Saturday, February 20, 2021

श्री नृसिंह गिरि अष्टोत्तर शतनाम स्तोत्रम् || 


ब्रह्मवर्ण समुद्भूतो ब्रह्ममार्गप्रवर्द्धकः ।

ब्रह्मज्ञानसदासक्तो व्रह्मज्ञानपरायणः ॥ १॥


शिवपञ्चाक्षररतोऽशिवज्ञानविनाशकः ॥

शिवाभिषेकनिरतः शिवपूजापरायणः ॥ २॥


नारायणप्रवचनो नारायणपरायणः ।

नारायणप्रत्नतनुर्नारायणनयस्थितः ॥ ३॥


दक्षिणामूर्तिपीठस्थो दक्षिणामूर्तिदेवतः ।

श्रीमेधादक्षिणामूर्तिमन्त्रयन्त्रसदारतः ॥ ४॥


मण्डलेशवरप्रेष्ठो मण्डलेशवरप्रदः ।

मण्डलेशगुरुश्रेष्ठो मण्डलेशवरस्तुतः ॥ ५॥


निरञ्जनप्रपीठस्थो निरञ्जनविचारकः ।

निरञ्जनसदाचारो निरञ्जनतनुस्थितः ॥ ६॥


वेदविद्वेदहृदयो वेदपाठप्रवर्तकः।

वेदराद्धान्तसंविष्टोऽवेदपथप्रखण्डकः ॥ ७॥


शाङ्कराद्वैतव्याख्याता शाङ्कराद्वैतसंस्थितः ।

शाकराद्वैतविद्वेष्टृविनाशनपरायणः ॥ ८॥


अत्याश्रमाचाररतो भूतिधारणतत्परः ।

सिद्धासनसमासीनो काञ्चनाभो मनोहरः ॥ ९॥


अक्षमालाधृतग्रीवः काषायपरिवेष्टितः ।

ज्ञानमुद्रादक्षहस्तो वामहस्तकमण्डलुः ॥ १०॥


सन्न्यासाश्रमनिर्भाता परहंसधुरन्धरः ।

सन्न्यासिनयसंस्कर्ता परहंसप्रमाणकः ॥ ११॥


माधुर्यपूर्णचरितो मधुराकारविग्रहः ।

मधुवाङ्निग्रहरतो मधुविद्याप्रदायकः ॥ १२॥


मधुरालापचतुरो निग्रहानुग्रहक्षमः ।

आर्द्धरात्रध्यानरतस्त्रिपुण्ड्राङ्कितमस्तकः ॥ १३॥


आरण्यवार्तिकपरः पुष्पमालाविभूषितः ।

वेदान्तवार्तानिरतः प्रस्थानत्रयभूषणः ॥ १४॥


सानन्दज्ञानभाष्यादिग्रन्थग्रन्थिप्रभेदकः ।

दृष्टान्तानूक्तिकुशलो दृष्टान्तार्थनिरूपकः ॥ १५॥


वीकानेरगुरुर्वाग्मी वङ्गदेशप्रपूजितः ।

लाहौरसरगोदादौ हिन्दूधर्मप्रचारकः ॥ १६॥


गणेशजययात्रादिप्रतिष्ठापनतत्परः ।

गणेशशक्तिसूर्येशविष्णुभक्तिप्रचारकः ॥ १७॥


सर्ववर्णसमाम्नातलिङ्गपूजाप्रवर्द्धकः ।

गीतोत्सवसपर्यादिचित्रयज्ञप्रवर्तकः ॥ १८॥


लोकेश्वरानन्दप्रियो दयानन्दप्रसेवितः ।

आत्मानन्दगिरिज्ञानसतीर्थ्यपरिवेष्टितः ॥ १९॥


अनन्तश्रद्धापरमप्रकाशानन्दपूजितः ।

जूनापीठस्थरामेशवरानन्दगिरेर्गुरुः ॥ २०॥


माधवानन्दसंवेष्टा काशिकानन्ददेशिकः ।

वेदान्तमूर्तिराचार्यो शान्तो दान्तः प्रभुस्सुहृत् ॥ २१॥


निर्ममो विश्वतरणिः स्मितास्यो निर्मलो महान् ।

तत्त्वमस्यादिवाक्योत्थदिव्यज्ञानप्रदायकः ॥ २२॥


गिरीशानन्दसम्प्राप्तपरमहंसपरम्परा ।

जनार्दनगिरिब्रह्यसंन्यासाश्रमदीक्षितः ॥ २३॥


मण्डलेशकुलश्रेष्ठजयेन्द्रपुरीसंस्तुतः ।

रामानन्दगिरिस्थानस्थापितो मण्डलेश्वरः ॥ २४॥


शन्दमहेशानन्दाय स्वकीयपददायकः ।

यतीन्द्रकृष्णानन्दैश्च पूजितपादपद्मक्ः ॥ २५॥


उषोत्थानस्नानपूजाजपध्यानप्रचोदकः ।

तुरीयाश्रमसंविष्ठभाष्यपाठप्रवर्तकः ॥ २६॥


अष्टलक्ष्यीप्रदस्तृप्तः स्पर्शदीक्षाविधायकः ।

अहैतुककृपासिन्धुरनघोभक्तवत्सलः ॥ २७॥


विकारशून्यो दुर्धर्षः शिवसक्तो वरप्रदः ।

काशीवासप्रियो मुक्तो भक्तमुक्तिविधायकः ॥ २८॥


श्रीभत्परमहंसादिसमस्तबिरुदाङ्कितः ।

नृसिंहब्रह्म वेदान्तजगत्यद्य जगद्गुरुः ॥ २९॥


विलयं यान्ति पापानि गुरुनामानुकीर्तनात् ।

मुच्यते नात्र सन्देहः श्रद्धाभक्तिसमन्वितः ॥ ३०॥

No comments:

Post a Comment