Showing posts with label अष्टकम. Show all posts
Showing posts with label अष्टकम. Show all posts

Saturday, June 26, 2021

 श्री दुर्गा आपदुद्धाराष्टकम्


नमस्ते शरण्ये शिवे सानुकम्पे नमस्ते जगद्व्यापिके विश्वरूपे |

नमस्ते जगद्वन्द्यपादारविन्दे नमस्ते जगत्तारिणि त्राहि दुर्गे ||१||


नमस्ते जगच्चिन्त्यमानस्वरूपे नमस्ते महायोगिविज्ञानरूपे |

नमस्ते नमस्ते सदानन्द रूपे नमस्ते जगत्तारिणि त्राहि दुर्गे ||२||


अनाथस्य दीनस्य तृष्णातुरस्य भयार्तस्य भीतस्य बद्धस्य जन्तोः |

त्वमेका गतिर्देवि निस्तारकर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे ||३||


अरण्ये रणे दारुणे शुत्रुमध्ये जले सङ्कटे राजग्रेहे प्रवाते |

त्वमेका गतिर्देवि निस्तार हेतुर्नमस्ते जगत्तारिणि त्राहि दुर्गे ||४||


अपारे महदुस्तरेऽत्यन्तघोरे विपत् सागरे मज्जतां देहभाजाम् |

त्वमेका गतिर्देवि निस्तारनौका नमस्ते जगत्तारिणि त्राहि दुर्गे ||५||


नमश्चण्डिके चण्डोर्दण्डलीलासमुत्खण्डिता खण्डलाशेषशत्रोः |

त्वमेका गतिर्विघ्नसन्दोहहर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे ||६||


त्वमेका सदाराधिता सत्यवादिन्यनेकाखिला क्रोधना क्रोधनिष्ठा |

इडा पिङ्गला त्वं सुषुम्ना च नाडी नमस्ते जगत्तारिणि त्राहि दुर्गे ||७||


नमो देवि दुर्गे शिवे भीमनादे सरस्वत्यरुन्धत्यमोघस्वरूपे  |

विभूतिः सतां कालरात्रिस्वरूपे नमस्ते जगत्तारिणि त्राहि दुर्गे ||८||


शरणमसि सुराणां सिद्धविद्याधराणां मुनिदनुजवराणां व्याधिभिः पीडितानाम् |

नृपतिगृहगतानां दस्युभिस्त्रासितानां त्वमसि शरणमेका देवि दुर्गे प्रसीद ||९||


|| इति सिद्धेश्वरतन्त्रे हरगौरीसंवादे आपदुद्धाराष्टकस्तोत्रं सम्पूर्णम् ||

Saturday, June 19, 2021

 श्री सूर्यमण्डलाष्टक स्तोत्रम्  


नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाश हेतवे । 
त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चि नारायण शंकरात्मने ॥ १ ॥ 
यन्मडलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरुपम् । 
दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ २ ॥ 
यन्मण्डलं देवगणै: सुपूजितं विप्रैः स्तुत्यं भावमुक्तिकोविदम् । 
तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ ३ ॥ 
यन्मण्डलं ज्ञानघनं, त्वगम्यं, त्रैलोक्यपूज्यं, त्रिगुणात्मरुपम् । 
समस्ततेजोमयदिव्यरुपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ ४ ॥ 
यन्मडलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् । 
यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ५ ॥ 
यन्मडलं व्याधिविनाशदक्षं यदृग्यजु: सामसु सम्प्रगीतम् । 
प्रकाशितं येन च भुर्भुव: स्व: पुनातु मां तत्सवितुर्वरेण्यम् ॥ ६ ॥ 
यन्मडलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसंघाः । 
यद्योगितो योगजुषां च संघाः पुनातु मां तत्सवितुर्वरेण्यम् ॥ ७ ॥ 
यन्मडलं सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके । 
यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ८ ॥ 
यन्मडलं विश्वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम् । 
यस्मिन् जगत् संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ९ ॥ 
यन्मडलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्ध तत्त्वम् । 
सूक्ष्मान्तरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १० ॥ 
यन्मडलं वेदविदि वदन्ति गायन्ति यच्चारणसिद्धसंघाः । 
यन्मण्डलं वेदविदः स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम् ॥ ११ ॥ 
यन्मडलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम् । 
तत्सर्ववेदं प्रणमामि सूर्य पुनातु मां तत्सवितुर्वरेण्यम् ॥ १२ ॥ 
मण्डलात्मकमिदं पुण्यं यः पठेत् सततं नरः । 
सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥ १३ ॥ 
॥ इति श्रीमदादित्यहृदये मण्डलात्मकं स्तोत्रं संपूर्णम् ॥
 श्रीपांडुरंगाष्टकम् 



महायोगपीठे तटे भीमरथ्या वरं पुंडरीकाय दातुं मुनीद्रैः । 
समागत्य तिष्टंतमानंदकदं परब्रह्मलिंगं भजे पांडुरंगं ॥ १ ॥ 
तडिद्वाससं नीलमेघावभासं रमामंदिरं सुंदरं चित्प्रकाशम् । 
वरं त्विष्टिकायां समन्यस्तपादं परब्रह्मलिंगं भजे पांडुरंगं ॥ २ ॥ 
प्रमाणं भवाब्धेरिदं मामकानां नितंबः कराभ्यां धृतो येन तस्मात् । 
विधातुर्वसत्यै धृतो नाभिकोशः परब्रह्मलिंगं भजे पांडुरंगं ॥ ३ ॥ 
स्फुरत्कौस्तुभालंकृतं कंठदेशे श्रिया जुष्टकेयूरकं श्रीनिवासम् । 
शिवं शान्तमीड्यं वरं लोकपालं परब्रह्मलिंगं भजे पांडुरंगं ॥ ४ ॥ 
शरचंद्रबिबाननं चारुहासं लसत्कुंडलक्रान्तगंडस्थलांगम् । 
जपारागबिंबाधरं कंजनेत्रम् परब्रह्मलिंगं भजे पांडुरंगं ॥ ५ ॥ 
किरीटोज्ज्वलत्सर्वदिक् प्रान्तभागं सुरैरर्चितं दिव्यरत्नैरमर्घ्यैः । 
त्रिभंगाकृतिं बर्हमाल्यावतंसं परब्रह्मलिंगं भजे पांडुरंगं ॥ ६ ॥ 
विभुं वेणुनादं चरन्तं दुरन्तं स्वयं लीलया गोपवेषं दधानम् । 
गवां वृंदकानन्दनं चारुहासं परब्रह्मलिंगं भजे पांडुरंगं ॥ ७ ॥ 
अजं रुक्मिणीप्राणसंजीवनं तं परं धाम कैवल्यमेकं तुरीयम् । 
प्रसन्नं प्रपन्नार्तिहं देवदेवं परब्रह्मलिंगं भजे पांडुरंगं ॥ ८ ॥ 
स्तवं पांडुरंगस्य वै पुण्यदं ये पठन्त्येकचित्तेन भक्त्या च नित्यम् । 
भवांबोनिधिं तेऽपि तीर्त्वाऽन्तकाले हरेरालयं शाश्र्वतं प्राप्नुवन्ति ॥ ९ ॥ 
॥ इति श्री परम पूज्य शंकराचार्यविरचितं श्रीपांडुरंगाष्टकं संपूर्णं ॥ 
 ॥ श्री महालक्ष्म्यष्टकम् ॥


श्री गणेशाय नमः
नमस्तेस्तू महामाये श्रीपिठे सूरपुजिते ।
शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तूते ॥ १ ॥
नमस्ते गरूडारूढे कोलासूर भयंकरी ।
सर्व पाप हरे देवी महालक्ष्मी नमोस्तूते ॥ २ ॥
सर्वज्ञे सर्ववरदे सर्वदुष्ट भयंकरी ।
सर्व दुःख हरे देवी महालक्ष्मी नमोस्तूते ॥३ ॥
सिद्धीबुद्धूीप्रदे देवी भुक्तिमुक्ति प्रदायिनी ।
मंत्रमूर्ते सदा देवी महालक्ष्मी नमोस्तूते ॥ ४ ॥
आद्यंतरहिते देवी आद्यशक्ती महेश्वरी ।
योगजे योगसंभूते महालक्ष्मी नमोस्तूते ॥ ५ ॥
स्थूल सूक्ष्म महारौद्रे महाशक्ती महोदरे ।
महापाप हरे देवी महालक्ष्मी नमोस्तूते ॥ ६ ॥
पद्मासनस्थिते देवी परब्रम्हस्वरूपिणी ।
परमेशि जगन्मातर्र महालक्ष्मी नमोस्तूते ॥ ७ ॥
श्वेतांबरधरे देवी नानालंकार भूषिते ।
जगत्स्थिते जगन्मार्त महालक्ष्मी नमोस्तूते ॥ ८ ॥
महालक्ष्म्यष्टकस्तोत्रं यः पठेत् भक्तिमान्नरः ।
सर्वसिद्धीमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ ९ ॥
एककाले पठेन्नित्यं महापापविनाशनं ।
द्विकालं यः पठेन्नित्यं धनधान्य समन्वितः ॥१०॥
त्रिकालं यः पठेन्नित्यं महाशत्रूविनाशनं ।
महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥११॥
॥इतिंद्रकृत श्रीमहालक्ष्म्यष्टकस्तवः संपूर्णः ॥
 काल भैरव अष्टक


देवराजसेव्यमानपावनांघ्रिपङ्कजं व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् ।
नारदादियोगिवृन्दवन्दितं दिगंबरं काशिकापुराधिनाथकालभैरवं भजे ॥ १॥
भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ।
कालकालमंबुजाक्षमक्षशूलमक्षरं काशिकापुराधिनाथकालभैरवं भजे ॥ २॥
शूलटंकपाशदण्डपाणिमादिकारणं श्यामकायमादिदेवमक्षरं निरामयम् ।
भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं काशिकापुराधिनाथकालभैरवं भजे ॥ ३॥
भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं भक्तवत्सलं स्थितं समस्तलोकविग्रहम् ।
विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं काशिकापुराधिनाथकालभैरवं भजे॥ ४॥
धर्मसेतुपालकं त्वधर्ममार्गनाशनं कर्मपाशमोचकं सुशर्मधायकं विभुम् ।
स्वर्णवर्णशेषपाशशोभितांगमण्डलं काशिकापुराधिनाथकालभैरवं भजे ॥ ५॥
रत्नपादुकाप्रभाभिरामपादयुग्मकं नित्यमद्वितीयमिष्टदैवतं निरंजनम् ।
मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं काशिकापुराधिनाथकालभैरवं भजे ॥ ६॥
अट्टहासभिन्नपद्मजाण्डकोशसंततिं दृष्टिपात्तनष्टपापजालमुग्रशासनम् ।
अष्टसिद्धिदायकं कपालमालिकाधरं काशिकापुराधिनाथकालभैरवं भजे ॥ ७॥
भूतसंघनायकं विशालकीर्तिदायकं काशिवासलोकपुण्यपापशोधकं विभुम् ।
नीतिमार्गकोविदं पुरातनं जगत्पतिं काशिकापुराधिनाथकालभैरवं भजे ॥ ८॥
॥ फल श्रुति॥
कालभैरवाष्टकं पठंति ये मनोहरं ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनम् ।
शोकमोहदैन्यलोभकोपतापनाशनं प्रयान्ति कालभैरवांघ्रिसन्निधिं नरा ध्रुवम् ॥
॥इति कालभैरवाष्टकम् संपूर्णम् ॥
 श्रीविश्वनाथाष्टकम्


गङ्गा तरङ्ग रमणीय जटा कलापं
गौरी निरन्तर विभूषित वाम भागं
नारायण प्रियमनङ्ग मदापहारं
वाराणसी पुरपतिं भज विश्वनाधम् (१)
वाचामगोचरमनेक गुण स्वरूपं
वागीश विष्णु सुर सेवित पाद पद्मं
वामेण विग्रह वरेन कलत्रवन्तं
वाराणसी पुरपतिं भज विश्वनाधम् (२)
भूतादिपं भुजग भूषण भूषिताङ्गं
व्याघ्राञ्जिनां बरधरं, जटिलं, त्रिनेत्रं
पाशाङ्कुशाभय वरप्रद शूलपाणिं
वाराणसी पुरपतिं भज विश्वनाधम् (३)
सीतांशु शोभित किरीट विराजमानं
बालेक्षणातल विशोषित पञ्चबाणं
नागाधिपा रचित बासुर कर्ण पूरं
वाराणसी पुरपतिं भज विश्वनाधम् (४)
पञ्चाननं दुरित मत्त मतङ्गजानां
नागान्तकं धनुज पुङ्गव पन्नागानां
दावानलं मरण शोक जराटवीनां
वाराणसी पुरपतिं भज विश्वनाधम् (५)
तेजोमयं सगुण निर्गुणमद्वितीयं
आनन्द कन्दमपराजित मप्रमेयं
नागात्मकं सकल निष्कलमात्म रूपं
वाराणसी पुरपतिं भज विश्वनाधम् (६)
आशां विहाय परिहृत्य परश्य निन्दां
पापे रथिं च सुनिवार्य मनस्समाधौ
आधाय हृत्-कमल मध्य गतं परेशं
वाराणसी पुरपतिं भज विश्वनाधम् (७)
रागाधि दोष रहितं स्वजनानुरागं
वैराग्य शान्ति निलयं गिरिजा सहायं
माधुर्य धैर्य सुभगं गरलाभिरामं
वाराणसी पुरपतिं भज विश्वनाधम् (८)
वाराणसी पुर पते स्थवनं शिवस्य
व्याख्यातम् अष्टकमिदं पठते मनुष्य
विद्यां श्रियं विपुल सौख्यमनन्त कीर्तिं
सम्प्राप्य देव निलये लभते च मोक्षम् ॥
विश्वनाधाष्टकमिदं पुण्यं यः पठेः शिव सन्निधौ
शिवलोकमवाप्नोति शिवेनसह मोदते ॥
 श्री दुर्गा आपदुद्धाराष्टकम्



नमस्ते शरण्ये शिवे सानुकम्पे नमस्ते जगद्व्यापिके विश्वरूपे |
नमस्ते जगद्वन्द्यपादारविन्दे नमस्ते जगत्तारिणि त्राहि दुर्गे ||१||
नमस्ते जगच्चिन्त्यमानस्वरूपे नमस्ते महायोगिविज्ञानरूपे |
नमस्ते नमस्ते सदानन्द रूपे नमस्ते जगत्तारिणि त्राहि दुर्गे ||२||
अनाथस्य दीनस्य तृष्णातुरस्य भयार्तस्य भीतस्य बद्धस्य जन्तोः |
त्वमेका गतिर्देवि निस्तारकर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे ||३||
अरण्ये रणे दारुणे शुत्रुमध्ये जले सङ्कटे राजग्रेहे प्रवाते |
त्वमेका गतिर्देवि निस्तार हेतुर्नमस्ते जगत्तारिणि त्राहि दुर्गे ||४||
अपारे महदुस्तरेऽत्यन्तघोरे विपत् सागरे मज्जतां देहभाजाम् |
त्वमेका गतिर्देवि निस्तारनौका नमस्ते जगत्तारिणि त्राहि दुर्गे ||५||
नमश्चण्डिके चण्डोर्दण्डलीलासमुत्खण्डिता खण्डलाशेषशत्रोः |
त्वमेका गतिर्विघ्नसन्दोहहर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे ||६||
त्वमेका सदाराधिता सत्यवादिन्यनेकाखिला क्रोधना क्रोधनिष्ठा |
इडा पिङ्गला त्वं सुषुम्ना च नाडी नमस्ते जगत्तारिणि त्राहि दुर्गे ||७||
नमो देवि दुर्गे शिवे भीमनादे सरस्वत्यरुन्धत्यमोघस्वरूपे  |
विभूतिः सतां कालरात्रिस्वरूपे नमस्ते जगत्तारिणि त्राहि दुर्गे ||८||
शरणमसि सुराणां सिद्धविद्याधराणां मुनिदनुजवराणां व्याधिभिः पीडितानाम् |
नृपतिगृहगतानां दस्युभिस्त्रासितानां त्वमसि शरणमेका देवि दुर्गे प्रसीद ||९||
|| इति सिद्धेश्वरतन्त्रे हरगौरीसंवादे आपदुद्धाराष्टकस्तोत्रं सम्पूर्णम् ||
 श्री गणेश मंगलाष्टकम



गजाननाय गांगेय सहजाय सर्दात्मने!
गौरी प्रियतनूजाय गणेषयास्तु मंगलम!!१!!
नागयज्ञोपवीताय नतविध्न विनाशिने!
नन्द्यादिगणनाथाय नायाकायास्तु मंगलम!!२!!
इभवक्त्राय चंद्रादिवन्दिताय चिदात्मने!
ईशान प्रेमपात्राय चेष्टादायास्तु मंगलम!!३!!
सुमुखाय सुशुन्डाग्रोक्षिप्तामृत घटाय च!
सुखरींदनिवे व्यय सुखदायास्तु मंगलम!!४!!
चतुर्भुजाय चन्द्राय विलसन्मस्तकाय च!
चरणावनतानन्ततारणायास्तु मंगलम!!५!!
वक्रतुण्डाय वटवे वन्धाय वरदाय च!
विरूपाक्षसुतायास्तु विघ्ननाशाय मंगलम!!६!!
प्रमोदामोदरूपाय सिद्धिविज्ञानरुपिणे !
प्रकृष्टपापनाशाय फलदायास्तु मंगलम!!७!!
मंगलं गणनाथाय मंगलं हरसूनवे !
मंगलं विघ्नराजाय विघ्न हत्रेंस्तु मंगलम!!८!!
श्लोकाष्टकमि पुण्यं मंगलप्रदमादरात !
पठितव्यं प्रयत्नेन सर्वविघ्ननिवृत्तये !!९!!
इति श्री गणपति मंगलाष्टकम !!
श्री सुब्रह्मण्य अष्टाकम


हे स्वामिनाथ करुणाकर दीनबन्धो, श्रीपार्वतीशमुखपङ्कज पद्मबन्धो ।
श्रीशादिदेवगणपूजितपादपद्म, वल्लीसनाथ मम देहि करावलम्बम् ॥१॥
देवादिदेवनुत देवगणाधिनाथ, देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद ।
देवर्षिनारदमुनीन्द्रसुगीतकीर्ते, वल्लीसनाथ मम देहि करावलम्बम् ॥२॥
नित्यान्नदान निरताखिल रोगहारिन्, तस्मात्प्रदान परिपूरितभक्तकाम ।
शृत्यागमप्रणववाच्यनिजस्वरूप, वल्लीसनाथ मम देहि करावलम्बम् ॥३॥
क्रौञ्चासुरेन्द्र परिखण्डन शक्तिशूल, पाशादिशस्त्रपरिमण्डितदिव्यपाणे ।
श्रीकुण्डलीश धृततुण्ड शिखीन्द्रवाह,वल्लीसनाथ मम देहि करावलम्बम् ॥४॥
देवादिदेव रथमण्डल मध्य वेद्य, देवेन्द्र पीठनगरं दृढचापहस्तम् ।
शूरं निहत्य सुरकोटिभिरीड्यमान, वल्लीसनाथ मम देहि करावलम्बम् ॥५॥
हारादिरत्नमणियुक्तकिरीटहार, केयूरकुण्डललसत्कवचाभिराम ।
हे वीर तारक जयाज़्मरबृन्दवन्द्य, वल्लीसनाथ मम देहि करावलम्बम् ॥६॥
पञ्चाक्षरादिमनुमन्त्रित गाङ्गतोयैः, पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।
पट्टाभिषिक्त हरियुक्त परासनाथ, वल्लीसनाथ मम देहि करावलम्बम् ॥७॥
श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या, कामादिरोगकलुषीकृतदुष्टचित्तम् ।
भक्त्वा तु मामवकलाधर कान्तिकान्त्या, वल्लीसनाथ मम देहि करावलम्बम् ॥८॥
सुब्रह्मण्य करावलम्बं पुण्यं ये पठन्ति द्विजोत्तमाः । ते सर्वे मुक्ति मायान्ति सुब्रह्मण्य प्रसादतः ।
सुब्रह्मण्य करावलम्बमिदं प्रातरुत्थाय यः पठेत् । कोटिजन्मकृतं पापं तत्‍क्षणादेव नश्यति ॥

Wednesday, March 17, 2021

माँ तारा अष्टकम || 


मातर्नीलसरस्वति प्रणमतां सौभाग्यसंपत्प्रदे,

प्रत्यालीढपदस्थिते शिवहृदि स्मेराननांभोरुहे।

फुल्लेन्दीवरलोचनत्रययुते कर्त्री कपालोत्पले,

खड्गञ्चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥१॥

वाचामीश्वरि भक्तकल्पलतिके सर्वाथसिद्धिप्रदे,

गद्यप्राकृतपद्यजातरचनासर्वस्वसिद्धिप्रदे।

नीलेन्दीवरलोचनत्रययुते कारुण्यवारांनिधे,

सौभाग्यामृतवर्षणेनकृपया सिञ्च त्वमस्मादृशम्॥२॥

सर्वे गर्वसमूहपूरिततनो सर्पादिवेषोज्ज्वले,

व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते।

सद्यःकृत्तगलद्रजःपरिमिलन्मुण्डद्वयीमूर्धज,

ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय ॥३॥

मायानङ्गविकाररूपललनाबिन्द्वर्धचन्द्रात्मिके,

हुंफट्कारमयी त्वमेव शरणं मन्त्रात्मिके मादृशाम्।

मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परा,

वेदानाम् न हि गोचरा कथमपि प्राप्तां नु तामाश्रये ॥४॥

यत्पादांबुजसेवया सुकृतिनो गच्छन्ति सायुज्यतां,

तस्य स्त्री परमेश्वरि त्रिनयना ब्रह्मादिसाम्यात्मनः।

संसारांबुधिमज्जने पटुतनू देवेन्द्रमुख्यान् सुरान्

मातस्त्वत्पदसेवने हि विमुखो यो मन्दधीः सेवते॥५॥

मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिण,

स्ते देवा जयसंगरे विजयिनो निश्शङ्कमङ्के गताः।

देवोऽहं भुवने न मे सम इति स्पर्धां वहन्तः परे,

तत्तुल्यं नियतं यथासुभिरमी नाशं व्रजन्ति स्वयम् ॥६॥

त्वन्नामस्मरणात् पलायनपरा द्रष्टुं च शक्ता न ते,

भूतप्रेतपिशाचराक्षसगणा यक्षाश्च नागाधिपाः।

दैत्या दानवपुङ्गवाशच खचरा व्याघ्रादिका जन्तवो,

डाकिन्यः कुपितान्तकाश्च मनुजं मातः क्षणं भूतले ॥७॥

लक्ष्मीः सिद्धिगणाश्च पादुकमुखा सिद्धिस्तथा वारिणः,

स्तंभाश्चापि रणाङ्गणॆ गजघटा स्तंभस्तथा मोहनम्।

मातस्त्वत्पदसेवया खलु नृणां सिद्ध्यन्ति ते ते गुणाः,

कान्तिः कान्तमनोभवस्य भवति क्षुद्रोऽपि वाचस्पतिः ॥८॥

ताराष्टकमिदं रम्यं भक्तिमान् यः पठेन्नरः।

प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः॥९॥

लभते कवितां दिव्यां सर्वशास्त्रार्थविद्भवेत् ।

लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान् यथेप्सितान्॥१०॥

कीर्तिं कान्तिं च नैरुज्यं सर्वेषां प्रियतां व्रजेत्।


 
श्री षोडशी त्रिपुर सुन्दरी अष्टकम ||

कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं,
नितम्बजित भूधरां सुरनितम्बिनीसेविताम् ।

नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां,
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ १॥

कदम्बवनवासिनीं कनकवल्लकीधारिणीं,
महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम् ।

दयाविभवकारिणीं विशदलोचनीं चारिणीं,
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ २॥

कदम्बवनशालया कुचभरोल्लसन्मालया,
कुचोपमितशैलया गुरुकृपालसद्वेलया ।

मदारुणकपोलया मधुरगीतवाचालया,
कयाऽपि घननीलया कवचिता वयं लीलया ॥ ३॥

कदम्बवनमध्यगां कनकमण्डलोपस्थितां,
षडम्बुरुहवासिनीं सततसिद्धसौदामिनीम् ।

विडम्बितजपारुचिं विकचचंद्रचूडामणिं,
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ४॥

कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतां,
कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम् ।

मदारुणविलोचनां मनसिजारिसंमोहिनीं,
मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ ५॥

स्मरप्रथमपुष्पिणीं रुधिरबिन्दुनीलाम्बरां,
गृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्चलां ।

घनस्तनभरोन्नतां गलितचूलिकां श्यामलां,
त्रिलोचनकुटुंबिनीं त्रिपुरसुन्दरीमाश्रये ॥ ६॥

सकुङ्कुमविलेपनामलकचुंबिकस्तूरिकां,
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।

अशेषजनमोहिनीमरुणमाल्य भूषाम्बरां,
जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥ ७॥

पुरंदरपुरंध्रिकां चिकुरबन्धसैरंध्रिकां,
पितामहपतिव्रतां पटपटीरचर्चारताम् ।

मुकुन्दरमणीमणीलसदलंक्रियाकारिणीं,
भजामि भुवनांबिकां सुरवधूटिकाचेटिकाम् ॥ ८॥
 श्री वेंकटेश अष्टकम || 

॥ श्रीवेङ्कटेशाष्टकम् ॥


श्रीवेङ्कटेशपदपङ्कज धूलिपङ्क्तिः संसारसिन्धुतरणे तरणिर्नवीना ।
सर्वाघपुञ्जहरणायच धूमकेतुः पायादनन्यशरणं स्वयमेव लोकम् ॥ १॥

शेषाद्रिगेहतव कीर्तितरङ्गपुञ्ज आभूमिनाकमभितःसकलान्पुनानः ।
मत्कर्णयुग्मविवरेपरिगम्य सम्यक् कुर्यादशेषमनिशङ्खलु तापभङ्गम् ॥ २॥

वैकुण्ठराजसकलोऽपि धनेशवर्गो नीतोऽपमानसरणिंत्वयि विश्वसित्रा ।
तस्मादयंन समयः परिहासवाचाम् इष्टंप्रपूर्य कुरु मां कृतकृत्यसङ्घम् ॥ ३॥

श्रीमन्नारास्तुकतिचिद्धनिकांश्च केचित् क्षोणीपतीन्कतिचिदत्रच राजलोकान् ।
आराधयन्तुमलशून्यमहं भवन्तं कल्याणलाभजननायसमर्थमेकम् ॥ ४॥

लक्ष्मीपतित्वमखिलेशतव प्रसिद्धमत्र प्रसिद्धमवनौमदकिञ्चनत्वम् ।
तस्योपयोगकरणायमया त्वया च कार्यः समागमैदं मनसि स्थितं मे ॥ ५॥

शेषाद्रिनाथभवताऽयमहं सनाथः सत्यंवदामि भगवंस्त्वमनाथ एव ।
तस्मात्कुरुष्वमदभीप्सित कृत्यजालम्- एवत्वदीप्सित कृतौ तु भवान्समर्थः ॥ ६॥

क्रुद्धोयदा भवसि तत्क्षणमेव भूपो रङ्कायतेत्वमसि चेत्खलु तोषयुक्तः ।
भूपायतेऽथनिखिलश्रुतिवेद्य रङ्क इच्छाम्यतस्तवदयाजलवृष्टिपातम् ॥ ७॥

अङ्गीकृतंसुविरुदं भगवंस्त्वयेति मद्भक्तपोषणमहंसततं करोमि ।
आविष्कुरुस्वमयि सत्सततं प्रदीने चिन्ताप्रहारमयमेवहियोग्यकालः ॥ ८॥

सर्वासुजातिषु मयातु समत्वमेव निश्चीयतेतव विभो करुणाप्रवाहात् ।
प्रह्लादपाण्डुसुतबल्लव गृघ्रकादौ नीचोन भाति मम कोऽप्यत एव हेतोः ॥ ९॥

सम्भावितास्तुपरिभूतिमथ प्रयान्ति धूर्ताजपं हि कपटैकपरा जगत्याम् ।
प्राप्तेतु वेङ्कटविभो परिणामकाले स्याद्वैपरीत्यमिवकौरवपाण्डवानाम् ॥ १०॥

श्रीवेङ्कटेशतव पादसरोजयुग्मे संसारदुःखशमनाय समर्पयामि ।
भास्वत्सदष्टकमिदं रचितं प्रभाकरोऽहमनिशंविनयेन युक्तः ॥ ११॥

श्रीशालिवाहनशकेशरकाष्टभूमि सङ्ख्यामितेऽथविजयाभिधवत्सरेऽयम् ।
श्रीकेशवात्मजैदं व्यतनोत्समल्पं स्तोत्रम्प्रभाकर इति प्रथिताभिधाना ॥ १२॥

॥ इतिगार्ग्यकुलोत्पन्न यशोदागर्भज-केशवात्मज-प्रभाकर-कृतिषु श्रीवेङ्कटेशाष्टकं स्तोत्रं समाप्तम् ॥

Monday, February 22, 2021

श्री शिव अष्टकम || 

प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथ नाथं सदानन्द भाजाम् ।
भवद्भव्य भूतॆश्वरं भूतनाथं, शिवं शङ्करं शम्भु मीशानमीडॆ ॥ 1 ॥


गलॆ रुण्डमालं तनौ सर्पजालं महाकाल कालं गणॆशादि पालम् ।
जटाजूट गङ्गॊत्तरङ्गै र्विशालं, शिवं शङ्करं शम्भु मीशानमीडॆ ॥ 2॥


मुदामाकरं मण्डनं मण्डयन्तं महा मण्डलं भस्म भूषाधरं तम् ।
अनादिं ह्यपारं महा मॊहमारं, शिवं शङ्करं शम्भु मीशानमीडॆ ॥ 3 ॥


वटाधॊ निवासं महाट्टाट्टहासं महापाप नाशं सदा सुप्रकाशम् ।
गिरीशं गणॆशं सुरॆशं महॆशं, शिवं शङ्करं शम्भु मीशानमीडॆ ॥ 4 ॥


गिरीन्द्रात्मजा सङ्गृहीतार्धदॆहं गिरौ संस्थितं सर्वदापन्न गॆहम् ।
परब्रह्म ब्रह्मादिभिर्-वन्द्यमानं, शिवं शङ्करं शम्भु मीशानमीडॆ ॥ 5 ॥


कपालं त्रिशूलं कराभ्यां दधानं पदाम्भॊज नम्राय कामं ददानम् ।
बलीवर्धमानं सुराणां प्रधानं, शिवं शङ्करं शम्भु मीशानमीडॆ ॥ 6 ॥


शरच्चन्द्र गात्रं गणानन्दपात्रं त्रिनॆत्रं पवित्रं धनॆशस्य मित्रम् ।
अपर्णा कलत्रं सदा सच्चरित्रं, शिवं शङ्करं शम्भु मीशानमीडॆ ॥ 7 ॥


हरं सर्पहारं चिता भूविहारं भवं वॆदसारं सदा निर्विकारं।
श्मशानॆ वसन्तं मनॊजं दहन्तं, शिवं शङ्करं शम्भु मीशानमीडॆ ॥ 8 ॥


स्वयं यः प्रभातॆ नरश्शूल पाणॆ पठॆत् स्तॊत्ररत्नं त्विहप्राप्यरत्नम् ।
सुपुत्रं सुधान्यं सुमित्रं कलत्रं विचित्रैस्समाराध्य मॊक्षं प्रयाति ॥
श्री भुवनेश्वरी अष्टकम || 

भुवनेश्वरीं नमस्यामो भक्तकल्पद्रुमां सदा ।

वरदां कामदां शान्तां कृष्णातीरनिवासिनीम् ॥ १॥


सर्वसिद्धिप्रदे देवि भुक्तिमुक्तिप्रदे शुभे ।

भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ २॥


सर्वाभयप्रदे देवि सर्वदुष्टविनाशिनि ।

भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ३॥


सर्व क्लेशहरे देवि (श्री)महाविष्णुस्वरूपिणी ।

भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ४॥


अन्तर्यामिस्वरूपेण स्थिते सर्वत्र सर्वगे ।

भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ५॥


भवनाश करे देवि भवभेषजदायिनी ।

भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ६॥


अविद्यापटलध्वंसि महानन्देऽभयप्रदे ।

भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ७॥


संसारतरणोपाये निर्जरैरूपसेविते ।

भुवनेश्वरी महाकालि मनोभीष्ट प्रदायिनी ॥ ८॥


जय जय अम्बिके सिद्धप्रदे । अभिष्टदायिनी मुक्तिप्रदे ।

अभयप्रदे भक्तकामदे । महानन्दे भवानी ।


सर्वव्यापके विष्णुरूपिणी । महाकाली दुःखहारिणी ।

अज्ञानपटलध्वंसकारिणी । देवी मृडानी सर्वगे ॥

श्री भुवनेश्वरी अष्टकम || 


॥ श्रीभुवनेश्वर्यष्टकम् ॥


अथ श्रीभुवनेश्वर्यष्टकम् ।


श्रीदेव्युवाच –

प्रभो श्रीभैरवश्रेष्ठ दयालो भक्तवत्सल ।

भुवनेशीस्तवम् ब्रूहि यद्यहन्तव वल्लभा ॥ १॥


ईश्वर उवाच –

शृणु देवि प्रवक्ष्यामि भुवनेश्यष्टकं शुभम् ।

येन विज्ञातमात्रेण त्रैलोक्यमङ्गलम्भवेत् ॥ २॥


ऊं नमामि जगदाधारां भुवनेशीं भवप्रियाम् ।

भुक्तिमुक्तिप्रदां रम्यां रमणीयां शुभावहाम् ॥ ३॥


त्वं स्वाहा त्वं स्वधा देवि ! त्वं यज्ञा यज्ञनायिका ।

त्वं नाथा त्वं तमोहर्त्री व्याप्यव्यापकवर्जिता ॥ ४॥


त्वमाधारस्त्वमिज्या च ज्ञानज्ञेयं परं पदम् ।

त्वं शिवस्त्वं स्वयं विष्णुस्त्वमात्मा परमोऽव्ययः ॥ ५॥


त्वं कारणञ्च कार्यञ्च लक्ष्मीस्त्वञ्च हुताशनः ।

त्वं सोमस्त्वं रविः कालस्त्वं धाता त्वञ्च मारुतः ॥ ६॥


गायत्री त्वं च सावित्री त्वं माया त्वं हरिप्रिया ।

त्वमेवैका पराशक्तिस्त्वमेव गुरुरूपधृक् ॥ ७॥


त्वं काला त्वं कलाऽतीता त्वमेव जगतांश्रियः ।

त्वं सर्वकार्यं सर्वस्य कारणं करुणामयि ॥ ८॥


इदमष्टकमाद्याया भुवनेश्या वरानने ।

त्रिसन्ध्यं श्रद्धया मर्त्यो यः पठेत् प्रीतमानसः ॥ ९॥


सिद्धयो वशगास्तस्य सम्पदो वशगा गृहे ।

राजानो वशमायान्ति स्तोत्रस्याऽस्य प्रभावतः ॥ १०॥


भूतप्रेतपिशाचाद्या नेक्षन्ते तां दिशं ग्रहाः ।

यं यं कामं प्रवाञ्छेत साधकः प्रीतमानसः ॥ ११॥


तं तमाप्नोति कृपया भुवनेश्या वरानने ।

अनेन सदृशं स्तोत्रं न समं भुवनत्रये ॥ १२॥


सर्वसम्पत्प्रदमिदं पावनानाञ्च पावनम् ।

अनेन स्तोत्रवर्येण साधितेन वरानने ।

समप्दो वशमायान्ति भुवनेश्याः प्रसादतः ॥ १३॥


॥ इति श्रीरुद्रयामले तन्त्रे श्रीभुवनेश्वर्यष्टकं सम्पूर्णम् ॥
श्री बालकृष्ण अष्टकम ||

यत्कृपादृष्टिसद्वृष्टिसिक्ता भक्ता निरन्तरम् ।
भवन्ति सुखिनः स्निग्धास्तं श्रीबालहरिं भजे ॥ १॥


प्रतिपक्षक्षयात्क्षोण्यामङ्क्षु जातं महद्यशः ।
यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ २॥


स्वीयविश्लेषजक्लेशो नष्टः पुष्टः सुखोदितः ।
यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ३॥


सुस्थिरं सुदृढं पूर्णं प्रियं प्राप्येत सत्वरम् ।
यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ४॥


सुसम्पदा सत्कलया सद्विद्यावृद्धिगामिनी ।
यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ५॥


अनन्याऽहैतुकी पूर्णा स भक्तिः सुदृढा भवेत् ।
यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ६॥


इयत्तारहितो नित्य आनन्दः प्राप्यतेऽनिशम् ।
यत्कृपालेशमात्रेण तं श्रीबालहरि भजे ॥ ७॥


श्रीवल्लभेशपादाब्जे रतिः स्याद्विमला परा ।
यत्कृपालेशमात्रेण तं श्रीबालहरिं भजे ॥ ८॥


अष्टकं श्रीबालहरेरिदं मङ्गलकृत्प्रियम् ।
पठेद्वा शृणुयाद्भक्त्या फलं विन्देत्स वाञ्छितम् ॥ ९॥

॥ श्रीकार्तिकेयाष्टकम् ॥ 


अगस्त्य उवाच-


नमोऽस्तु वृन्दारकवृन्दवन्द्यपादारविन्दाय सुधाकराय ।

षडाननायामितविक्रमाय गौरीहृदानन्दसमुद्भवाय ॥ १ ॥


नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे कर्त्रे समस्तस्य मनोरथानाम् ।

दात्रे रथानां परतारकस्य हन्त्रे प्रचण्डासुरतारकस्य ॥ २ ॥


अमूर्तमूर्ताय सहस्रमूर्तये गुणाय गण्याय परात्पराय ।

अपारपाराय परापराय नमोऽस्तु तुभ्यं शिखिवाहनाय ॥ ३ ॥


नमोऽस्तु ते ब्रह्मविदां वराय दिगम्बरायाम्बरसंस्थिताय ।

हिरण्यवर्णाय हिरण्यबाहवे नमो हिरण्याय हिरण्यरेतसे ॥ ४ ॥


तपः स्वरूपाय तपोधनाय तपः फलानां प्रतिपादकाय ।

सदा कुमाराय हि मारमारिणे तृणीकृतैश्वर्यविरागिणे नमः ॥ ५ ॥


नमोऽस्तु तुभ्यं शरजन्मने विभो प्रभातसूर्यारुणदन्तपङ्क्तये ।

बालाय चाबालपराक्रमाय षाण्मातुरायालमनातुराय ॥ ६ ॥


मीढुष्टमायोत्तरमीढुषे नमो नमो गणानां पतये गणाय ।

नमोऽस्तु ते जन्मजरातिगाय नमो विशाखाय सुशक्तिपाणये ॥ ७ ॥


सर्वस्य नाथस्य कुमारकाय क्रौञ्चारये तारकमारकाय ।

स्वाहेय गाङ्गेय च कार्तिकेय शैवेय तुभ्यं सततं नमोऽस्तु ॥ ८ ॥


॥ इति स्कान्दे काशीखण्डतः श्रीकार्तिकेयाष्टकं सम्पूर्णम् ॥
श्री शिव महिमा अष्टकम ||

सुरवृन्दमुनीश्वरवन्द्यपदो हिमशैलविहारकरो रुचिरः ।
अनुरागनिधिर्मणिसर्पधरो जयतीह शिवः शिवरूपधरः ॥ १॥

भवतापविदग्धविपत्तिहरो भवमुक्तिकरो भवनामधरः ।
धृतचन्द्रशिरो विषपानकरो जयतीह शिवः शिवरूपधरः ॥ २॥

निजपार्षदवृन्दजयोच्चरितः करशूलधरोऽभयदानपरः ।
जटया परिभूषितदिव्यतमो जयतीह शिवः शिवरूपधरः ॥ ३॥

वृषभाङ्गविराजित उल्लसितः कृपया नितरामुपदेशकरः ।
त्वरितं फलदो गणयूथयुतो जयतीह शिवः शिवरूपधरः ॥ ४॥

अहिहारसुशोभित आप्तनुतो समुपास्यमहेश्वर आर्तिहरः ।
धृतविष्णुपदीसुजटो मुदितो जयतीह शिवः शिवरूपधरः ॥ ५॥

व्रजकृष्णपदाब्जपरागरतो व्रजकुञ्जसखीनवरूपधरः ।
व्रजगोपसुरेश उमाधिपतिर्जयतीह शिवः शिवरूपधरः ॥ ६॥

युगकेलिविलासमहारसिको रसतन्त्रपुराणकथाचतुरः ।
रसशास्त्ररसज्ञपटुर्मधुरो जयतीह शिवः शिवरूपधरः ॥ ७॥

यमपाशभयापहरोऽघहरः प्रबलोऽस्ति महाप्रबलः प्रखरः ।
परिपूर्णतमो हरिभक्तिभरो जयतीह शिवः शिवरूपधरः ॥ ८॥

शिवशान्त्यर्थदं दिव्यं श्रीशिवमहिमाष्टकम् ।
राधासर्वेश्वराख्येन शरणान्तेन निर्मितम् ॥

Saturday, February 20, 2021

श्री विश्वकर्मा अष्टकम् || 
॥ श्रीविश्वकर्माष्टकम् ॥


आदिरूप नमस्तुभ्यं नमस्तुभ्यं पितामह ।

विराटाख्य नमस्तुभ्यं विश्वकर्मन्नमोनमः ॥ १॥


आकृतिकल्पनानाथस्त्रिनेत्री ज्ञाननायकः ।

सर्वसिद्धिप्रदाता त्वं विश्वकर्मन्नमोनमः ॥ २॥


पुस्तकं ज्ञानसूत्रं च कम्बी सूत्रं कमण्डलुम् ।

धृत्वा संमोहनं देव विश्वकर्मन्नमोनमः ॥ ३॥


विश्वात्मा भूतरूपेण नानाकष्टसंहारक ।

तारकानादिसंहाराद्विश्वकर्मन्नमोनमः ॥ ४॥


ब्रह्माण्डाखिलदेवानां स्थानं स्वर्भूतलं तलम् ।

लीलया रचितं येन विश्वरूपाय ते नमः ॥ ५॥


विश्वव्यापिन्नमस्तुभ्यं त्र्यम्बकं हंसवाहनम् ।

सर्वक्षेत्रनिवासाख्यं विश्वकर्मन्नमोनमः ॥ ६॥


निराभासाय नित्याय सत्यज्ञानान्तरात्मने ।

विशुद्धाय विदूराय विश्वकर्मन्नमोनमः ॥ ७॥


नमो वेदान्तवेद्याय वेदमूलनिवासिने ।

नमो विविक्तचेष्टाय विश्वकर्मन्नमोनमः ॥ ८॥


यो नरः पठते नित्यं विश्वकर्माष्टकमिदम् ।

धनं धर्मं च पुत्रश्च लभेदान्ते परां गतिम् ॥ ९॥


। इति विश्वकर्माष्टकं सम्पूर्णम् ।
श्री विश्वकर्मा अष्टकम || 

॥ विश्वकर्माष्टकम् ॥


निरञ्जनो निराकारः निर्विकल्पो मनोहरः ।

निरामयो निजानन्दः निर्विघ्नाय नमो नमः ॥ १॥


अनादिरप्रमेयश्च अरूपश्च जयाजयः ।

लोकरूपो जगन्नाथः विश्वकर्मन्नमो नमः ॥ २॥


नमो विश्वविहाराय नमो विश्वविहारिणे ।

नमो विश्वविधाताय नमस्ते विश्वकर्मणे ॥ ३॥


नमस्ते विश्वरूपाय विश्वभूताय ते नमः ।

नमो विश्वात्मभूथात्मन् विश्वकर्मन्नमोऽस्तु ते ॥ ४॥


विश्वायुर्विश्वकर्मा च विश्वमूर्तिः परात्परः ।

विश्वनाथः पिता चैव विश्वकर्मन्नमोऽस्तु ते ॥ ५॥


विश्वमङ्गलमाङ्गल्यः विश्वविद्याविनोदितः ।

विश्वसञ्चारशाली च विश्वकर्मन्नमोऽस्तु ते ॥ ६॥


विश्वैकविधवृक्षश्च विश्वशाखा महाविधः ।

शाखोपशाखाश्च तथा तद्वृक्षो विश्वकर्मणः ॥ ७॥


तद्वृक्षः फलसम्पूर्णः अक्षोभ्यश्च परात्परः ।

अनुपमानो ब्रह्माण्डः बीजमोङ्कारमेव च ॥ ८॥


। इति विश्वकर्माष्टकं सम्पूर्णम् ।