Showing posts with label ग्रह मंगल देव. Show all posts
Showing posts with label ग्रह मंगल देव. Show all posts

Wednesday, February 17, 2021

मंगल अष्टोत्तर शतनामावली || 



ॐ महीसुताय नमः ।
ॐ महाभागाय नमः ।
ॐ मंगळाय नमः ।
ॐ मंगळप्रदाय नमः ।
ॐ महावीराय नमः ।
ॐ महाशूराय नमः ।
ॐ महाबलपराक्रमाय नमः ।
ॐ महारौद्राय नमः ।
ॐ महाभद्राय नमः ।
ॐ माननीयाय नमः ॥ १० ॥


ॐ दयाकराय नमः ।
ॐ मानदाय नमः ।
ॐ अमर्षणाय नमः ।
ॐ क्रूराय नमः ।
ॐ तापपापविवर्जिताय नमः ।
ॐ सुप्रतीपाय नमः ।
ॐ सुताम्राक्षाय नमः ।
ॐ सुब्रह्मण्याय नमः ।
ॐ सुखप्रदाय नमः ।
ॐ वक्रस्तंभादिगमनाय नमः ॥ २० ॥


ॐ वरॆण्याय नमः ।
ॐ वरदाय नमः ।
ॐ सुखिनॆ नमः ।
ॐ वीरभद्राय नमः ।
ॐ विरूपाक्षाय नमः ।
ॐ विदूरस्थाय नमः ।
ॐ विभावसवॆ नमः ।
ॐ नक्षत्र चक्र संचारिणॆ नमः ।
ॐ क्षत्रपाय नमः ।
ॐ क्षात्रवर्जिताय नमः ॥ ३० ॥


ॐ क्षयवृद्धिविनिर्मुक्ताय नमः ।
ॐ क्षमायुक्ताय नमः ।
ॐ विचक्षणाय नमः ।
ॐ अक्षीण फलदाय नमः ।
ॐ चक्षुर्गॊचराय नमः ।
ॐ शुभलक्षणाय नमः ।
ॐ वीतरागाय नमः ।
ॐ वीतभयाय नमः ।
ॐ विज्वराय नमः ।
ॐ विश्वकारणाय नमः ॥ ४० ॥


ॐ नक्षत्रराशिसंचाराय नमः ।
ॐ नानाभयनिकृंतनाय नमः ।
ॐ कमनीयाय नमः ।
ॐ दयासाराय नमः ।
ॐ कनत्कनकभूषणाय नमः ।
ॐ भयघ्नाय नमः ।
ॐ भव्यफलदाय नमः ।
ॐ भक्ताभयवरप्रदाय नमः ।
ॐ शत्रुहंत्रॆ नमः ।
ॐ शमॊपॆताय नमः ॥ ५० ॥


ॐ शरणागतपॊषणाय नमः ।
ॐ साहसाय नमः ।
ॐ सद्गुणाध्यक्षाय नमः ।
ॐ साधवॆ नमः ।
ॐ समरदुर्जयाय नमः ।
ॐ दुष्टदूराय नमः ।
ॐ शिष्टपूज्याय नमः ।
ॐ सर्वकष्टनिवारकाय नमः ।
ॐ दुःखभंजनाय नमः ।
ॐ दुर्धराय नमः ॥ ६० ॥


ॐ हरयॆ नमः ।
ॐ दुःस्वप्नहंत्रॆ नमः ।
ॐ दुर्धर्षाय नमः ।
ॐ दुष्टगर्वविमॊचकाय नमः ।
ॐ भारद्वाजकुलॊद्भवाय नमः ।
ॐ भूसुताय नमः ।
ॐ भव्यभूषणाय नमः ।
ॐ रक्तांबराय नमः ।
ॐ रक्तवपुषॆ नमः ।
ॐ भक्तपालनतत्पराय नमः ॥ ७० ॥


ॐ चतुर्भुजाय नमः ।
ॐ गदाधारिणॆ नमः ।
ॐ मॆषवाहनाय नमः ।
ॐ मिताशनाय नमः ।
ॐ शक्तिशूलधराय नमः ।
ॐ शक्ताय नमः ।
ॐ शस्त्रविद्याविशारदाय नमः ।
ॐ तार्किकाय नमः ।
ॐ तामसाधाराय नमः ।
ॐ तपस्विनॆ नमः ॥ ८० ॥


ॐ ताम्रलॊचनाय नमः ।
ॐ तप्तकांचनसंकाशाय नमः ।
ॐ रक्तकिंजल्कसन्निभाय नमः ।
ॐ गॊत्राधिदॆवताय नमः ।
ॐ गॊमध्यचराय नमः ।
ॐ गुणविभूषणाय नमः ।
ॐ असृजॆ नमः ।
ॐ अंगारकाय नमः ।
ॐ अवंतीदॆशाधीशाय नमः ।
ॐ जनार्दनाय नमः ॥ ९० ॥


ॐ सूर्ययाम्यप्रदॆशस्थाय नमः ।
ॐ यौवनाय नमः ।
ॐ याम्यदिग्मुखाय नमः ।
ॐ त्रिकॊणमंडलगताय नमः ।
ॐ त्रिदशाधिप्रसन्नुताय नमः ।
ॐ शुचयॆ नमः ।
ॐ शुचिकराय नमः ।
ॐ शूराय नमः ।
ॐ शुचिवश्याय नमः ।
ॐ शुभावहाय नमः ॥ १०० ॥


ॐ मॆषवृष्चिकराशीशाय नमः ।
ॐ मॆधाविनॆ नमः ।
ॐ मितभाषिणॆ नमः ।
ॐ सुखप्रदाय नमः ।
ॐ सुरूपाक्षाय नमः ।
ॐ सर्वाभीष्टफलप्रदाय नमः ।
ॐ श्रीमतॆ नमः ।
ॐ अंगारकाय नमः ॥ १०८ ॥

 श्री मंगल चंडिका स्तोत्रम् ||


।। श्री मंगलचंडिकास्तोत्रम् ।।

ध्यान

“ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके I 

ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः II 



पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः I

दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् II


मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः I

ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम् II 


देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् I 

सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम् II 


श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् I

वन्हिशुद्धांशुकाधानां रत्नभूषणभूषिताम् II 


बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् I

बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम् II 


ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम् I 

जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसंपदाम् II 


संसारसागरे घोरे पोतरुपां वरां भजे II 

देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने I

प्रयतः संकटग्रस्तो येन तुष्टाव शंकरः II


|| शंकर उवाच ||

रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके I

हारिके विपदां राशेर्हर्षमङ्गलकारिके II


हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके I 

शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके II


मङ्गले मङ्गलार्हे च सर्व मङ्गलमङ्गले I 

सतां मन्गलदे देवि सर्वेषां मन्गलालये II


पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते I 

पूज्ये मङ्गलभूपस्य मनुवंशस्य संततम् II


मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले I 

संसार मङ्गलाधारे मोक्षमङ्गलदायिनि II


सारे च मङ्गलाधारे पारे च सर्वकर्मणाम् I 

प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे II


स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् I

प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः II


देव्याश्च मङ्गलस्तोत्रं यः श्रुणोति समाहितः I

तन्मङ्गलं भवेच्छश्वन्न भवेत् तदमङ्गलम् II

 इति श्री ब्रह्मवैवर्ते मङ्गलचण्डिका स्तोत्रं संपूर्णम् II

 मंगल स्तोत्र || 


रक्ताम्बरो रक्तवपु: किरीटी, चतुर्मुखो मेघगदो गदाधृक ।

धरासुत: शक्तिधरश्च शूली, सदा मम स्याद वरद: प्रशान्त: ।।1।।


धरणीगर्भसंभूतं विद्युतेजसमप्रभम ।

कुमारं शक्तिहस्तं च मंगलं प्रणमाम्यहम ।।2।।


ऋणहर्त्रे नमस्तुभ्यं दु:खदारिद्रनाशिने । 

नमामि द्योतमानाय सर्वकल्याणकारिणे ।।3।।


देवदानवगन्धर्वयक्षराक्षसपन्नगा: । 

सुखं यान्ति यतस्तस्मै नमो धरणि सूनवे ।।4।।


यो वक्रगतिमापन्नो नृणां विघ्नं प्रयच्छति ।

पूजित: सुखसौभाग्यं तस्मै क्ष्मासूनवे नम: ।।5।।


प्रसादं कुरु मे नाथ मंगलप्रद मंगल ।

मेषवाहन रुद्रात्मन पुत्रान देहि धनं यश: ।।6।।


 इति मन्त्रमहार्णवे मंगल स्तोत्रम 

 मंगल ग्रह कवच - 


अथ मंगल कवचम्


अस्य श्री मंगलकवचस्तोत्रमंत्रस्य कश्यप ऋषिः ।

अनुष्टुप् छन्दः । अङ्गारको देवता ।

भौम पीडापरिहारार्थं जपे विनियोगः।

रक्तांबरो रक्तवपुः किरीटी चतुर्भुजो मेषगमो गदाभृत् ।

धरासुतः शक्तिधरश्च शूली सदा ममस्याद्वरदः प्रशांतः ॥ १ ॥


अंगारकः शिरो रक्षेन्मुखं वै धरणीसुतः ।

श्रवौ रक्तांबरः पातु नेत्रे मे रक्तलोचनः ॥ २ ॥


नासां शक्तिधरः पातु मुखं मे रक्तलोचनः ।

भुजौ मे रक्तमाली च हस्तौ शक्तिधरस्तथा ॥ ३ ॥


वक्षः पातु वरांगश्च हृदयं पातु लोहितः।

कटिं मे ग्रहराजश्च मुखं चैव धरासुतः ॥ ४ ॥


जानुजंघे कुजः पातु पादौ भक्तप्रियः सदा ।

सर्वण्यन्यानि चांगानि रक्षेन्मे मेषवाहनः ॥ ५ ॥


या इदं कवचं दिव्यं सर्वशत्रु निवारणम् ।

भूतप्रेतपिशाचानां नाशनं सर्व सिद्धिदम् ॥ ६ ॥


सर्वरोगहरं चैव सर्वसंपत्प्रदं शुभम् ।

भुक्तिमुक्तिप्रदं नृणां सर्वसौभाग्यवर्धनम् ॥

रोगबंधविमोक्षं च सत्यमेतन्न संशयः ॥ ७ ॥


॥ इति श्रीमार्कण्डेयपुराणे मंगलकवचं संपूर्णं ॥

मंगल ग्रह के मंत्र 


मंगल वैदिक मंत्र || 

“ऊँ अग्निमूर्धादिव: ककुत्पति: पृथिव्यअयम। अपा रेता सिजिन्नवति ।

मंगल तांत्रिक मंत्र || 

ऊँ हां हंस: खं ख:
ऊँ हूं श्रीं मंगलाय नम:
ऊँ क्रां क्रीं क्रौं स: भौमाय नम:


मंगल एकाक्षरी बीज मंत्र ||


ऊँ अं अंगारकाय नम:
ऊँ भौं भौमाय नम:

मंगल का पौराणिक मंत्र ||

ऊँ धरणीगर्भसंभूतं विद्युतकान्तिसमप्रभम । कुमारं शक्तिहस्तं तं मंगलं प्रणमाम्यहम ।।


मंगल गायत्री मंत्र || 

“ॐ अंगारकाय विद्महे शक्ति हस्ताय धीमहि, तन्नो भौमः प्रचोदयात्” ।।


मंगल चंडिका मंत्र ||

ॐ ह्रीं श्रीं कलीम सर्व पुज्ये देवी मंगल चण्डिके ऐं क्रू फट् स्वाहा ( देवी भगवत के अनुसार )

अन्य मंत्र :- ॐ ह्रीं श्रीं कलीम सर्व पुज्ये देवी मंगल चण्डिके हूँ हूँ फट् स्वाहा