Showing posts with label माता सरस्वती. Show all posts
Showing posts with label माता सरस्वती. Show all posts

Wednesday, April 28, 2021

श्री सरस्वती अष्टोत्तर शतनामावली


 ॐ वाग्देव्यै नमः ।
ॐ शारदायै नमः ।
ॐ मायायै नमः ।
ॐ नादरूपिण्यै नमः ।
ॐ यशस्विन्यै नमः ।
ॐ स्वाधीनवल्लभायै नमः ।
ॐ हाहाहूहूमुखस्तुत्यायै नमः ।
ॐ सर्वविद्याप्रदायिन्यै नमः ।
ॐ रञ्जिन्यै नमः ।
ॐ स्वस्तिकासनायै नमः । 
ॐ अज्ञानध्वान्तचन्द्रिकायै नमः ।
ॐ अधिविद्यादायिन्यै नमः ।
ॐ कम्बुकण्ठ्यै नमः ।
ॐ वीणागानप्रियायै नमः ।
ॐ शरणागतवत्सलायै नमः ।
ॐ श्रीसरस्वत्यै नमः ।
ॐ नीलकुन्दलायै नमः ।
ॐ वाण्यै नमः ।
ॐ सर्वपूज्यायै नमः ।
ॐ कृतकृत्यायै नमः । 
ॐ तत्त्वमय्यै नमः ।
ॐ नारदादिमुनिस्तुतायै नमः ।
ॐ राकेन्दुवदनायै नमः ।
ॐ यन्त्रात्मिकायै नमः ।
ॐ नलिनहस्तायै नमः ।
ॐ प्रियवादिन्यै नमः ।
ॐ जिह्वासिद्ध्यै नमः ।
ॐ हंसवाहिन्यै नमः ।
ॐ भक्तमनोहरायै नमः ।
ॐ दुर्गायै नमः । 
ॐ कल्याण्यै नमः ।
ॐ चतुर्मुखप्रियायै नमः ।
ॐ ब्राह्म्यै नमः ।
ॐ भारत्यै नमः ।
ॐ अक्षरात्मिकायै नमः ।
ॐ अज्ञानध्वान्तदीपिकायै नमः ।
ॐ बालारूपिण्यै नमः ।
ॐ देव्यै नमः ।
ॐ लीलाशुकप्रियायै नमः ।
ॐ दुकूलवसनधारिण्यै नमः । 
ॐ क्षीराब्धितनयायै नमः ।
ॐ मत्तमातङ्गगामिन्यै नमः ।
ॐ वीणागानविलोलुपायै नमः ।
ॐ पद्महस्तायै नमः ।
ॐ रणत्किङ्किणिमेखलायै नमः ।
ॐ त्रिलोचनायै नमः ।
ॐ अङ्कुशाक्षसूत्रधारिण्यै नमः ।
ॐ मुक्ताहारविभूषितायै नमः ।
ॐ मुक्तामण्यङ्कितचारुनासायै नमः ।
ॐ रत्नवलयभूषितायै नमः । 
ॐ कोटिसूर्यप्रकाशिन्यै नमः ।
ॐ विधिमानसहंसिकायै नमः ।
ॐ साधुरूपिण्यै नमः ।
ॐ सर्वशास्त्रार्थवादिन्यै नमः ।
ॐ सहस्रदलमध्यस्थायै नमः ।
ॐ सर्वतोमुख्यै नमः ।
ॐ सर्वचैतन्यरूपिण्यै नमः ।
ॐ सत्यज्ञानप्रबोधिन्यै नमः ।
ॐ विप्रवाक्स्वरूपिण्यै नमः ।
ॐ वासवार्चितायै नमः । 
ॐ शुभ्रवस्त्रोत्तरीयायै नमः ।
ॐ विरिञ्चिपत्न्यै नमः ।
ॐ तुषारकिरणाभायै नमः ।
ॐ भावाभावविवर्जितायै नमः ।
ॐ वदनाम्बुजैकनिलयायै नमः ।
ॐ मुक्तिरूपिण्यै नमः ।
ॐ गजारूढायै नमः ।
ॐ वेदनुताय नमः ।
ॐ सर्वलोकसुपूजितायै नमः ।
ॐ भाषारूपायै नमः । 
ॐ भक्तिदायिन्यै नमः ।
ॐ मीनलोचनायै नमः ।
ॐ सर्वशक्तिसमन्वितायै नमः ।
ॐ अतिमृदुलपदाम्बुजायै नमः ।
ॐ विद्याधर्यै नमः ।
ॐ जगन्मोहिन्यै नमः ।
ॐ रमायै नमः ।
ॐ हरिप्रियायै नमः ।
ॐ विमलायै नमः ।
ॐ पुस्तकभृते नमः । 
ॐ नारायण्यै नमः ।
ॐ मङ्गलप्रदायै नमः ।
ॐ अश्वलक्ष्म्यै नमः ।
ॐ धान्यलक्ष्म्यै नमः ।
ॐ राजलक्ष्म्यै नमः ।
ॐ गजलक्ष्म्यै नमः ।
ॐ मोक्षलक्ष्म्यै नमः ।
ॐ सन्तानलक्ष्म्यै नमः ।
ॐ जयलक्ष्म्यै नमः ।
ॐ खड्गलक्ष्म्यै नमः । 
ॐ कारुण्यलक्ष्म्यै नमः ।
ॐ सौम्यलक्ष्म्यै नमः ।
ॐ भद्रकाल्यै नमः ।
ॐ चण्डिकायै नमः ।
ॐ शाम्भव्यै नमः ।
ॐ सिंहवाहिन्यै नमः ।
ॐ सुभद्रायै नमः ।
ॐ महिषासुरमर्दिन्यै नमः ।
ॐ अष्टैश्वर्यप्रदायिन्यै नमः ।
ॐ हिमवत्पुत्रिकायै नमः । 
ॐ महाराज्ञै नमः ।
ॐ त्रिपुरसुन्दर्यै नमः ।
ॐ पाशाङ्कुशधारिण्यै नमः ।
ॐ श्वेतपद्मासनायै नमः ।
ॐ चाम्पेयकुसुमप्रियायै नमः ।
ॐ वनदुर्गायै नमः ।
ॐ राजराजेश्वर्यै नमः ।
ॐ श्रीदुर्गालक्ष्मीसहित- महासरस्वत्यै नमः ।

Saturday, April 10, 2021

अमृत वर्षिणी सरस्वती अष्टोत्तर


ॐ ह्रीँ श्री शारदा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री विजया सरस्वत्यै नमः ।

ॐ ह्रीँ श्री नन्दा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री जया सरस्वत्यै नमः ।

ॐ ह्रीँ श्री पद्मा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री शिवा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री क्षमा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री दुर्गा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री गौरी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री महालक्ष्मी सरस्वत्यै नमः । 

ॐ ह्रीँ श्री कालिका सरस्वत्यै नमः ।

ॐ ह्रीँ श्री रोहिणी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री परा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री माया सरस्वत्यै नमः ।

ॐ ह्रीँ श्री कुण्डलिनी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री मेघा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री कौमारी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री भुवनेश्वरी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री श्यामा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री चण्डी सरस्वत्यै नमः । 

ॐ ह्रीँ श्री कामाक्षा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री रौद्री सरस्वत्यै नमः ।

ॐ ह्रीँ श्री देवी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री कला सरस्वत्यै नमः ।

ॐ ह्रीँ श्री ईडा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री पिङ्गला सरस्वत्यै नमः ।

ॐ ह्रीँ श्री सुषुम्णा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री भाषा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री ह्रीङ्कारी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री घिषणा सरस्वत्यै नमः । 

ॐ ह्रीँ श्री बिञ्छिका सरस्वत्यै नमः ।

ॐ ह्रीँ श्री ब्रह्माणी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री कमला सरस्वत्यै नमः ।

ॐ ह्रीँ श्री सिद्धा सरस्वत्चै नमः ।

ॐ ह्रीँ श्री उमा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री पर्णा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री प्रभा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री दया सरस्वत्यै नमः ।

ॐ ह्रीँ श्री भर्भरी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री वैष्णवी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री बाला सरस्वत्यै नमः ।

ॐ ह्रीँ श्री वश्ये सरस्वत्यै नमः ।

ॐ ह्रीँ श्री मन्दिरा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री भैरवी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री जालया सरस्वत्यै नमः ।

ॐ ह्रीँ श्री शाम्भवा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री या सरस्वत्यै नमः ।

ॐ ह्रीँ श्री मा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री सर्वाणि सरस्वत्यै नमः ।

ॐ ह्रीँ श्री कौशिका सरस्वत्यै नमः । 

ॐ ह्रीँ श्री रमा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री चक्रेश्वरी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री महाविद्या सरस्वत्यै नमः ।

ॐ ह्रीँ श्री मृडानी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री भगमालिनी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री विशाली सरस्वत्यै नमः ।

ॐ ह्रीँ श्री शङ्करी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री दक्षा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री कालाग्नी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री कपिला सरस्वत्यै नमः । 

ॐ ह्रीँ श्री क्षया सरस्वत्यै नमः ।

ॐ ह्रीँ श्री ऐन्द्री सरस्वत्यै नमः ।

ॐ ह्रीँ श्री नारायणी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री भीमी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री वरदा सरस्क्त्यै नमः ।

ॐ ह्रीँ श्री शाम्भवी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री हिमा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री गान्धर्वी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री चारणी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री गार्गी सरस्वत्यै नमः । 

ॐ ह्रीँ श्री कोटिश्री सरस्वत्यै नमः ।

ॐ ह्रीँ श्री नन्दिनी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री सूरा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री अमोघा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री जाङ्गुली सरस्वत्यै नमः ।

ॐ ह्रीँ श्री स्वाहा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री गण्डनी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री धनार्जनी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री कबरी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री विशालाक्षी सरस्वत्यै नमः । 

ॐ ह्रीँ श्री सुभगा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री चकरालिका सरस्वत्यै नमः ।

ॐ ह्रीँ श्री वाणी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री महानिशा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री हारी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री वागीश्वरी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री निरञ्जना सरस्वत्यै नमः ।

ॐ ह्रीँ श्री वारूणी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री बदरीवासा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री श्रद्वा सरस्वत्यै नमः । 

ॐ ह्रीँ श्री क्षेमङ्करी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री क्रिया सरस्वत्यै नमः ।

ॐ ह्रीँ श्री चतुर्भजा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री द्विभुजा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री शैला सरस्वत्यै नमः ।

ॐ ह्रीँ श्री केशी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री महाजया सरस्वत्यै नमः ।

ॐ ह्रीँ श्री वाराही सरस्वत्यै नमः ।

ॐ ह्रीँ श्री यादवी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री षष्ठी सरस्वत्यै नमः । 

ॐ ह्रीँ श्री प्रज्ञा सरस्वत्यै नमः ।

ॐ ह्रीँ श्री गी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री गौ सरस्वत्यै नमः ।

ॐ ह्रीँ श्री महोदरी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री वाग्वादिनी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री कलीङ्करी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री ऐङ्कारी सरस्वत्यै नमः ।

ॐ ह्रीँ श्री विश्वमोहिनी सरस्वत्यै नमः ।


Tuesday, February 23, 2021

श्री सरस्वती रहस्य स्तोत्रम् || 


नीहारहारघनसारसुधाकराभां कल्याणदां कनकचम्पकदामभूषाम्।

उत्तुङ्गपीनकुचकुंभमनोहराङ्गीं वाणीं नमामि मनसा वचसा विभूत्यै॥१॥


या वेदान्तार्थतत्त्वैकस्वरूपा परमेश्वरी।

नामरूपात्मना व्यक्ता सा मां पातु सरस्वती॥२॥


या साङ्गोपाङ्गवेदेषु चतुर्ष्वेकैव गीयते।

अद्वैता ब्रह्मणः शक्तिः सा मां पातु सरस्वती॥३॥


या वर्णपदवाक्यार्थस्वरूपेणैव वर्तते।

अनादिनिधनानन्ता सा मां पातु सरस्वती॥४॥


अध्यात्ममधिदैवं च देवानां सम्यगीश्वरी

प्रत्यगास्ते वदन्ती या सा मां पातु सरस्वती॥५॥


अन्तर्याम्यात्मना विश्वं त्रैलोक्यं या नियच्छति।

रुद्रादित्यादिरूपस्था सा मां पातु सरस्वती॥६॥


या प्रत्यग्दृष्टिभिर्जीवैर्व्यजमानानुभूयते

व्यापिनी ज्ञप्तिरूपैका सा मां पातु सरस्वती॥७॥


नामजात्यादिभिर्भेदैरष्टधा या विकल्पिता।

निर्विकल्पात्मना व्यक्ता सा मां पातु सरस्वती॥८॥


व्यक्ताव्यक्तगिरः सर्वे वेदाद्या व्याहरन्ति याम्।

सर्वकामदुघा धेनुः सा मां पातु सरस्वती॥९॥


यां विदित्वाखिलं बन्धं निर्मथ्याखिलवर्त्मना।

योगी याति परं स्थानं सा मां पातु सरस्वती॥१०॥


नामरूपात्मकं सर्वं यस्यामावेश्य तां पुनः।

ध्यायन्ति ब्रह्मरूपैका सा मां पातु सरस्वती॥११॥


चतुर्मुखमुखाम्भोजवनहंसवधूर्मम।

मानसे रमतां नित्यं सर्वशुक्ला सरस्वती॥१२॥


नमस्ते शारदे देवि काश्मीरपुरवासिनि।

त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥१३॥


अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी।

मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा॥१४॥


कम्बुकण्ठी सुताम्रोष्ठी सर्वाभरणभूषिता।

महासरस्वती देवी जिह्वाग्रे सन्निवेश्यताम्॥१५॥


या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा।

भक्तजिह्वाग्रसदना शमादिगुणदायिनी ॥१६॥


नमामि यामिनीनाथलेखालंकृतकुन्तलां।

भवानीं भवसन्तापनिर्वापणसुधानदीम्॥१७॥


यः कवित्वं निरातन्कं भुक्तिमुक्ती च वाञ्छति।

सोऽभ्यर्च्यैनां दशश्लोक्या नित्यं स्तौति सरस्वतीम्॥१८॥


तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीं।

भक्तिश्रद्धाभियुक्तस्य षण्मासात्प्रत्ययो भवेत् ॥१९॥


ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा।

गद्यपद्यात्मकैः शब्दैरप्रमेयैर्विवक्षितैः॥


अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः॥२०॥
ब्रह्मा कृत सरस्वती स्तोत्र || 


ऊँ अस्य श्रीसरस्वतीस्तोत्रमन्त्रस्य ब्रह्मा ऋषिः।

गायत्री छन्दः।

श्रीसरस्वती देवता।

धर्मार्थकाममोक्षार्थे जपे विनियोगः

आरूढा श्वेतहंसे भ्रमति च गगने दक्षिणे चाक्षसूत्रं,

वामे हस्ते च दिव्याम्बरकनकमयं पुस्तकं ज्ञानगम्या।


सा वीणां वादयन्ती स्वकरकरजपैः शास्त्रविज्ञानशब्दैः,

क्रीडन्ती दिव्यरूपा करकमलधरा भारती सुप्रसन्ना॥१॥

श्वेतपद्मासना देवी श्वेतगन्धानुलेपना।


अर्चिता मुनिभिः सर्वैः ऋषिभिः स्तूयते सदा।

एवं ध्यात्वा सदा देवीं वाञ्छितं लभते नरः ॥२॥


शुक्लां ब्रह्मविचारसारपरमामाद्यां जगद्व्यापिनीं,

वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम्।


हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां,

वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥३॥


या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता,

या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।


या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैः सदा वन्दिता,

सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा॥४॥



ह्रीं ह्रीं हृद्यैकबीजे शशिरुचिकमले कल्पविस्पष्टशोभे,

भव्ये भव्यानुकूले कुमतिवनदवे विश्ववन्द्याङ्घ्रिपद्मे।


पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसंपादयित्रि,

प्रोत्फुल्लज्ञानकूटे हरिनिजदयिते देवि संसारसारे॥५॥


ऐं ऐं ऐं इन्ष्टमन्त्रे कमलभवमुखाम्भोजभूतिस्वरूपे,

रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे।


न स्थूले नैव सूक्ष्मेऽप्यविदितविषये नापि विज्ञाततत्त्वे,

विश्वे विश्वान्तरात्मे सुरवरनमिते निष्कले नित्यशुद्धे ॥६॥


ह्रीं ह्रीं ह्रीं जाप्यतुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते,

मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्तां।


विद्यां वेदान्तवेद्यां परिणतपठिते मोक्षदे मुक्तिमार्गे,

मार्गातीतप्रभावे भव मम वरदा शारदे शुभ्रहारे ॥७॥


धीर्धीर्धीर्धारणाख्ये धृतिमतिनतिभिर्नामभिः कीर्तनीये,

नित्येऽनित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे।


पुण्ये पुण्यप्रवाहे हरिहरनमिते नित्यशुद्धे सुवर्णे,

मातर्मात्रार्धतत्त्वे मतिमतिमतिदे माधवप्रीतिमोदे॥८॥


ह्रूं ह्रूं ह्रूं स्वस्वरूपे दह दह दुरितं पुस्तकव्यग्रहस्ते,

सन्तुष्टाकारचित्ते स्मितमुखि सुभगे जृम्भिणि स्तम्भविद्ये।


मोहे मुग्धप्रभावे कुरु मम कुमतिध्वान्तविध्वंसमीड्ये,

गीर्गीर्वाग्भारती त्वं कविवररसनासिद्धिदे सिद्धसाध्ये ॥९॥


स्तौमि त्वां त्वां च वन्दे मम खलु रसनां मा कदाचित्त्यजेथा,

मा मे बुद्धिर्विरुद्धा भवतु न च मनो देवि मे यातु पापम्।


मा मे दुःखं कदाचित् क्वचिदपि विषयेऽप्यस्तु मे नाकुलत्वं,

शास्त्री वादे कवित्वे प्रसरतु मम धीर्मास्तु कुण्ठा कदापि ॥१०॥


इत्येतैः श्लोकमुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रो,

वाणी वाचस्पतेरप्यविदितविभवो वाक्पटुर्मुष्टकण्ठः।


स स्यादिष्टार्थलाभैः सुतमिव सततं पाति तं सा च देवी,

सौभाग्यं तस्य लोके प्रभवति कविता विघ्नमस्तं प्रयाति ॥११॥


निर्विघ्नं तस्य विद्या प्रभवति सततं चाश्रुतग्रन्थबोधः,

कीर्तिस्त्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात्।


दीर्घायुर्लोकपूज्यः सकलगुणनिधिः सन्ततं राजमान्यो,

वाग्देव्याः संप्रसादात् त्रिजगति विजयी जायते सत्सभासु॥१२॥
श्री सरस्वती स्तोत्र || 


श्वेतपद्मासना देवी श्वेतपुष्पोपशोभिता।

श्वेताम्बरधरा नित्या श्वेतगन्धानुलेपना॥१॥


श्वेताक्षसूत्रहस्ता च श्वेतचन्दनचर्चिता।

श्वेतवीणाधरा शुभ्रा श्वेतालङ्कारभूषिता ॥२॥


वन्दिता सिद्धगन्धर्वैरर्चिता सुरदानवैः।

पूजिता मुनिभिस्सर्वैः ऋषिभिः स्तूयते सदा॥३॥


स्तोत्रेणानेन तां देवीं जगद्धात्रीं सरस्वतीम्।

ये स्मरन्ति त्रिसन्ध्यायां सर्वां विद्यां लभन्ति ते ॥४॥

सरस्वती स्तोत्रम् ||


सरस्वतीं नमस्यामि चेतनानां हृदिस्थितां ।

कण्ठस्थां पद्मयोनेस्तु हिमाकरप्रियास्पदाम् ॥ १ ॥


मतिदां वरदां शुद्धां वीणाहस्तवरप्रदां ।

ऐं ऐं मन्त्रप्रियां ह्रीं ह्रां कुमतिध्वंसकारिणीम् ॥ २ ॥


सुप्रकाशां निरालम्बां अज्ञानतिमिरापहाम् ।

शुक्लां मोक्षप्रदां रम्यां शुभाङ्गां शोभनप्रदाम् ॥ ३ ॥


पद्मोपविष्टां कुण्डलिनीं शुक्लवर्णां मनोरमाम् ।

आदित्यमण्डले लीनां प्रणमामि हरिप्रियाम् ॥ ४ ॥


इति मासं स्तुतानेन वागीशेन महात्मना ।

आत्मानं दर्शयामास शरदिन्दुसमप्रभाम् ॥ ५ ॥


सरस्वत्युवाच वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ।

ब्रुहस्पतिः वरदा यदि मे देवि सम्यग्ज्ञानं प्रयच्छ मे ॥ ६ ॥
सरस्वती स्तोत्र ||


रविरुद्रपितामहविष्णुनुतं हरिचन्दनकुङ्कुमपङ्कयुतम्।

मुनिवृन्दगजेन्द्रसमानयुतं तव नौमि सरस्वति पादयुगम्॥१॥


शशिशुद्धसुधाहिमधामयुतं शरदम्बरबिम्बसमानकरम्।

बहुरत्नमनोहरकान्तियुतं तव नौमि सरस्वति पादयुगम्॥२॥


कनकाब्जविभूषितभूतिभवं भवभावविभाषितभिन्नपदम्।

प्रभुचित्तसमाहितसाधुपदं तव नौमि सरस्वति पादयुगम्॥३॥


भवसागरमज्जनभीतिनुतं प्रतिपादितसन्ततिकारमिदम्।

विमलादिकशुद्धविशुद्धपदं तव नौमि सरस्वति पादयुगम्॥४॥


मतिहीनजनाश्रयपादमिदं सकलागमभाषितभिन्नपदम्।

परिपूरितविश्वमनेकभवं तव नौमि सरस्वति पादयुगम्॥५॥


परिपूर्णमनोरथधामनिधिं परमार्थविचारविवेकविधिम्।

सुरयोषितसेवितपादतलं तव नौमि सरस्वति पादयुगम्॥६॥


सुरमौलिमणिद्युतिशुभ्रकरं विषयादिमहाभयवर्णहरम्।

निजकान्तिविलोपितचन्द्रशिवं तव नौमि सरस्वति पादयुगम्॥७॥


गुणनैककुलं स्थितिभीतपदं गुणगौरवगर्वितसत्यपदम्।

कमलोदरकोमलपादतलं तव नौमि सरस्वति पादयुगम्॥८॥

Monday, February 15, 2021

॥ श्रीसरस्वती अष्टोत्तरनामावली ॥

ॐ सरस्वत्यै नमः ।
ॐ महाभद्रायै नमः ।
ॐ महामायायै नमः ।
ॐ वरप्रदायै नमः ।
ॐ श्रीप्रदायै नमः ।
ॐ पद्मनिलयायै नमः ।
ॐ पद्माक्ष्यै नमः ।
ॐ पद्मवक्त्रायै नमः ।
ॐ शिवानुजायै नमः ।
ॐ पुस्तकभृते नमः॥ १० ॥

ॐ ज्ञानमुद्रायै नमः ।
ॐ रमायै नमः ।
ॐ परायै नमः ।
ॐ कामरूपायै नमः ।
ॐ महाविद्यायै नमः ।
ॐ महापातक नाशिन्यै नमः ।
ॐ महाश्रयायै नमः ।
ॐ मालिन्यै नमः ।
ॐ महाभोगायै नमः ।
ॐ महाभुजायै नमः॥ २० ॥

ॐ महाभागायै नमः ।
ॐ महोत्साहायै नमः ।
ॐ दिव्याङ्गायै नमः ।
ॐ सुरवन्दितायै नमः ।
ॐ महाकाल्यै नमः ।
ॐ महापाशायै नमः ।
ॐ महाकारायै नमः ।
ॐ महांकुशायै नमः ।
ॐ पीतायै नमः ।
ॐ विमलायै नमः॥ ३० ॥

ॐ विश्वायै नमः ।
ॐ विद्युन्मालायै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ चन्द्रिकायै नमः ।
ॐ चन्द्रवदनायै नमः ।
ॐ चन्द्रलेखाविभूषितायै नमः ।
ॐ सावित्र्यै नमः ।
ॐ सुरसायै नमः ।
ॐ देव्यै नमः ।
ॐ दिव्यालंकारभूषितायै नमः॥ ४० ॥

ॐ वाग्देव्यै नमः ।
ॐ वसुधायै नमः ।
ॐ तीव्रायै नमः ।
ॐ महाभद्रायै नमः ।
ॐ महाबलायै नमः ।
ॐ भोगदायै नमः ।
ॐ भारत्यै नमः ।
ॐ भामायै नमः ।
ॐ गोविन्दायै नमः ।
ॐ गोमत्यै नमः॥ ५० ॥

ॐ शिवायै नमः ।
ॐ जटिलायै नमः ।
ॐ विन्ध्यावासायै नमः ।
ॐ विन्ध्याचलविराजितायै नमः ।
ॐ चण्डिकायै नमः ।
ॐ वैष्णव्यै नमः ।
ॐ ब्राह्मयै नमः ।
ॐ ब्रह्मज्ञानैकसाधनायै नमः ।
ॐ सौदामिन्यै नमः ।
ॐ सुधामूर्त्यै नमः॥ ६० ॥

ॐ सुभद्रायै नमः ।
ॐ सुरपूजितायै नमः ।
ॐ सुवासिन्यै नमः ।
ॐ सुनासायै नमः ।
ॐ विनिद्रायै नमः ।
ॐ पद्मलोचनायै नमः ।
ॐ विद्यारूपायै नमः ।
ॐ विशालाक्ष्यै नमः ।
ॐ ब्रह्मजायायै नमः ।
ॐ महाफलायै नमः॥ ७० ॥

ॐ त्रयीमूर्त्यै नमः ।
ॐ त्रिकालज्ञायै नमः ।
ॐ त्रिगुणायै नमः ।
ॐ शास्त्ररूपिण्यै नमः ।
ॐ शुम्भासुरप्रमथिन्यै नमः ।
ॐ शुभदायै नमः ।
ॐ स्वरात्मिकायै नमः ।
ॐ रक्तबीजनिहन्त्र्यै नमः ।
ॐ चामुण्डायै नमः ।
ॐ अम्बिकायै नमः॥ ८० ॥

ॐ मुण्डकायप्रहरणायै नमः ।
ॐ धूम्रलोचनमर्दनायै नमः ।
ॐ सर्वदेवस्तुतायै नमः ।
ॐ सौम्यायै नमः ।
ॐ सुरासुर नमस्कृतायै नमः ।
ॐ कालरात्र्यै नमः ।
ॐ कलाधारायै नमः ।
ॐ रूपसौभाग्यदायिन्यै नमः ।
ॐ वाग्देव्यै नमः ।
ॐ वरारोहायै नमः॥ ९० ॥

ॐ वाराह्यै नमः ।
ॐ वारिजासनायै नमः ।
ॐ चित्राम्बरायै नमः ।
ॐ चित्रगन्धायै नमः ।
ॐ चित्रमाल्यविभूषितायै नमः ।
ॐ कान्तायै नमः ।
ॐ कामप्रदायै नमः ।
ॐ वन्द्यायै नमः ।
ॐ विद्याधरसुपूजितायै नमः ।
ॐ श्वेताननायै नमः॥ १०० ॥

ॐ नीलभुजायै नमः ।
ॐ चतुर्वर्गफलप्रदायै नमः ।
ॐ चतुरानन साम्राज्यायै नमः ।
ॐ रक्तमध्यायै नमः ।
ॐ निरंजनायै नमः ।
ॐ हंसासनायै नमः ।
ॐ नीलजङ्घायै नमः ।
ॐ ब्रह्मविष्णुशिवान्मिकायै नमः॥ १०८ ॥

॥ इति श्री सरस्वति अष्टोत्तरशत नामावलिः ॥
श्रीमहासरस्वतीसहस्रनामस्तोत्रम् ॥

ध्यानम्
श्रीमच्चन्दनचर्चितोज्ज्वलवपुः शुक्लाम्बरा मल्लिका-
मालालालित कुन्तला प्रविलसन्मुक्तावलीशोभना।
सर्वज्ञाननिधानपुस्तकधरा रुद्राक्षमालाङ्किता
वाग्देवी वदनाम्बुजे वसतु मे त्रैलोक्यमाता शुभा॥

श्रीनारद उवाच -
भगवन्परमेशान सर्वलोकैकनायक।
कथं सरस्वती साक्षात्प्रसन्ना परमेष्ठिनः॥ २॥

कथं देव्या महावाण्याः सतत्प्राप सुदुर्लभम्।
एतन्मे वद तत्वेन महायोगीश्वरप्रभो॥ ३॥

श्रीसनत्कुमार उवाच -
साधु पृष्टं त्वया ब्रह्मन् गुह्याद्गुह्य मनुत्तमम्।
भयानुगोपितं यत्नादिदानीं सत्प्रकाश्यते॥ ४॥

पुरा पितामहं दृष्ट्वा जगत्स्थावरजङ्गमम्।
निर्विकारं निराभासं स्तंभीभूतमचेतसम्॥ ५॥

सृष्ट्वा त्रैलोक्यमखिलं वागभावात्तथाविधम्।
आधिक्याभावतः स्वस्य परमेष्ठी जगद्गुरुः॥ ६॥

दिव्यवर्षायुतं तेन तपो दुष्कर मुत्तमम्।
ततः कदाचित्संजाता वाणी सर्वार्थशोभिता॥ ७॥

अहमस्मि महाविद्या सर्ववाचामधीश्वरी।
मम नाम्नां सहस्रं तु उपदेक्ष्याम्यनुत्तमम्॥ ८॥

अनेन संस्तुता नित्यं पत्नी तव भवाम्यहम्।
त्वया सृष्टं जगत्सर्वं वाणीयुक्तं भविष्यति॥ ९॥

इदं रहस्यं परमं मम नामसहस्रकम्।
सर्वपापौघशमनं महासारस्वतप्रदम्॥ १०॥

महाकवित्वदं लोके वागीशत्वप्रदायकम्।
त्वं वा परः पुमान्यस्तुस्तवेनानेन तोषयेत्॥ ११॥

तस्याहं किंकरी साक्षाद्भविष्यामि न संशयः।
इत्युक्त्वान्तर्दधे वाणी तदारभ्य पितामहः॥ १२॥

स्तुत्वा स्तोत्रेण दिव्येन तत्पतित्वमवाप्तवान्।
वाणीयुक्तं जगत्सर्वं तदारभ्याभवन्मुने॥ १३॥

तत्तेहं संप्रवक्ष्यामि शृणु यत्नेन नारद।
सावधानमना भूत्वा क्षणं शुद्धो मुनीश्वरः॥ १४॥

वाग्वाणी वरदा वन्द्या वरारोहा वरप्रदा।
वृत्तिर्वागीश्वरी वार्ता वरा वागीशवल्लभा॥ १॥

विश्वेश्वरी विश्ववन्द्या विश्वेशप्रियकारिणी।
वाग्वादिनी च वाग्देवी वृद्धिदा वृद्धिकारिणी॥ २॥

वृद्धिर्वृद्धा विषघ्नी च वृष्टिर्वृष्टिप्रदायिनी।
विश्वाराध्या विश्वमाता विश्वधात्री विनायका॥ ३॥

विश्वशक्तिर्विश्वसारा विश्वा विश्वविभावरी।
वेदान्तवेदिनी वेद्या वित्ता वेदत्रयात्मिका॥ ४॥

वेदज्ञा वेदजननी विश्वा विश्वविभावरी।
वरेण्या वाङ्मयी वृद्धा विशिष्टप्रियकारिणी॥ ५॥

विश्वतोवदना व्याप्ता व्यापिनी व्यापकात्मिका।
व्याळघ्नी व्याळभूषांगी विरजा वेदनायिका॥ ६॥

वेदवेदान्तसंवेद्या वेदान्तज्ञानरूपिणी।
विभावरी च विक्रान्ता विश्वामित्रा विधिप्रिया॥ ७॥

वरिष्ठा विप्रकृष्टा च विप्रवर्यप्रपूजिता।
वेदरूपा वेदमयी वेदमूर्तिश्च वल्लभा॥ ८॥

गौरी गुणवती गोप्या गन्धर्वनगरप्रिया।
गुणमाता गुहान्तस्था गुरुरूपा गुरुप्रिया॥ ९॥

गिरिविद्या गानतुष्टा गायकप्रियकारिणी।
गायत्री गिरिशाराध्या गीर्गिरीशप्रियंकरी॥ १०॥

गिरिज्ञा ज्ञानविद्या च गिरिरूपा गिरीश्वरी।
गीर्माता गणसंस्तुत्या गणनीयगुणान्विता॥ ११॥

गूढरूपा गुहा गोप्या गोरूपा गौर्गुणात्मिका।
गुर्वी गुर्वम्बिका गुह्या गेयजा गृहनाशिनी॥ १२॥

गृहिणी गृहदोषघ्नी गवघ्नी गुरुवत्सला।
गृहात्मिका गृहाराध्या गृहबाधाविनाशिनी॥ १३॥

गङ्गा गिरिसुता गम्या गजयाना गुहस्तुता।
गरुडासनसंसेव्या गोमती गुणशालिनी॥ १४॥

शारदा शाश्वती शैवी शांकरी शंकरात्मिका।
श्रीः शर्वाणी शतघ्नी च शरच्चन्द्रनिभानना॥ १५॥

शर्मिष्ठा शमनघ्नी च शतसाहस्ररूपिणी।
शिवा शम्भुप्रिया श्रद्धा श्रुतिरूपा श्रुतिप्रिया॥ १६॥

शुचिष्मती शर्मकरी शुद्धिदा शुद्धिरूपिणी।
शिवा शिवंकरी शुद्धा शिवाराध्या शिवात्मिका॥ १७॥

श्रीमती श्रीमयी श्राव्या श्रुतिः श्रवणगोचरा।
शान्तिः शान्तिकरी शान्ता शान्ताचारप्रियंकरी॥ १८॥

शीललभ्या शीलवती श्रीमाता शुभकारिणी।
शुभवाणी शुद्धविद्या शुद्धचित्तप्रपूजिता॥ १९॥

श्रीकरी श्रुतपापघ्नी शुभाक्षी शुचिवल्लभा।
शिवेतरघ्नी शबरी श्रवणीयगुणान्विता॥ २०॥

शारी शिरीषपुष्पाभा शमनिष्ठा शमात्मिका।
शमान्विता शमाराध्या शितिकण्ठप्रपूजिता॥ २१॥

शुद्धिः शुद्धिकरी श्रेष्ठा श्रुतानन्ता शुभावहा।
सरस्वती च सर्वज्ञा सर्वसिद्धिप्रदायिनी॥ २२॥

सरस्वती च सावित्री संध्या सर्वेप्सितप्रदा।
सर्वार्तिघ्नी सर्वमयी सर्वविद्याप्रदायिनी॥ २३॥

सर्वेश्वरी सर्वपुण्या सर्गस्थित्यन्तकारिणी।
सर्वाराध्या सर्वमाता सर्वदेवनिषेविता॥ २४॥

सर्वैश्वर्यप्रदा सत्या सती सत्वगुणाश्रया।
स्वरक्रमपदाकारा सर्वदोषनिषूदिनी॥ २५॥

सहस्राक्षी सहस्रास्या सहस्रपदसंयुता।
सहस्रहस्ता साहस्रगुणालंकृतविग्रहा॥ २६॥

सहस्रशीर्षा सद्रूपा स्वधा स्वाहा सुधामयी।
षड्ग्रन्थिभेदिनी सेव्या सर्वलोकैकपूजिता॥ २७॥

स्तुत्या स्तुतिमयी साध्या सवितृप्रियकारिणी।
संशयच्छेदिनी सांख्यवेद्या संख्या सदीश्वरी॥ २८॥

सिद्धिदा सिद्धसम्पूज्या सर्वसिद्धिप्रदायिनी।
सर्वज्ञा सर्वशक्तिश्च सर्वसम्पत्प्रदायिनी॥ २९॥

सर्वाशुभघ्नी सुखदा सुखा संवित्स्वरूपिणी।
सर्वसम्भीषणी सर्वजगत्सम्मोहिनी तथा॥ ३०॥

सर्वप्रियंकरी सर्वशुभदा सर्वमङ्गळा।
सर्वमन्त्रमयी सर्वतीर्थपुण्यफलप्रदा॥ ३१॥

सर्वपुण्यमयी सर्वव्याधिघ्नी सर्वकामदा।
सर्वविघ्नहरी सर्ववन्दिता सर्वमङ्गळा॥ ३२॥

सर्वमन्त्रकरी सर्वलक्ष्मीः सर्वगुणान्विता।
सर्वानन्दमयी सर्वज्ञानदा सत्यनायिका॥ ३३॥

सर्वज्ञानमयी सर्वराज्यदा सर्वमुक्तिदा।
सुप्रभा सर्वदा सर्वा सर्वलोकवशंकरी॥ ३४॥

सुभगा सुन्दरी सिद्धा सिद्धाम्बा सिद्धमातृका।
सिद्धमाता सिद्धविद्या सिद्धेशी सिद्धरूपिणी॥ ३५॥

सुरूपिणी सुखमयी सेवकप्रियकारिणी।
स्वामिनी सर्वदा सेव्या स्थूलसूक्ष्मापराम्बिका॥ ३६॥

साररूपा सरोरूपा सत्यभूता समाश्रया।
सितासिता सरोजाक्षी सरोजासनवल्लभा॥ ३७॥

सरोरुहाभा सर्वाङ्गी सुरेन्द्रादिप्रपूजिता।
महादेवी महेशानी महासारस्वतप्रदा॥ ३८॥

महासरस्वती मुक्ता मुक्तिदा मलनाशिनी।
महेश्वरी महानन्दा महामन्त्रमयी मही॥ ३९॥

महालक्ष्मीर्महाविद्या माता मन्दरवासिनी।
मन्त्रगम्या मन्त्रमाता महामन्त्रफलप्रदा॥ ४०॥

महामुक्तिर्महानित्या महासिद्धिप्रदायिनी।
महासिद्धा महामाता महदाकारसंयुता॥ ४१॥

महा महेश्वरी मूर्तिर्मोक्षदा मणिभूषणा।
मेनका मानिनी मान्या मृत्युघ्नी मेरुरूपिणी॥ ४२॥

मदिराक्षी मदावासा मखरूपा मखेश्वरी।
महामोहा महामाया मातॄणां मूर्ध्निसंस्थिता॥ ४३॥

महापुण्या मुदावासा महासम्पत्प्रदायिनी।
मणिपूरैकनिलया मधुरूपा महोत्कटा॥ ४४॥

महासूक्ष्मा महाशान्ता महाशान्तिप्रदायिनी।
मुनिस्तुता मोहहन्त्री माधवी माधवप्रिया॥ ४५॥

मा महादेवसंस्तुत्या महिषीगणपूजिता।
मृष्टान्नदा च माहेन्द्री महेन्द्रपददायिनी॥ ४६॥

मतिर्मतिप्रदा मेधा मर्त्यलोकनिवासिनी।
मुख्या महानिवासा च महाभाग्यजनाश्रिता॥ ४७॥

महिळा महिमा मृत्युहारी मेधाप्रदायिनी।
मेध्या महावेगवती महामोक्षफलप्रदा॥ ४८॥

महाप्रभाभा महती महादेवप्रियंकरी।
महापोषा महर्द्धिश्च मुक्ताहारविभूषणा॥ ४९॥

माणिक्यभूषणा मन्त्रा मुख्यचन्द्रार्धशेखरा।
मनोरूपा मनःशुद्धिः मनःशुद्धिप्रदायिनी॥ ५०॥

महाकारुण्यसम्पूर्णा मनोनमनवन्दिता।
महापातकजालघ्नी मुक्तिदा मुक्तभूषणा॥ ५१॥

मनोन्मनी महास्थूला महाक्रतुफलप्रदा।
महापुण्यफलप्राप्या मायात्रिपुरनाशिनी॥ ५२॥

महानसा महामेधा महामोदा महेश्वरी।
मालाधरी महोपाया महातीर्थफलप्रदा॥ ५३॥

महामङ्गळसम्पूर्णा महादारिद्र्यनाशिनी।
महामखा महामेघा महाकाळी महाप्रिया॥ ५४॥

महाभूषा महादेहा महाराज्ञी मुदालया।
भूरिदा भाग्यदा भोग्या भोग्यदा भोगदायिनी॥ ५५॥

भवानी भूतिदा भूतिः भूमिर्भूमिसुनायिका।
भूतधात्री भयहरी भक्तसारस्वतप्रदा॥ ५६॥

भुक्तिर्भुक्तिप्रदा भेकी भक्तिर्भक्तिप्रदायिनी।
भक्तसायुज्यदा भक्तस्वर्गदा भक्तराज्यदा॥ ५७॥

भागीरथी भवाराध्या भाग्यासज्जनपूजिता।
भवस्तुत्या भानुमती भवसागरतारणी॥ ५८॥

भूतिर्भूषा च भूतेशी फाललोचनपूजिता।
भूता भव्या भविष्या च भवविद्या भवात्मिका॥ ५९॥

बाधापहारिणी बन्धुरूपा भुवनपूजिता।
भवघ्नी भक्तिलभ्या च भक्तरक्षणतत्परा॥ ६०॥

भक्तार्तिशमनी भाग्या भोगदानकृतोद्यमा।
भुजङ्गभूषणा भीमा भीमाक्षी भीमरूपिणी॥ ६१॥

भाविनी भ्रातृरूपा च भारती भवनायिका।
भाषा भाषावती भीष्मा भैरवी भैरवप्रिया॥ ६२॥

भूतिर्भासितसर्वाङ्गी भूतिदा भूतिनायिका।
भास्वती भगमाला च भिक्षादानकृतोद्यमा॥ ६३॥

भिक्षुरूपा भक्तिकरी भक्तलक्ष्मीप्रदायिनी।
भ्रान्तिघ्ना भ्रान्तिरूपा च भूतिदा भूतिकारिणी॥ ६४॥

भिक्षणीया भिक्षुमाता भाग्यवद्दृष्टिगोचरा।
भोगवती भोगरूपा भोगमोक्षफलप्रदा॥ ६५॥

भोगश्रान्ता भाग्यवती भक्ताघौघविनाशिनी।
ब्राह्मी ब्रह्मस्वरूपा च बृहती ब्रह्मवल्लभा॥ ६६॥

ब्रह्मदा ब्रह्ममाता च ब्रह्माणी ब्रह्मदायिनी।
ब्रह्मेशी ब्रह्मसंस्तुत्या ब्रह्मवेद्या बुधप्रिया॥ ६७॥

बालेन्दुशेखरा बाला बलिपूजाकरप्रिया।
बलदा बिन्दुरूपा च बालसूर्यसमप्रभा॥ ६८॥

ब्रह्मरूपा ब्रह्ममयी ब्रध्नमण्डलमध्यगा।
ब्रह्माणी बुद्धिदा बुद्धिर्बुद्धिरूपा बुधेश्वरी॥ ६९॥

बन्धक्षयकरी बाधनाशनी बन्धुरूपिणी।
बिन्द्वालया बिन्दुभूषा बिन्दुनादसमन्विता॥ ७०॥

बीजरूपा बीजमाता ब्रह्मण्या ब्रह्मकारिणी।
बहुरूपा बलवती ब्रह्मजा ब्रह्मचारिणी॥ ७१॥

ब्रह्मस्तुत्या ब्रह्मविद्या ब्रह्माण्डाधिपवल्लभा।
ब्रह्मेशविष्णुरूपा च ब्रह्मविष्ण्वीशसंस्थिता॥ ७२॥

बुद्धिरूपा बुधेशानी बन्धी बन्धविमोचनी।
अक्षमालाक्षराकाराक्षराक्षरफलप्रदा॥ ७३॥

अनन्तानन्दसुखदानन्तचन्द्रनिभानना।
अनन्तमहिमाघोरानन्तगम्भीरसम्मिता॥ ७४॥

अदृष्टादृष्टदानन्तादृष्टभाग्यफलप्रदा।
अरुन्धत्यव्ययीनाथानेकसद्गुणसंयुता॥ ७५॥

अनेकभूषणादृश्यानेकलेखनिषेविता।
अनन्तानन्तसुखदाघोराघोरस्वरूपिणी॥ ७६॥

अशेषदेवतारूपामृतरूपामृतेश्वरी।
अनवद्यानेकहस्तानेकमाणिक्यभूषणा॥ ७७॥

अनेकविघ्नसंहर्त्री ह्यनेकाभरणान्विता।
अविद्याज्ञानसंहर्त्री ह्यविद्याजालनाशिनी॥ ७८॥

अभिरूपानवद्याङ्गी ह्यप्रतर्क्यगतिप्रदा।
अकळंकारूपिणी च ह्यनुग्रहपरायणा॥ ७९॥

अम्बरस्थाम्बरमयाम्बरमालाम्बुजेक्षणा।
अम्बिकाब्जकराब्जस्थांशुमत्यंशुशतान्विता॥ ८०॥

अम्बुजानवराखण्डाम्बुजासनमहाप्रिया।
अजरामरसंसेव्याजरसेवितपद्युगा॥ ८१॥

अतुलार्थप्रदार्थैक्यात्युदारात्वभयान्विता।
अनाथवत्सलानन्तप्रियानन्तेप्सितप्रदा॥ ८२॥

अम्बुजाक्ष्यम्बुरूपाम्बुजातोद्भवमहाप्रिया।
अखण्डात्वमरस्तुत्यामरनायकपूजिता॥ ८३॥

अजेयात्वजसंकाशाज्ञाननाशिन्यभीष्टदा।
अक्ताघनेना चास्त्रेशी ह्यलक्ष्मीनाशिनी तथा॥ ८४॥

अनन्तसारानन्तश्रीरनन्तविधिपूजिता।
अभीष्टामर्त्यसम्पूज्या ह्यस्तोदयविवर्जिता॥ ८५॥

आस्तिकस्वान्तनिलयास्त्ररूपास्त्रवती तथा।
अस्खलत्यस्खलद्रूपास्खलद्विद्याप्रदायिनी॥ ८६॥

अस्खलत्सिद्धिदानन्दाम्बुजातामरनायिका।
अमेयाशेषपापघ्न्यक्षयसारस्वतप्रदा॥ ८७॥

जया जयन्ती जयदा जन्मकर्मविवर्जिता।
जगत्प्रिया जगन्माता जगदीश्वरवल्लभा॥ ८८॥

जातिर्जया जितामित्रा जप्या जपनकारिणी।
जीवनी जीवनिलया जीवाख्या जीवधारिणी॥ ८९॥

जाह्नवी ज्या जपवती जातिरूपा जयप्रदा।
जनार्दनप्रियकरी जोषनीया जगत्स्थिता॥ ९०॥

जगज्ज्येष्ठा जगन्माया जीवनत्राणकारिणी।
जीवातुलतिका जीवजन्मी जन्मनिबर्हणी॥ ९१॥

जाड्यविध्वंसनकरी जगद्योनिर्जयात्मिका।
जगदानन्दजननी जम्बूश्च जलजेक्षणा॥ ९२॥

जयन्ती जङ्गपूगघ्नी जनितज्ञानविग्रहा।
जटा जटावती जप्या जपकर्तृप्रियंकरी॥ ९३॥

जपकृत्पापसंहर्त्री जपकृत्फलदायिनी।
जपापुष्पसमप्रख्या जपाकुसुमधारिणी॥ ९४॥

जननी जन्मरहिता ज्योतिर्वृत्यभिदायिनी।
जटाजूटनचन्द्रार्धा जगत्सृष्टिकरी तथा॥ ९५॥

जगत्त्राणकरी जाड्यध्वंसकर्त्री जयेश्वरी।
जगद्बीजा जयावासा जन्मभूर्जन्मनाशिनी॥ ९६॥

जन्मान्त्यरहिता जैत्री जगद्योनिर्जपात्मिका।
जयलक्षणसम्पूर्णा जयदानकृतोद्यमा॥ ९७॥

जम्भराद्यादिसंस्तुत्या जम्भारिफलदायिनी।
जगत्त्रयहिता ज्येष्ठा जगत्त्रयवशंकरी॥ ९८॥

जगत्त्रयाम्बा जगती ज्वाला ज्वालितलोचना।
ज्वालिनी ज्वलनाभासा ज्वलन्ती ज्वलनात्मिका॥ ९९॥

जितारातिसुरस्तुत्या जितक्रोधा जितेन्द्रिया।
जरामरणशून्या च जनित्री जन्मनाशिनी॥ १००॥

जलजाभा जलमयी जलजासनवल्लभा।
जलजस्था जपाराध्या जनमङ्गळकारिणी॥ १०१॥

कामिनी कामरूपा च काम्या कामप्रदायिनी।
कमौळी कामदा कर्त्री क्रतुकर्मफलप्रदा॥ १०२॥

कृतघ्नघ्नी क्रियारूपा कार्यकारणरूपिणी।
कञ्जाक्षी करुणारूपा केवलामरसेविता॥ १०३॥

कल्याणकारिणी कान्ता कान्तिदा कान्तिरूपिणी।
कमला कमलावासा कमलोत्पलमालिनी॥ १०४॥

कुमुद्वती च कल्याणी कान्तिः कामेशवल्लभा।
कामेश्वरी कमलिनी कामदा कामबन्धिनी॥ १०५॥

कामधेनुः काञ्चनाक्षी काञ्चनाभा कळानिधिः।
क्रिया कीर्तिकरी कीर्तिः क्रतुश्रेष्ठा कृतेश्वरी॥ १०६॥

क्रतुसर्वक्रियास्तुत्या क्रतुकृत्प्रियकारिणी।
क्लेशनाशकरी कर्त्री कर्मदा कर्मबन्धिनी॥ १०७॥

कर्मबन्धहरी कृष्टा क्लमघ्नी कञ्जलोचना।
कन्दर्पजननी कान्ता करुणा करुणावती॥ १०८॥

क्लींकारिणी कृपाकारा कृपासिन्धुः कृपावती।
करुणार्द्रा कीर्तिकरी कल्मषघ्नी क्रियाकरी॥ १०९॥

क्रियाशक्तिः कामरूपा कमलोत्पलगन्धिनी।
कळा कळावती कूर्मी कूटस्था कञ्जसंस्थिता॥ ११०॥

काळिका कल्मषघ्नी च कमनीयजटान्विता।
करपद्मा कराभीष्टप्रदा क्रतुफलप्रदा॥ १११॥

कौशिकी कोशदा काव्या कर्त्री कोशेश्वरी कृशा।
कूर्मयाना कल्पलता कालकूटविनाशिनी॥ ११२॥

कल्पोद्यानवती कल्पवनस्था कल्पकारिणी।
कदम्बकुसुमाभासा कदम्बकुसुमप्रिया॥ ११३॥

कदम्बोद्यानमध्यस्था कीर्तिदा कीर्तिभूषणा।
कुलमाता कुलावासा कुलाचारप्रियंकरी॥ ११४॥

कुलानाथा कामकळा कळानाथा कळेश्वरी।
कुन्दमन्दारपुष्पाभा कपर्दस्थितचन्द्रिका॥ ११५॥

कवित्वदा काव्यमाता कविमाता कळाप्रदा।
तरुणी तरुणीताता ताराधिपसमानना॥ ११६॥

तृप्तिस्तृप्तिप्रदा तर्क्या तपनी तापिनी तथा।
तर्पणी तीर्थरूपा च त्रिदशा त्रिदशेश्वरी॥ ११७॥

त्रिदिवेशी त्रिजननी त्रिमाता त्र्यम्बकेश्वरी।
त्रिपुरा त्रिपुरेशानी त्र्यम्बका त्रिपुराम्बिका॥ ११८॥

त्रिपुरश्रीस्त्रयीरूपा त्रयीवेद्या त्रयीश्वरी।
त्रय्यन्तवेदिनी ताम्रा तापत्रितयहारिणी॥ ११९॥

तमालसदृशी त्राता तरुणादित्यसन्निभा।
त्रैलोक्यव्यापिनी तृप्ता तृप्तिकृत्तत्वरूपिणी॥ १२०॥

तुर्या त्रैलोक्यसंस्तुत्या त्रिगुणा त्रिगुणेश्वरी।
त्रिपुरघ्नी त्रिमाता च त्र्यम्बका त्रिगुणान्विता॥ १२१॥

तृष्णाच्छेदकरी तृप्ता तीक्ष्णा तीक्ष्णस्वरूपिणी।
तुला तुलादिरहिता तत्तद्ब्रह्मस्वरूपिणी॥ १२२॥

त्राणकर्त्री त्रिपापघ्नी त्रिपदा त्रिदशान्विता।
तथ्या त्रिशक्तिस्त्रिपदा तुर्या त्रैलोक्यसुन्दरी॥ १२३॥

तेजस्करी त्रिमूर्त्याद्या तेजोरूपा त्रिधामता।
त्रिचक्रकर्त्री त्रिभगा तुर्यातीतफलप्रदा॥ १२४॥

तेजस्विनी तापहारी तापोपप्लवनाशिनी।
तेजोगर्भा तपःसारा त्रिपुरारिप्रियंकरी॥ १२५॥

तन्वी तापससंतुष्टा तपनाङ्गजभीतिनुत्।
त्रिलोचना त्रिमार्गा च तृतीया त्रिदशस्तुता॥ १२६॥

त्रिसुन्दरी त्रिपथगा तुरीयपददायिनी।
शुभा शुभावती शान्ता शान्तिदा शुभदायिनी॥ १२७॥

शीतळा शूलिनी शीता श्रीमती च शुभान्विता।
योगसिद्धिप्रदा योग्या यज्ञेनपरिपूरिता॥ १२८॥

यज्या यज्ञमयी यक्षी यक्षिणी यक्षिवल्लभा।
यज्ञप्रिया यज्ञपूज्या यज्ञतुष्टा यमस्तुता॥ १२९॥

यामिनीयप्रभा याम्या यजनीया यशस्करी।
यज्ञकर्त्री यज्ञरूपा यशोदा यज्ञसंस्तुता॥ १३०॥

यज्ञेशी यज्ञफलदा योगयोनिर्यजुस्तुता।
यमिसेव्या यमाराध्या यमिपूज्या यमीश्वरी॥ १३१॥

योगिनी योगरूपा च योगकर्तृप्रियंकरी।
योगयुक्ता योगमयी योगयोगीश्वराम्बिका॥ १३२॥

योगज्ञानमयी योनिर्यमाद्यष्टाङ्गयोगता।
यन्त्रिताघौघसंहारा यमलोकनिवारिणी॥ १३३॥

यष्टिव्यष्टीशसंस्तुत्या यमाद्यष्टाङ्गयोगयुक्।
योगीश्वरी योगमाता योगसिद्धा च योगदा॥ १३४॥

योगारूढा योगमयी योगरूपा यवीयसी।
यन्त्ररूपा च यन्त्रस्था यन्त्रपूज्या च यन्त्रिता॥ १३५॥

युगकर्त्री युगमयी युगधर्मविवर्जिता।
यमुना यमिनी याम्या यमुनाजलमध्यगा॥ १३६॥

यातायातप्रशमनी यातनानान्निकृन्तनी।
योगावासा योगिवन्द्या यत्तच्छब्दस्वरूपिणी॥ १३७॥

योगक्षेममयी यन्त्रा यावदक्षरमातृका।
यावत्पदमयी यावच्छब्दरूपा यथेश्वरी॥ १३८॥

यत्तदीया यक्षवन्द्या यद्विद्या यतिसंस्तुता।
यावद्विद्यामयी यावद्विद्याबृन्दसुवन्दिता॥ १३९॥

योगिहृत्पद्मनिलया योगिवर्यप्रियंकरी।
योगिवन्द्या योगिमाता योगीशफलदायिनी॥ १४०॥

यक्षवन्द्या यक्षपूज्या यक्षराजसुपूजिता।
यज्ञरूपा यज्ञतुष्टा यायजूकस्वरूपिणी॥ १४१॥

यन्त्राराध्या यन्त्रमध्या यन्त्रकर्तृप्रियंकरी।
यन्त्रारूढा यन्त्रपूज्या योगिध्यानपरायणा॥ १४२॥

यजनीया यमस्तुत्या योगयुक्ता यशस्करी।
योगबद्धा यतिस्तुत्या योगज्ञा योगनायकी॥ १४३॥

योगिज्ञानप्रदा यक्षी यमबाधाविनाशिनी।
योगिकाम्यप्रदात्री च योगिमोक्षप्रदायिनी॥ १४४॥

इति नाम्नां सरस्वत्याः सहस्रं समुदीरितम्।
मन्त्रात्मकं महागोप्यं महासारस्वतप्रदम्॥ १॥

यः पठेच्छृणुयाद्भक्त्या त्रिकालं साधकः पुमान्।
सर्वविद्यानिधिः साक्षात् स एव भवति ध्रुवम्॥ २॥

लभते संपदः सर्वाः पुत्रपौत्रादिसंयुताः।
मूकोपि सर्वविद्यासु चतुर्मुख इवापरः॥ ३॥

भूत्वा प्राप्नोति सान्निध्यं अन्ते धातुर्मुनीश्वर।
सर्वमन्त्रमयं सर्वविद्यामानफलप्रदम्॥ ४॥

महाकवित्वदं पुंसां महासिद्धिप्रदायकम्।
कस्मैचिन्न प्रदातव्यं प्राणैः कण्ठगतैरपि॥ ५॥

महारहस्यं सततं वाणीनामसहस्रकम्।
सुसिद्धमस्मदादीनां स्तोत्रं ते समुदीरितम्॥ ६॥

॥ इति श्रीस्कान्दपुराणान्तर्गत
सनत्कुमार संहितायां नारद सनत्कुमार संवादे
सरस्वतीसहस्रनामस्तोत्रम् सम्पूर्णम्॥

आरती: माँ सरस्वती 

आरती करूं सरस्वती मातु, हमारी हो भव भय हारी हो।
हंस वाहन पदमासन तेरा, शुभ्र वस्त्र अनुपम है तेरा।।

रावण का मन कैसे फेरा, वर मांगत बन गया सवेरा।
यह सब कृपा तिहारी, उपकारी हो मातु हमारी हो।।

तमोज्ञान नाशक तुम रवि हो, हम अम्बुजन विकास करती हो।
मंगल भवन मातु सरस्वती हो, बहुमूकन वाचाल करती हो।

विद्या देने वाली वीणा, धारी हो मातु हमारी।
तुम्हारी कृपा गणनायक, लायक विष्णु भये जग के पालक।

अम्बा कहायी सृष्टि ही कारण, भये शम्भु संसार ही घालक।
बन्दों आदि भवानी जग, सुखकारी हो मातु हमारी।

सदबुद्धि विद्याबल मोही दीजै, तुम अज्ञान हटा रख लीजै।
जन्मभूमि हित अर्पण कीजै, कर्मवीर भस्महिं कर दीजै।।

ऐसी विनय हमारी भवभय हरी, मातु हमरी हो, आरती करूँ सरस्वती मातु।।

आरती: माँ सरस्वती जी


जय सरस्वती माता, मैया जय सरस्वती माता।
सदगुण वैभव शालिनी, त्रिभुवन विख्याता॥
॥ जय सरस्वती माता...॥


चन्द्रवदनि पद्मासिनि, द्युति मंगलकारी।
सोहे शुभ हंस सवारी, अतुल तेजधारी॥
॥ जय सरस्वती माता...॥

बाएं कर में वीणा, दाएं कर माला।
शीश मुकुट मणि सोहे, गल मोतियन माला॥
॥ जय सरस्वती माता...॥

देवी शरण जो आए, उनका उद्धार किया।
पैठी मंथरा दासी, रावण संहार किया॥
॥ जय सरस्वती माता...॥

विद्या ज्ञान प्रदायिनि, ज्ञान प्रकाश भरो।
मोह अज्ञान और तिमिर का, जग से नाश करो॥
॥ जय सरस्वती माता...॥

धूप दीप फल मेवा, माँ स्वीकार करो।
ज्ञानचक्षु दे माता, जग निस्तार करो॥
॥ जय सरस्वती माता...॥

माँ सरस्वती की आरती, जो कोई जन गावे।
हितकारी सुखकारी, ज्ञान भक्ति पावे॥
॥ जय सरस्वती माता...॥

जय सरस्वती माता, जय जय सरस्वती माता।
सदगुण वैभव शालिनी, त्रिभुवन विख्याता॥

ॐ ।। श्री सरस्वती चालीसा ।


॥दोहा॥

जनक जननि पद्मरज, निज मस्तक पर धरि।
बन्दौं मातु सरस्वती, बुद्धि बल दे दातारि॥
पूर्ण जगत में व्याप्त तव, महिमा अमित अनंतु।
दुष्जनों के पाप को, मातु तु ही अब हन्तु॥

॥चालीसा॥


जय श्री सकल बुद्धि बलरासी।जय सर्वज्ञ अमर अविनाशी॥
जय जय जय वीणाकर धारी।करती सदा सुहंस सवारी॥1

रूप चतुर्भुज धारी माता।सकल विश्व अन्दर विख्याता॥
जग में पाप बुद्धि जब होती।तब ही धर्म की फीकी ज्योति॥2

तब ही मातु का निज अवतारी।पाप हीन करती महतारी॥
वाल्मीकिजी थे हत्यारा।तव प्रसाद जानै संसारा॥3

रामचरित जो रचे बनाई।आदि कवि की पदवी पाई॥
कालिदास जो भये विख्याता।तेरी कृपा दृष्टि से माता॥4

तुलसी सूर आदि विद्वाना।भये और जो ज्ञानी नाना॥
तिन्ह न और रहेउ अवलम्बा।केव कृपा आपकी अम्बा॥5

करहु कृपा सोइ मातु भवानी।दुखित दीन निज दासहि जानी॥
पुत्र करहिं अपराध बहूता।तेहि न धरई चित माता॥6

राखु लाज जननि अब मेरी।विनय करउं भांति बहु तेरी॥
मैं अनाथ तेरी अवलंबा।कृपा करउ जय जय जगदंबा॥7

मधुकैटभ जो अति बलवाना।बाहुयुद्ध विष्णु से ठाना॥
समर हजार पाँच में घोरा।फिर भी मुख उनसे नहीं मोरा॥8

मातु सहाय कीन्ह तेहि काला।बुद्धि विपरीत भई खलहाला॥
तेहि ते मृत्यु भई खल केरी।पुरवहु मातु मनोरथ मेरी॥9

चंड मुण्ड जो थे विख्याता।क्षण महु संहारे उन माता॥
रक्त बीज से समरथ पापी।सुरमुनि हदय धरा सब काँपी॥10

काटेउ सिर जिमि कदली खम्बा।बारबार बिन वउं जगदंबा॥
जगप्रसिद्ध जो शुंभनिशुंभा।क्षण में बाँधे ताहि तू अम्बा॥11

भरतमातु बुद्धि फेरेऊ जाई।रामचन्द्र बनवास कराई॥
एहिविधि रावण वध तू कीन्हा।सुर नरमुनि सबको सुख दीन्हा॥12

को समरथ तव यश गुन गाना।निगम अनादि अनंत बखाना॥
विष्णु रुद्र जस कहिन मारी।जिनकी हो तुम रक्षाकारी॥13

रक्त दन्तिका और शताक्षी।नाम अपार है दानव भक्षी॥
दुर्गम काज धरा पर कीन्हा।दुर्गा नाम सकल जग लीन्हा॥14

दुर्ग आदि हरनी तू माता।कृपा करहु जब जब सुखदाता॥
नृप कोपित को मारन चाहे।कानन में घेरे मृग नाहे॥15

सागर मध्य पोत के भंजे।अति तूफान नहिं कोऊ संगे॥
भूत प्रेत बाधा या दुःख में।हो दरिद्र अथवा संकट में॥16

नाम जपे मंगल सब होई।संशय इसमें करई न कोई॥
पुत्रहीन जो आतुर भाई।सबै छांड़ि पूजें एहि भाई॥17

करै पाठ नित यह चालीसा।होय पुत्र सुन्दर गुण ईशा॥
धूपादिक नैवेद्य चढ़ावै।संकट रहित अवश्य हो जावै॥18

भक्ति मातु की करैं हमेशा। निकट न आवै ताहि कलेशा॥
बंदी पाठ करें सत बारा। बंदी पाश दूर हो सारा॥19

रामसागर बाँधि हेतु भवानी।कीजै कृपा दास निज जानी।20

॥दोहा॥

मातु सूर्य कान्ति तव, अन्धकार मम रूप।
डूबन से रक्षा करहु परूँ न मैं भव कूप॥
बलबुद्धि विद्या देहु मोहि, सुनहु सरस्वती मातु।
राम सागर अधम को आश्रय तू ही देदातु॥

सरस्वती भजन



सरस्वती वंदना

या कुन्देन्दुतुषारहारधवला
या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा
या श्वेतपद्मासना।
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥



 सरस्वती वंदना गीत

वर दे, वीणावादिनि वर दे !
प्रिय स्वतंत्र-रव अमृत-मंत्र नव
भारत में भर दे !

काट अंध-उर के बंधन-स्तर
बहा जननि, ज्योतिर्मय निर्झर;
कलुष-भेद-तम हर प्रकाश भर
जगमग जग कर दे !

नव गति, नव लय, ताल-छंद नव
नवल कंठ, नव जलद-मन्द्ररव;
नव नभ के नव विहग-वृंद को
नव पर, नव स्वर दे !
वर दे, वीणावादिनि वर दे।


माँ सरस्वती मुझको वरदान दो मुझको नवल उत्थान दो

माँ सरस्वती मुझको वरदान दो,
मुझको नवल उत्थान दो ||

माँ सरस्वती मुझको वरदान दो,माँ शरदे हंससिनी वागेश वीना वादिनी ,
मुझको अगम स्वर ज्ञान दो,
माँ सरस्वती मुझको वरदान दो,
मुझको नवल उत्थान दो ||

माँ सरस्वती मुझको वरदान दो,माँया मुझको ना तक सके,
मॅन मोह माया ना फस सके,
कर डोर सब अगयाँ दो,
माँ सरस्वती मुझको वरदान दो,
मुझको नवल उत्थान दो ||

माँ सरस्वती मुझको वरदान दो, निष्काम हो मनोकामना,
मेरी सफल हो साधना,
नयी गति नयी ताल हो,
माँ सरस्वती मुझको वरदान दो,
मुझको नवल उत्थान दो ||

माँ सरस्वती मुझको वरदान दो,हो सत्या जीवन सारथि,
तेरी करू नित्या आरती,
संवेधी सच समान हो,
माँ सरस्वती मुझको वरदान दो,
मुझको नवल उत्थान दो ||

माँ सरस्वती मुझको वरदान दो, मन बुद्धि हृदय पावतीत्र हो,
मेरा महान चरित्रा हो,
विद्या विनय बाल दान दो,
माँ सरस्वती मुझको वरदान दो,
मुझको नवल उत्थान दो ||

माँ सरस्वती मुझको वरदान दो,सौ वराश तक जीते रहे,
सच अमीया हम पीते रहे,
निज चरण में स्थान दो,
माँ सरस्वती मुझको वरदान दो,
मुझको नवल उत्थान दो ||

माँ सरस्वती मुझको वरदान दो,यह विश्वा ही परिवार हो,
सब के लिए समाँन प्यार हो,
आदेश लक्ष्या महान दो,
माँ सरस्वती मुझको वरदान दो,
मुझको नवल उत्थान दो ||

माँ सरस्वती मुझको वरदान दो,मुझको नवल उत्थान दो
माँ सरस्वती मुझको वरदान दो,
मुझको नवल उत्थान दो
माँ सरस्वती मुझको वरदान दो ||


: सुर की देवी सरस्वती माँ

सुर की देवी सरस्वती माँ, सुर की देवी सरस्वती माँ,
सुर की देवी सरस्वती माँ, सुर की देवी सरस्वती माँ,
सुर की देवी सरस्वती माँ, सुर की देवी सरस्वती माँ,
सुर की देवी सरस्वती माँ, सुर की देवी सरस्वती माँ,

सुर का गण सीखा दे माँ,
है अंधियारा इस हृदय में ,
सुर का दीप जला दे माँ
सुर की देवी सरस्वती माँ, सुर की देवी सरस्वती माँ,
सुर की देवी सरस्वती माँ, सुर की देवी सरस्वती माँ,

रीत ना जानू गीत ना जानू,
प्रीत मैं जानू चरणों की,
रीत ना जानू गीत ना जानू,
प्रीत मैं जानू चरणों की,

ज्ञानी नही अज्ञानी हु मैं ।
साची राह दिखा दे माँ,
है अंधियारा इस ह्रदय में,
सुर का दीप जला दे माँ,
सुर की देवी सरस्वती माँ, सुर की देवी सरस्वती माँ,
सुर की देवी सरस्वती माँ, सुर की देवी सरस्वती माँ,

पूजा वंदना अर्चना सब कुछ
शब्द सुमन अर्पण माता ,
पूजा वंदना अर्चना सब कुछ
शब्द सुमन अर्पण माता
पूजा वंदना अर्चना सब कुछ
शबाद सुमन अर्पण माता

सुर का गान सीखा दे माँ,
है अंधियारा इस ह्रदय में
सुर का दीप जला दे माँ
सुर की देवी सरस्वती माँ, सुर की देवी सरस्वती माँ,
सुर की देवी सरस्वती माँ, सुर की देवी सरस्वती माँ,


 जय जय जय माँता सरस्वती

जय जय जय माँता सरस्वती, जयसुबा दाइिनी वरदायिनी
हंस वाहिनी पद्मा आसाना माँता, वीना पुस्तक धारिणी
जय सुबा दाइिनी वरदायिनी…

तूही दुर्गा तूही काली, तूही माँता पार्वती
सकल जगत के पालन करनी, सकल जगत के पालन करनी, विद्या बुद्धि दाइिनी
जय सुबा दाइिनी वरदायिनी…
जय जय जय माँता सरस्वती, जय सुबा दाइिनी वरदायिनी

ब्रह्मा विष्णु महेश शेषा सब, तेरे ही गुणगान करे
हम सबका कल्याण करो माँ,हम सबका कल्याण करो माँ, विद्या बुद्धि दाइिनी
जय सुबा दाइिनी वरदायिनी…
जय जय जय माँता सरस्वती, जय सुबा दाइिनी वरदायिनी

जय जय जय माँता सरस्वती, जय सुबा दाइिनी वरदायिनी
हंस वाहिनी पद्मा आसाना माँता, वीना पुस्तक धारिणी
जय सुबा दाइिनी वरदायिनी…


 जय सरस्वती माँता

जय सरस्वती माँता मैया जय सरस्वती माँता |
सद्गुण वैभव शालिनी,त्रिभुवन विख्यात ||
जय सरस्वती माँता मैया जय सरस्वती माँता |
चंद्रवदनी पद्मासिनी,धुति मंगलकारी, मैया धुति मंगलकारी |
सोहे शुभ हंस सवारी अतुल तेजधारी ॥
जय सरस्वती माँता मैया जय सरस्वती माँता |

बाएँ कर मे विणा,दाएँ कर माँला, मैया दाएँ कर माँला |
शीश मुकुट मणि सोहे,गल मोतियन माँला ॥
जय सरस्वती माँता मैया जय सरस्वती माँता |

देवी शरण जो आए,उनका उद्धार किया, मैया उनका उद्धार किया |
पैठी मंथरा दासी,रावण संहार किया ॥
जय सरस्वती माँता मैया जय सरस्वती माँता |

विद्या ज्ञान प्रदायिनी ज्ञान प्रकाश भरो, मैया ज्ञान प्रकाश भरो |
मोह अज्ञान और तिमिर का जग से नाश करो ||
जय सरस्वती माँता मैया जय सरस्वती माँता |

धूप-दीप फल मेवा माँ स्वीकार करो , मैया माँ स्वीकार करो |
ज्ञानचक्षु दे माँता जग निस्तार करो ||
जय सरस्वती माँता मैया जय सरस्वती माँता |

माँ सरस्वती की आरती जो कोई जन गावे, मैया जो कोई जन गावे |
हितकारी सुख कारी ज्ञान भक्ति पावे ॥
जय सरस्वती माँता मैया जय सरस्वती माँता |

मेरे कंठ बसो महारानी।

जीवन का संगीत तुम्ही हो,
आशाओं का दीप तुम्ही हो।
शब्द सुधा से दामन भर दो,
मैं जाचक तू दानी ॥

लय और ताल का ज्ञान भी दे दो,
स्वर सरगम और तान भी दे दो ।
मेरे सीस पे हाथ धरो माँ,
सरस्वती कल्याणी ॥



: हे वीणा वादिनी सरस्वती, हंस वाहिनी

हे वीणा वादिनी सरस्वती
हंस वाहिनी सरस्वती
विद्या दायिनी सरस्वती
नारायणी नमोस्तुते ॥

हे वीणा वादिनी सरस्वती
हंस वाहिनी सरस्वती
विद्या दायिनी सरस्वती
नारायणी नमोस्तुते ॥

तू राह दिखाना माँत मेरी
साथ निभाना माँत मेरी
अँधियारा है अंतर मन
ज्योत जलना माँत मेरी

हे वीणा वादिनी सरस्वती
हंस वाहिनी सरस्वती
विद्या दायिनी सरस्वती
नारायणी नमोस्तुते ॥

मन में करुणा भर देती
निष्पाप ह्रदय तू कर देती
भक्ति से तुझे पूजे जो
सुबह आस तू मन में भर देती

हे वीणा वादिनी सरस्वती
हंस वाहिनी सरस्वती
विद्या दायिनी सरस्वती
नारायणी नमोस्तुते ॥

हे वीणा वादिनी सरस्वती
हंस वाहिनी सरस्वती
विद्या दायिनी सरस्वती
नारायणी नमोस्तुते ॥



हे हंसवाहिनी-ज्ञानदायिनी

अम्ब विमल मति दे। अम्ब विमल मति दे॥
जग सिरमौर बनाएं भारत,
वह बल विक्रम दे। वह बल विक्रम दे॥
हे हंसवाहिनी-ज्ञानदायिनी
अम्ब विमल मति दे। अम्ब विमल मति दे॥

साहस शील हृदय में भर दे,
जीवन त्याग-तपोमर कर दे,
संयम सत्य स्नेह का वर दे,
स्वाभिमान भर दे। स्वाभिमान भर दे॥1॥

हे हंसवाहिनी-ज्ञानदायिनी
अम्ब विमल मति दे। अम्ब विमल मति दे॥
लव, कुश, ध्रुव, प्रहलाद बनें हम,
मानवता का त्रास हरें हम,
सीता, सावित्री, दुर्गा मां,
फिर घर-घर भर दे। फिर घर-घर भर दे॥2॥

हे हंसवाहिनी-ज्ञानदायिनी
अम्ब विमल मति दे। अम्ब विमल मति दे॥


वीणावादिनी बुद्धि की दाता
वीणावादिनी, स्वरदायिनी माँ
नारायणी स्वर दो !

सिद्धि दायिनी वीणाधारिणी
कर करतब करि कारिणी माँ
स्वर्दायिनी स्वर दो !

ब्रह्माणी, शिव पूजनी
दिन रात सदा मनभावनी माँ
वीणावादिनी स्वर दो !

जय -जय -जय माँ दाता
जय -जय -जय जयकारिणी
वीणा वादिनी स्वर दो !

जिह्वा पर नित वास करो
हिय में माँ उल्लास भरो
वीणा वादिनी स्वर दो !

परमारथ हो ह्रदय में माँ
निर्मल मन मेरा कर दो
वीणा वादिनी स्वर दो !

काया कल्प करो तनका
प्रतिपल माँ तूँ वर दो
वीणा वादिनी स्वर दो !

करुणा तेज भरो तन में
सागर सा वाणी मन दो
वीणा वादिनी स्वर दो !!

सरस्वती मंत्र



सरस्वती वंदना


या कुन्देन्दु तुषारहार धवला या शुभ्रवस्त्रावृता।
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।।


या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता।
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा।।


शुक्लां ब्रह्मविचारसारपरमांद्यां जगद्व्यापनीं।
वीणा-पुस्तक-धारिणीमभयदां जाड्यांधकारपहाम्।।


हस्ते स्फाटिक मालिकां विदधतीं पद्मासने संस्थिताम्।
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्।।


“Yaa Kundendu tushaara haaradhavalaa, Yaa shubhravastraavritha
Yaa veenavara dandamanditakara, aa shwetha padmaasana |
Yaa brahmaachyutha shankara, prabhritibhir Devaisadaa Vanditha
Saa Maam Paatu Saraswatee Bhagavatee Nihshesha jaadyaapahaa ||”



पढ़ाई में मन लगाने का सरस्वती मंत्र
विद्या और बुद्धि की देवी मां सरस्वती को प्रसन्न करने के मंत्र :-



1. 'ॐ शारदा माता ईश्वरी मैं नित सुमरि तोय हाथ जोड़ अरजी करूं विद्या वर दे मोय।'


- शरद काल में उत्पन्न कमल के समान मुखवाली और सब मनोरथों को देने वाली मां शारदा समस्त समृद्धियों के साथ मेरे मुख में सदा निवास करें।


2. सरस्वती का बीज मंत्र 'क्लीं' है। शास्त्रों में क्लींकारी कामरूपिण्यै यानी 'क्लीं' काम रूप में पूजनीय है।


नीचे दिए गए मंत्र से मनुष्य की वाणी सिद्ध हो जाती है। समस्त कामनाओं को पूर्ण करने वाला यह मंत्र सरस्वती का सबसे दिव्य मं‍त्र है।


3. सरस्वती गायत्री मंत्र : 'ॐ वागदैव्यै च विद्महे कामराजाय धीमहि। तन्नो देवी प्रचोदयात्‌।'


4. इस मंत्र की 5 माला का जाप करने से साक्षात मां सरस्वती प्रसन्न हो जाती हैं तथा साधक को ज्ञान-


विद्या का लाभ प्राप्त होना शुरू हो जाता है।
नमस्ते शारदे देवी, काश्मीरपुर वासिनी,
त्वामहं प्रार्थये नित्यं, विद्या दानं च देहि में,
कंबू कंठी सुताम्रोष्ठी सर्वाभरणंभूषिता,
महासरस्वती देवी, जिव्हाग्रे सन्नी विश्यताम् ।।


शारदायै नमस्तुभ्यं , मम ह्रदय प्रवेशिनी,
परीक्षायां समुत्तीर्णं, सर्व विषय नाम यथा।।




5. सरस्वती ध्यान मंत्र - 


ॐ सरस्वती मया दृष्ट्वा, वीणा पुस्तक धारणीम् ।
हंस वाहिनी समायुक्ता मां विद्या दान करोतु में ॐ ।।


Om Saraswati Mayaa Drishtwa, Veena Pustak Dharnim |
Hans Vahini Samayuktaa Maa Vidya Daan Karotu Me Om ||


6. सरस्वती बीज मंत्र - 


The Beej (or Seed ) Mantra(s) invoking Goddess Saraswati are based on mono-syllables. The Beej Mantra for Saraswati is based on the two words “Bhreem” and “Shreem”. The Mantras are simple –


i. “Aum Shreem Bhreem Saraswathaye Namaha”
ii. ॐ ऎं सरस्वत्यै ऎं नमः ll – “Aum Aing Saraswathye Namah“


Meaning : Salutations to Goddess Saraswati.
Benefit : Chanting the Bhij mantra of Saraswati can increase the intelligence and the power of speech.



7. सरस्वती मंत्र बिद्यार्थियों के लिए : 


सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥


“Saraswati Namasthubhyam Varade Kamarupini
Vidhyarambam Karishyami Siddhir Bavathume Sadha”


Meaning : Ode to the Goddess to tremendously enhance focusing power and retention capacity of the mind.


Benefit : This sloka is found to improve memory, power and concentration in studies.


8. महासरस्वती मंत्र - 


ॐ ऐं महासरस्वत्यै नमः |
Om Aing Mahasaraswatyai Namah |


Saraswati Mantra To Gain Powerful and Proper Speech
Recite this Saraswati Mantra one lakh times. By reciting this Saraswati Mantra one becomes famous by acquiring lot of knowledge.


वद वद वाग्वादिनी स्वाहा ।

Vad Vad Vaagwaadinee Swaha |


Meaning : ‘Vag Devi, bestow on me the power of speech.’
Benefit : For the children with speech disabilities, chanting this mantra regularly can help gain a proper speech and also improve their communication skills in the future.




9. सरस्वती मंत्र बुद्धि वृद्धि के लिए - 


Recite this Saraswati Mantra one lakh times. By reciting this Saraswati Mantra enhance intelligence, creativity and knowledge.


ॐ ऐं ह्रीं श्रीं वाग्देव्यै सरस्वत्यै नमः ।
Om Aing Hreeng Shreeng Vaagdevyai Saraswatyai Namah |


10. सरस्वती मंत्र धन और बुद्धि के लिए -

Recite this Saraswati Mantra one lakh times. Recite this Saraswati Mantra for wealth and knowledge.



ॐ अर्हं मुख कमल वासिनी पापात्म क्षयम् कारी वद वद वाग्वादिनी सरस्वती ऐं ह्रीं नमः स्वाहा ।

Om Arham Mukha Kamal Vaasinee Paapaatma Kshayam Kaari Vad Vad Vaagwaadinee Saraswati Aing Hreeng Namah Swaaha |



11. ज्ञान बढ़ाने के लिए सरस्वती मंत्र -

सरस्वति महाभागे विद्ये कमललोचने ।

विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तुते ॥
“Saraswati Mahabhage Vidye Kamalalochane
Vishwaroope Vishaalaakshi Vidyam dehi namosthute”


Meaning : Salutation to the Goddess for bestowing upon me the best of knowledge and the ease of learning.


Benefit : Chanting this mantra with devotion on a regular basis can help get the desired knowledge to the fullest. Those who have difficulties with their learning can resort to this mantra as the ultimate solace.


12. सरस्वती पुराणोक्ता मंत्र -

या देवी सर्वभूतेषु विद्या-रूपेण संस्थिता,

नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥


“Ya Devi Sarvabhuteshu Vidyarupena Samsthita।
Namastasyai Namastasyai Namastasyai Namo Namah॥”


Meaning : ‘SaIutation to the Goddess Saraswati who bestows upon me the fearlessness of life in the form of knowledge and intelligence.’
Benefit : Recitation of this Mantra gives inner peace and strength in times of distress.


13. Saraswati mantra for memory power in Hindi


“महो, अर्णः सरस्वती प्रचेयति केतुना, धियो विश्व विराजति“
“Maho, Arnah Saraswati Pracheyati Ketuna, Dhiyo Vishwa Virajati”


Meaning : Ode to the Mother to help remove all the unnecessary fear from the heart and enlighten the mind with more knowledge and intelligence.

Benefit : This mantra is dedicated to Goddess Saraswati to illuminate the minds of knowledge seekers and to dispel the fear of new worldly experiences.


14. सरस्वती गायत्री मंत्र - 

ॐ वागीश्वर्यै विद्महे वाग्वादीन्ये दीमहे तन्नः सरस्वती प्रचोदयात ||
“Om Vageeshwaryae Vidmahe Vagwadeenyae Dhimahe Tannah Saraswati Prachodayat”


Meaning : ‘Let me meditate on the goddess of speech. Oh, wife of Lord Brahma, give me higher intellect, and let Goddess Vani illuminate my mind.’


Benefit : Chanting this mantra can sharpen the capabilities of students and calm the senses of those who feel panic before the exams and other big events.