य परमानन्दरूपिणी॥


त्वत्कलांशांशकलया देवानामपि योषित:॥

त्वं विद्या योषित: सर्वास्त्वं सर्वबीजरूपिणी। छाया सूर्यस्य चन्द्रस्य रोहिणी सर्वमोहिनी॥

शची शक्रस्य कामस्य कामिनी रतिरीश्वरी। वरुणानी जलेशस्य वायो: स्त्री प्राणवल्लभा॥


वह्ने: प्रिया हि स्वाहा च कुबेरस्य च सुन्दरी। यमस्य तु सुशीला च नैर्ऋतस्य च कैटभी॥

ईशानस्य शशिकला शतरूपा मनो: प्रिया। देवहूति: कर्दमस्य वसिष्ठस्याप्यरुन्धती॥


लोपामुद्राप्यगस्त्यस्य देवमातादितिस्तथा। अहल्या गौतमस्यापि सर्वाधारा वसुन्धरा॥

गङ्गा च तुलसी चापि पृथिव्यां या: सरिद्वरा:। एता: सर्वाश्च या ह्यन्या: सर्वास्त्वत्कलयाम्बिके॥


गृहलक्ष्मीगर्ृहे नृणांराजलक्ष्मीश्च राजसु। तपस्विनां तपस्या त्वं गायत्री ब्राह्मणस्य च॥


सतां सत्त्‍‌वस्वरूपा त्वमसतां कलहाङ्कुरा। ज्योतीरूपा निर्गुणस्य शक्ति स्त्वं सगुणस्य च॥


सूर्ये प्रभास्वरूपा त्वं दाहिका च हुताशने। जले शैत्यस्वरूपा च शोभारूपा निशाकरे॥

त्वं भूमौ गन्धरूपा च आकाशे शब्दरूपिणी। क्षुत्पिपासादयस्त्वं च जीविनां सर्वशक्त य:॥

सर्वबीजस्वरूपा त्वं संसारे साररूपिणी। स्मूतिर्मेधा च बुद्धिर्वा ज्ञानशक्ति र्विपश्चिताम्॥


कृष्णेन विद्या या दत्ता सर्वज्ञानप्रसू: शुभा। शूलिने कृपया सा त्वं यतो मृत्युञ्जय: शिव:॥

सृष्टिपालनसंहारशक्त यस्त्रिविधाश्च या:। ब्रह्मविष्णुमहेशानां सा त्वमेव नमोऽस्तु ते॥


मधुकैटभभीत्या च त्रस्तो धाता प्रकम्पित:। स्तुत्वा मुमोच यां देवीं तां मूधनर् प्रणमाम्यहम्॥

मधुकैटभयोर्युद्धे त्रातासौ विष्णुरीश्वरीम्। बभूव शक्ति मान् स्तुत्वा तां दुर्गा प्रणमाम्यहम्॥


त्रिपुरस्य महायुद्धे सरथे पतिते शिवे। यां तुष्टुवु: सुरा: सर्वे तां दुर्गा प्रणमाम्यहम्॥

विष्णुना वृषरूपेण स्वयं शम्भु: समुत्थित: जघान त्रिपुरं स्तुत्वा तां दुर्गा प्रणमाम्यहम्॥


यदाज्ञया वाति वात: सूर्यस्तपति संततम्। वर्षतीन्द्रो दहत्यगिन्स्तां दुर्गा प्रणमाम्यहम्॥

यदाज्ञया हि कालश्च शश्वद् भ्रमति वेगत:। मृत्युश्चरति जन्त्वोघे तां दुर्गा प्रणमाम्यहम्॥


स्त्रष्टा सृजति सृष्टिं च पाता पाति यदाज्ञया। संहर्ता संहरेत् काले तां दुर्गा प्रणमाम्यहम्॥

ज्योति:स्वरूपो भगवाञ्छ्रीकृष्णो निर्गुण: स्वयम्। यया विना न शक्त श्च सृष्टिं कर्तु नमामि ताम्॥


रक्ष रक्ष जगन्मातरपराधं क्षमस्व ते। शिशूनामपराधेन कुतो माता हि कुप्यति॥

इत्युक्त्वा पर्शुरामश्च प्रणम्य तां रुरोद ह। तुष्टा दुर्गा सम्भ्रमेण चाभयं च वरं ददौ॥


अमरो भव हे पुत्र वत्स सुस्थिरतां व्रज। शर्वप्रसादात् सर्वत्र ज्योऽस्तु तव संततम्॥

सर्वान्तरात्मा भगवांस्तुष्टोऽस्तु संततं हरि:। भक्ति र्भवतु ते कृष्णे शिवदे च शिवे गुरौ॥

इष्टदेवे गुरौ यस्य भक्ति र्भवति शाश्वती। तं हन्तु न हि शक्त ाश्च रुष्टाश्च सर्वदेवता:॥

श्रीकृष्णस्य च भक्त स्त्वं शिष्यो हि शंकरस्य च। गुरुपत्‍‌नीं स्तौषि यस्मात् कस्त्वां हन्तुमिहेश्वर:॥


अहो न कृष्णभक्त ानामशुभं विद्यते क्वचित्। अन्यदेवेषु ये भक्त ा न भक्त ा वा निरेङ्कुशा:॥


चन्द्रमा बलवांस्तुष्टो येषां भाग्यवतां भृगो। तेषां तारागणा रुष्टा: किं कुर्वन्ति च दुर्बला:॥

यस्य तुष्ट: सभायां चेन्नरदेवो महान् सुखी। तस्य किं वा करिष्यन्ति रुष्टा भृत्याश्च दुर्बला:॥

इत्युक्त्वा पार्वती तुष्टा दत्त्‍‌वा रामं शुभाशिषम्। जगामान्त:पुरं तूर्ण हरिशब्दो बभूव ह॥


स्तोत्रं वै काण्वशाखोक्तं पूजाकाले च य: पठेत्। यात्राकाले च प्रातर्वा वाञ्िछतार्थ लभेद्ध्रुवम॥

पुत्रार्थी लभते पुत्रं कन्यार्थी कन्यकां लभेत्। विद्यार्थी लभते विद्यां प्रजार्थी चाप्रुयात् प्रजाम्॥


भ्रष्टराज्यो लभेद् राज्यं नष्टवित्तो धनं लभेत्॥

यस्य रुष्टो गुरुर्देवो राजा वा बान्धवोऽथवा। तस्य तुष्टश्च वरद: स्तोत्रराजप्रसादत:॥

दस्युग्रस्तोऽहिग्रस्तश्च शत्रुग्रस्तो भयानक:। व्याधिग्रस्तो भवेन्मुक्त : स्तोत्रस्मरणमात्रत:॥


राजद्वारे श्मशाने च कारागारे च बन्धने। जलराशौ निमगन्श्च मुक्त स्तत्स्मृतिमात्रत:॥

स्वामिभेदे पुत्रभेदे मित्रभेदे च दारुणे। स्तोत्रस्मरणमात्रेण वाञ्िछतार्थ लभेद् ध्रुवम॥


कृत्वा हविष्यं वर्ष च स्तोत्रराजं श्रृणोति या। भक्त्या दुर्गा च सम्पूज्य महावन्ध्या प्रसूयते॥

लभते सा दिव्यपुत्रं ज्ञानिनं चिरजीविनम्। असौभाग्या च सौभाग्यं षण्मासश्रवणाल्लभेत्॥


नवमासं काकवन्ध्या मृतवत्सा च भक्ति त:। स्तोत्रराजं या श्रृणोति सा पुत्रं लभते धु्रवम्॥

कन्यामाता पुत्रहीना पञ्जमासं श्रृणोति या। घटे सम्पूज्य दुर्गा च सा पुत्रं लभते धु्रवम्॥
श्री परशुराम स्तोत्र ||


कराभ्यां परशुं चापं दधानं रेणुकात्मजं ।

जामदग्न्यं भजे रामं भार्गवं क्षत्रियान्तकं ॥१॥


नमामि भार्गवं रामं रेणुका चित्तनन्दनं ।

मोचितंबार्तिमुत्पातनाशनं क्षत्रनाशनम् ॥२॥


भयार्तस्वजनत्राणतत्परं धर्मतत्परम् ।

गतगर्वप्रियं शूरं जमदग्निसुतं मतम् ॥३॥


वशीकृतमहादेवं दृप्त भूप कुलान्तकम् ।

तेजस्विनं कार्तवीर्यनाशनं भवनाशनम् ॥४॥


परशुं दक्षिणे हस्ते वामे च दधतं धनुः ।

रम्यं भृगुकुलोत्तंसं घनश्यामं मनोहरम् ॥५॥


शुद्धं बुद्धं महाप्रज्ञापण्डितं रणपण्डितं ।

रामं श्रीदत्तकरुणाभाजनं विप्ररंजनम् ॥६॥


मार्गणाशोषिताभ्ध्यंशं पावनं चिरजीवनम् ।

य एतानि जपेन्द्रामनामानि स कृति भवेत् ॥७॥


॥ इति श्री प. श्री वासुदेवानंदसरस्वतीविरचितं श्री परशुराम स्तोत्रं संपूर्णम् ॥
श्रीपरशुरामाष्टकम् ॥



॥ श्रीमद्दिव्यपरशुरामाष्टकस्तोत्रम् ॥

ब्रह्मविष्णुमहेशसन्नुतपावनाङ्घ्रिसरोरुहं,


नीलनीरजलोचनं हरिमाश्रितामरभूरुहम् ।

केशवं जगदीश्वरं त्रिगुणात्मकं परपूरुषं,

पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ १॥




अक्षयं कलुषापहं निरुपद्रवं करुणानिधिं,

वेदरूपमनामयं विभुमच्युतं परमेश्वरम् ।

हर्षदं जमदग्निपुत्रकमार्यजुष्टपदाम्बुजं,

पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ २॥


रैणुकेयमहीनसत्वकमव्ययं सुजनार्चितं,

विक्रमाढ्यमिनाब्जनेत्रकमब्जशार्ङ्गगदाधरम् ।

छत्रिताहिमशेषविद्यगमष्टमूर्तिमनाश्रयं,

पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ३॥


बाहुजान्वयवारणाङ्कुशमर्वकण्ठमनुत्तमं,

सर्वभूतदयापरं शिवमब्धिशायिनमौर्वजम् ।

भक्तशत्रुजनार्दनं निरयार्दनं कुजनार्दनं,

पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ४॥



जम्भयज्ञविनाशकञ्च त्रिविक्रमं दनुजान्तकं,

निर्विकारमगोचरं नरसिंहरूपमनर्दहम् ।

वेदभद्रपदानुसारिणमिन्दिराधिपमिष्टदं,

पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ५॥


निर्जरं गरुडध्वजं धरणीश्वरं परमोददं,

सर्वदेवमहर्षिभूसुरगीतरूपमरूपकम् ।

भूमतापसवेषधारिणमद्रिशञ्च महामहं,


पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ६॥



सामलोलमभद्रनाशकमादिमूर्तिमिलासुरं,

सर्वतोमुखमक्षिकर्षकमार्यदुःखहरङ्कलौ ।

वेङ्कटेश्वररूपकं निजभक्तपालनदीक्षितं,

पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ७॥


दिव्यविग्रहधारिणं निखिलाधिपं परमं महा-,

वैरिसूदनपण्डितं गिरिजातपूजितरूपकम् ।

बाहुलेयकुगर्वहारकमाश्रितावळितारकं,

पर्शुराममुपास्महे मम किङ्करिष्यति योऽपि वै ॥ ८॥


पर्शुरामाष्टकमिदं त्रिसन्ध्यं यः पठेन्नरः,

पर्शुरामकृपासारं सत्यं प्राप्नोति सत्वरम् ॥

॥ इति श्रीपूसपाटि रङ्गनायकामात्य भार्गवर्षिकृत श्रीमद्दिव्यपरशुरामाष्टकं सम्पूर्णम् ॥