Saturday, June 26, 2021

 II श्री मंगलचंडिकास्तोत्रम् II 

ॐ ह्रीं श्रीं क्लीं सर्वपूज्ये देवी मङ्गलचण्डिके I 

ऐं क्रूं फट् स्वाहेत्येवं चाप्येकविन्शाक्षरो मनुः II 

पूज्यः कल्पतरुश्चैव भक्तानां सर्वकामदः I

दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् II

मन्त्रसिद्धिर्भवेद् यस्य स विष्णुः सर्वकामदः I

ध्यानं च श्रूयतां ब्रह्मन् वेदोक्तं सर्व सम्मतम् II 

देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् I 

सर्वरूपगुणाढ्यां च कोमलाङ्गीं मनोहराम् II 

श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् I

वन्हिशुद्धांशुकाधानां रत्नभूषणभूषिताम् II 

बिभ्रतीं कबरीभारं मल्लिकामाल्यभूषितम् I

बिम्बोष्टिं सुदतीं शुद्धां शरत्पद्मनिभाननाम् II 

ईषद्धास्यप्रसन्नास्यां सुनीलोल्पललोचनाम् I 

जगद्धात्रीं च दात्रीं च सर्वेभ्यः सर्वसंपदाम् II 

संसारसागरे घोरे पोतरुपां वरां भजे II 

देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने I

प्रयतः संकटग्रस्तो येन तुष्टाव शंकरः II 

शंकर उवाच रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके I

हारिके विपदां राशेर्हर्षमङ्गलकारिके II 

हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके I 

शुभे मङ्गलदक्षे च शुभमङ्गलचण्डिके II

मङ्गले मङ्गलार्हे च सर्व मङ्गलमङ्गले I 

सतां मन्गलदे देवि सर्वेषां मन्गलालये II 

पूज्या मङ्गलवारे च मङ्गलाभीष्टदैवते I 

पूज्ये मङ्गलभूपस्य मनुवंशस्य संततम् II 

मङ्गलाधिष्टातृदेवि मङ्गलानां च मङ्गले I 

संसार मङ्गलाधारे मोक्षमङ्गलदायिनि II

सारे च मङ्गलाधारे पारे च सर्वकर्मणाम् I 

प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे II 

स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् I 

प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः II

देव्याश्च मङ्गलस्तोत्रं यः श्रुणोति समाहितः I

तन्मङ्गलं भवेच्छश्वन्न भवेत् तदमङ्गलम् II

II इति श्री ब्रह्मवैवर्ते मङ्गलचण्डिका स्तोत्रं संपूर्णम् II 

 


No comments:

Post a Comment