Showing posts with label ग्रह बुध देव. Show all posts
Showing posts with label ग्रह बुध देव. Show all posts

Wednesday, March 17, 2021

 बुध अष्टोत्तर शतनामावली || 


ॐ बुधाय नमः ।
ॐ बुधार्चिताय नमः ।
ॐ स्ॐयाय नमः ।
ॐ स्ॐयचित्ताय नमः ।
ॐ शुभप्रदाय नमः ।
ॐ दृढव्रताय नमः ।
ॐ दृढफलाय नमः ।
ॐ श्रुतिजालप्रबॊधकाय नमः ।
ॐ सत्यवासाय नमः ।
ॐ सत्यवचसॆ नमः ॥ १० ॥

ॐ श्रॆयसांपतयॆ नमः ।
ॐ अव्ययाय नमः ।
ॐ सॊमजाय नमः ।
ॐ सुखदाय नमः ।
ॐ श्रीमतॆ नमः ।
ॐ सॊमवंशप्रदीपकाय नमः ।
ॐ वॆदविदॆ नमः ।
ॐ वॆदतत्वज्ञाय नमः ।
ॐ वॆदांतज्ञानभास्कराय नमः ।
ॐ विद्याविचक्षणाय नमः ॥ २० ॥

ॐ विदूषॆ नमः ।
ॐ विद्वत्प्रीतिकराय नमः ।
ॐ ऋजवॆ नमः ।
ॐ विश्वानुकूलसंचारिणॆ नमः ।
ॐ विशॆषविनयान्विताय नमः ।
ॐ विविधागमसारज्ञाय नमः ।
ॐ वीर्यावतॆ नमः ।
ॐ विगतज्वराय नमः ।
ॐ त्रिवर्गफलदाय नमः ।
ॐ अनंताय नमः ॥ ३० ॥

ॐ त्रिदशाधिपपूजिताय नमः ।
ॐ बुद्धिमतॆ नमः ।
ॐ बहुशास्त्रज्ञाय नमः ।
ॐ बलिनॆ नमः ।
ॐ बंधविमॊचकाय नमः ।
ॐ वक्रातिवक्रगमनाय नमः ।
ॐ वासवाय नमः ।
ॐ वसुधाधिपाय नमः ।
ॐ प्रसन्नवदनाय नमः ।
ॐ वंद्याय नमः ॥ ४० ॥

ॐ वरॆण्याय नमः ।
ॐ वाग्विलक्षणाय नमः ।
ॐ सत्यवतॆ नमः ।
ॐ सत्यसंकल्पाय नमः ।
ॐ सत्यसंधाय नमः ।
ॐ सदादराय नमः ।
ॐ सर्वरॊगप्रशमनाय नमः ।
ॐ सर्वमृत्युनिवारकाय नमः ।
ॐ वाणिज्यनिपुणाय नमः ।
ॐ वश्याय नमः ॥ ५० ॥

ॐ वातांगिनॆ नमः ।
ॐ वातरॊगहृतॆ नमः ।
ॐ स्थूलाय नमः ।
ॐ स्थैर्यगुणाध्यक्षाय नमः ।
ॐ स्थूलसूक्ष्मादिकारणाय नमः ।
ॐ अप्रकाशाय नमः ।
ॐ प्रकाशात्मनॆ नमः ।
ॐ घनाय नमः ।
ॐ गगनभूषणाय नमः ।
ॐ विधिस्तुत्याय नमः ॥ ६० ॥

ॐ विशालाक्षाय नमः ।
ॐ विद्वज्जनमनॊहराय नमः ।
ॐ चारुशीलाय नमः ।
ॐ स्वप्रकाशाय नमः ।
ॐ चपलाय नमः ।
ॐ चलितॆंद्रियाय नमः ।
ॐ उदन्मुखाय नमः ।
ॐ मुखासक्ताय नमः ।
ॐ मगधाधिपतयॆ नमः ।
ॐ हरयॆ नमः ॥ ७० ॥

ॐ स्ॐयवत्सरसंजाताय नमः ।
ॐ सॊमप्रियकराय नमः ।
ॐ महतॆ नमः ।
ॐ सिंहादिरूढाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ शिखिवर्णाय नमः ।
ॐ शिवंकराय नमः ।
ॐ पीतांबराय नमः ।
ॐ पीतवपुषॆ नमः ।
ॐ पीतच्छत्रध्वजांकिताय नमः ॥ ८० ॥

ॐ खड्गचर्मधराय नमः ।
ॐ कार्यकर्त्रॆ नमः ।
ॐ कलुषहारकाय नमः ।
ॐ आत्रॆयगॊत्रजाय नमः ।
ॐ अत्यंतविनयाय नमः ।
ॐ विश्वपावनाय नमः ।
ॐ चांपॆयपुष्पसंकाशाय नमः ।
ॐ चरणाय नमः ।
ॐ चारुभूषणाय नमः ।
ॐ वीतरागाय नमः ॥ ९० ॥

ॐ वीतभयाय नमः ।
ॐ विशुद्धकनकप्रभाय नमः ।
ॐ बंधुप्रियाय नमः ।
ॐ बंधमुक्ताय नमः ।
ॐ बाणमंडलसंश्रिताय नमः ।
ॐ अर्कॆशानप्रदॆशस्थाय नमः ।
ॐ तर्कशास्त्रविशारदाय नमः ।
ॐ प्रशांताय नमः ।
ॐ प्रीतिसंयुक्ताय नमः ।
ॐ प्रियकृतॆ नमः ॥ १०० ॥

ॐ प्रियभाषणाय नमः ।
ॐ मॆधाविनॆ नमः ।
ॐ माधवासक्ताय नमः ।
ॐ मिथुनाधिपतयॆ नमः ।
ॐ सुधियॆ नमः ।
ॐ कन्याराशिप्रियाय नमः ।
ॐ कामप्रदाय नमः ।
ॐ घनफलाशाय नमः ॥ १०८ ॥

॥ इति बुधाष्टॊत्तर शतनामावळिः संपूर्णम्‌ ॥
 बुध अष्टोत्तर शतनामावली स्तोत्रम् -

बुधो बुधार्चितः सौम्यः सौम्यचित्तः शुभप्रदः ।



दृढव्रतो दृढबल श्रुतिजालप्रबोधकः ॥ १॥
सत्यवासः सत्यवचा श्रेयसाम्पतिरव्ययः ।
सोमजः सुखदः श्रीमान् सोमवंशप्रदीपकः ॥ २॥
वेदविद्वेदतत्त्वज्ञो वेदान्तज्ञानभास्करः ।
विद्याविचक्षण विदुर् विद्वत्प्रीतिकरो ऋजः ॥ ३॥
विश्वानुकूलसञ्चारी विशेषविनयान्वितः ।
विविधागमसारज्ञो वीर्यवान् विगतज्वरः ॥ ४॥


त्रिवर्गफलदोऽनन्तः त्रिदशाधिपपूजितः ।
बुद्धिमान् बहुशास्त्रज्ञो बली बन्धविमोचकः ॥ ५॥
वक्रातिवक्रगमनो वासवो वसुधाधिपः ।
प्रसादवदनो वन्द्यो वरेण्यो वाग्विलक्षणः ॥ ६॥
सत्यवान् सत्यसंकल्पः सत्यबन्धिः सदादरः ।
सर्वरोगप्रशमनः सर्वमृत्युनिवारकः ॥ ७॥
वाणिज्यनिपुणो वश्यो वातांगी वातरोगहृत् ।
स्थूलः स्थैर्यगुणाध्यक्षः स्थूलसूक्ष्मादिकारणः ॥ ८॥
अप्रकाशः प्रकाशात्मा घनो गगनभूषणः ।
विधिस्तुत्यो विशालाक्षो विद्वज्जनमनोहरः ॥ ९॥
चारुशीलः स्वप्रकाशो चपलश्च जितेन्द्रियः ।
उदऽग्मुखो मखासक्तो मगधाधिपतिर्हरः ॥ १०॥
सौम्यवत्सरसञ्जातः सोमप्रियकरः सुखी ।
सिंहाधिरूढः सर्वज्ञः शिखिवर्णः शिवंकरः ॥ ११॥
पीताम्बरो पीतवपुः पीतच्छत्रध्वजांकितः ।
खड्गचर्मधरः कार्यकर्ता कलुषहारकः ॥ १२॥


आत्रेयगोत्रजोऽत्यन्तविनयो विश्वपावनः ।
चाम्पेयपुष्पसंकाशः चारणः चारुभूषणः ॥ १३॥
वीतरागो वीतभयो विशुद्धकनकप्रभः ।
बन्धुप्रियो बन्धयुक्तो वनमण्डलसंश्रितः ॥ १४॥
अर्केशानप्रदेषस्थः तर्कशास्त्रविशारदः ।
प्रशान्तः प्रीतिसंयुक्तः प्रियकृत् प्रियभाषणः ॥ १५॥
मेधावी माधवासक्तो मिथुनाधिपतिः सुधीः ।
कन्याराशिप्रियः कामप्रदो घनफलाश्रयः ॥ १६॥
बुधस्येवम्प्रकारेण नाम्नामष्टोत्तरं शतम् ।
सम्पूज्य विधिवत्कर्ता सर्वान्कामानवाप्नुयात् ॥ १७॥
॥ इति बुध अष्टोत्तरशतनामस्तोत्रम् ॥

Wednesday, February 17, 2021

 बुध स्तोत्र || 


पीताम्बर: पीतवपु किरीटी, चतुर्भुजो देवदु:खापहर्ता ।

धर्मस्य धृक सोमसुत: सदा मे, सिंहाधिरुढ़ो वरदो बुधश्च ।।1।।


प्रियंगुकनकश्यामं रूपेणाप्रतिमं बुधम ।

सौम्यं सौम्यगुणोपेतं नमामि शशिनन्दनम ।।2।।


सोमसुनुर्बुधश्चैव सौम्य: सौम्यगुणान्वित: ।

सदा शान्त: सदा क्षेमो नमामि शशिनन्दनम ।।3।।


उत्पातरूपी जगतां चन्द्रपुत्रो महाद्युति: ।

सूर्यप्रियकरोविद्वान पीडां हरतु मे बुधं ।।4।।


शिरीषपुष्पसंकाशं कपिलीशो युवा पुन: ।

सोमपुत्रो बुधश्चैव सदा शान्तिं प्रयच्छतु ।।5।।


श्याम: शिरालश्चकलाविधिज्ञ:, कौतूहली कोमलवाग्विलासी ।

रजोधिको मध्यमरूपधृक स्या-दाताम्रनेत्रो द्विजराजपुत्र: ।।6।।


अहो चन्द्रासुत श्रीमन मागधर्मासमुदभव: ।

अत्रिगोत्रश्चतुर्बाहु: खड्गखेटकधारक: ।।7।।


गदाधरो नृसिंहस्थ: स्वर्णनाभसमन्वित: ।

केतकीद्रुमपत्राभ: इन्द्रविष्णुप्रपूजित: ।।8।।


ज्ञेयो बुध: पण्डितश्च रोहिणेयश्च सोमज: ।

कुमारो राजपुत्रश्च शैशवे शशिनन्दन: ।।9।।


गुरुपुत्रश्च तारेयो विबुधो बोधनस्तथा ।

सौम्य: सौम्यगुणोपेतो रत्नदानफलप्रद: ।।10।।


एतानि बुधनामानि प्रात: काले पठेन्नर: ।

बुद्धिर्विवृद्धितां याति बुधपीडा न जायते ।।11।।


।।  इति मंत्रमहार्णवे बुधस्तोत्रम  ।।

 बुध ग्रह के मंत्र || 


बुध ग्रह के वैदिक मंत्र || 

ऊँ उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्ते स सृजेथामयं च । 

अस्मिन्त्सधस्थे अध्युत्तरस्मिन्विश्वे देवा यजमानश्च सीदत ।।


बुध ग्रह के तांत्रिक मंत्र || 

ऊँ ऎं स्त्रीं श्रीं बुधाय नम:

ऊँ ब्रां ब्रीं ब्रौं स: बुधाय नम:

ऊँ स्त्रीं स्त्रीं बुधाय नम:


बुध ग्रह एकाक्षरी बीज मंत्र || 

ऊँ बुं बुधाय नम:


बुध ग्रह का पौराणिक मंत्र |

प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम । सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम ।।


बुध ग्रह का गायत्री मंत्र || 

ऊँ चन्द्रपुत्राय विदमहे रोहिणी प्रियाय धीमहि तन्नोबुध: प्रचोदयात ।