Wednesday, December 8, 2021

 ॥ श्री शिव कवचम् ॥

अस्य श्री शिवकवच स्तोत्रमहामन्त्रस्य ऋषभयोगीश्वर ऋषिः । 


अनुष्टुप् छन्दः । 

श्रीसाम्बसदाशिवो देवता । 

ॐ बीजम् । नमः शक्तिः । शिवायेति कीलकम् । 

मम साम्बसदाशिवप्रीत्यर्थे जपे विनियोगः ॥


करन्यासः

ॐ सदाशिवाय अङ्गुष्ठाभ्यां नमः । नं गङ्गाधराय तर्जनीभ्यां नमः । मं मृत्युञ्जयाय मध्यमाभ्यां नमः ।

शिं शूलपाणये अनामिकाभ्यां नमः । वां पिनाकपाणये कनिष्ठिकाभ्यां नमः । यम् उमापतये करतलकरपृष्ठाभ्यां नमः ।


हृदयादिअङ्गन्यासः

ॐ सदाशिवाय हृदयाय नमः । नं गङ्गाधराय शिरसे स्वाहा । मं मृत्युञ्जयाय शिखायै वषट् ।

शिं शूलपाणये कवचाय हुम् । वां पिनाकपाणये नेत्रत्रयाय वौषट् । यम् उमापतये अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥


ध्यानम्

वज्रदंष्ट्रं त्रिनयनं कालकण्ठ मरिन्दमम् ।

सहस्रकरमत्युग्रं वन्दे शम्भुम् उमापतिम् ॥

रुद्राक्षकङ्कणलसत्करदण्डयुग्मः पालान्तरालसितभस्मधृतत्रिपुण्ड्रः ।

पञ्चाक्षरं परिपठन् वरमन्त्रराजं ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ॥


अतः परं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम् ।

जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवम् कवचं हिताय ते ॥


पञ्चपूजा

लं पृथिव्यात्मने गन्धं समर्पयामि । 

हम् आकाशात्मने पुष्पैः पूजयामि । 

यं वाय्वात्मने धूपम् आघ्रापयामि ।

रम् अग्न्यात्मने दीपं दर्शयामि । 

वम् अमृतात्मने अमृतं महानैवेद्यं निवेदयामि । 

सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ॥


मन्त्रः

ऋषभ उवाच


नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् । 

वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥ 1 ॥


शुचौ देशे समासीनो यथावत्कल्पितासनः । 

जितेन्द्रियो जितप्राणश्चिन्तयेच्छिवमव्ययम् ॥ 2 ॥


हृत्पुण्डरीकान्तरसन्निविष्टं स्वतेजसा व्याप्तनभो‌உवकाशम् । 

अतीन्द्रियं सूक्ष्ममनन्तमाद्यं ध्यायेत् परानन्दमयं महेशम् ॥


ध्यानावधूताखिलकर्मबन्ध- श्चिरं चिदानन्द निमग्नचेताः । 

षडक्षरन्यास समाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ॥


मां पातु देवो‌உखिलदेवतात्मा संसारकूपे पतितं गभीरे । 

तन्नाम दिव्यं परमन्त्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ॥


सर्वत्र मां रक्षतु विश्वमूर्ति- र्ज्योतिर्मयानन्दघनश्चिदात्मा । 

अणोरणियानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात् ॥


यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशो‌உष्टमूर्तिः । 

यो‌உपां स्वरूपेण नृणां करोति सञ्जीवनं सो‌உवतु मां जलेभ्यः ॥


कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः । 

स कालरुद्रो‌உवतु मां दवाग्नेः वात्यादिभीतेरखिलाच्च तापात् ॥


प्रदीप्तविद्युत्कनकावभासो विद्यावराभीति कुठारपाणिः । 

चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितो रक्षतु मामजस्रम् ॥


कुठारखेटाङ्कुश शूलढक्का- कपालपाशाक्ष गुणान्दधानः । 

चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ॥


कुन्देन्दुशङ्खस्फटिकावभासो वेदाक्षमाला वरदाभयाङ्कः । 

त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्यो‌உधिजातो‌உवतु मां प्रतीच्याम् ॥


वराक्षमालाभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः । 

त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः ॥


वेदाभयेष्टाङ्कुशटङ्कपाश- कपालढक्काक्षरशूलपाणिः । 

सितद्युतिः पञ्चमुखो‌உवतान्माम् ईशान ऊर्ध्वं परमप्रकाशः ॥


मूर्धानमव्यान्मम चन्द्रमौलिः भालं ममाव्यादथ भालनेत्रः । 

नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः ॥


पायाच्छ्रुती मे श्रुतिगीतकीर्तिः कपोलमव्यात्सततं कपाली । 

वक्त्रं सदा रक्षतु पञ्चवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वः ॥


कण्ठं गिरीशो‌உवतु नीलकण्ठः पाणिद्वयं पातु पिनाकपाणिः । 

दोर्मूलमव्यान्मम धर्मबाहुः वक्षःस्थलं दक्षमखान्तको‌உव्यात् ॥


ममोदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यान्मदनान्तकारी । 

हेरम्बतातो मम पातु नाभिं पायात्कटिं धूर्जटिरीश्वरो मे ॥


ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरो‌உव्यात् । 

जङ्घायुगं पुङ्गवकेतुरव्यात् पादौ ममाव्यात्सुरवन्द्यपादः ॥


महेश्वरः पातु दिनादियामे मां मध्ययामे‌உवतु वामदेवः । 

त्रिलोचनः पातु तृतीययामे वृषध्वजः पातु दिनान्त्ययामे ॥


पायान्निशादौ शशिशेखरो मां गङ्गाधरो रक्षतु मां निशीथे । 

गौरीपतिः पातु निशावसाने मृत्युञ्जयो रक्षतु सर्वकालम् ॥


अन्तःस्थितं रक्षतु शङ्करो मां स्थाणुः सदा पातु बहिःस्थितं माम् । 

तदन्तरे पातु पतिः पशूनां सदाशिवो रक्षतु मां समन्तात् ॥


तिष्ठन्तमव्याद् भुवनैकनाथः पायाद्व्रजन्तं प्रमथाधिनाथः । 

वेदान्तवेद्यो‌உवतु मां निषण्णं मामव्ययः पातु शिवः शयानम् ॥


मार्गेषु मां रक्षतु नीलकण्ठः शैलादिदुर्गेषु पुरत्रयारिः । 

अरण्यवासादि महाप्रवासे पायान्मृगव्याध उदारशक्तिः ॥


कल्पान्तकालोग्रपटुप्रकोप- स्फुटाट्टहासोच्चलिताण्डकोशः । 

घोरारिसेनार्णव दुर्निवार- महाभयाद्रक्षतु वीरभद्रः ॥


पत्त्यश्वमातङ्गरथावरूथिनी- सहस्रलक्षायुत कोटिभीषणम् । 

अक्षौहिणीनां शतमाततायिनां छिन्द्यान्मृडो घोरकुठार धारया ॥


निहन्तु दस्यून्प्रलयानलार्चिः ज्वलत्त्रिशूलं त्रिपुरान्तकस्य । शार्दूलसिंहर्क्षवृकादिहिंस्रान् सन्त्रासयत्वीशधनुः पिनाकः ॥

दुः स्वप्न दुः शकुन दुर्गति दौर्मनस्य- दुर्भिक्ष दुर्व्यसन दुःसह दुर्यशांसि । उत्पाततापविषभीतिमसद्ग्रहार्तिं व्याधींश्च नाशयतु मे जगतामधीशः ॥

No comments:

Post a Comment