Saturday, February 20, 2021

श्री विश्वकर्मा अष्टकम || 

॥ विश्वकर्माष्टकम् ॥


निरञ्जनो निराकारः निर्विकल्पो मनोहरः ।

निरामयो निजानन्दः निर्विघ्नाय नमो नमः ॥ १॥


अनादिरप्रमेयश्च अरूपश्च जयाजयः ।

लोकरूपो जगन्नाथः विश्वकर्मन्नमो नमः ॥ २॥


नमो विश्वविहाराय नमो विश्वविहारिणे ।

नमो विश्वविधाताय नमस्ते विश्वकर्मणे ॥ ३॥


नमस्ते विश्वरूपाय विश्वभूताय ते नमः ।

नमो विश्वात्मभूथात्मन् विश्वकर्मन्नमोऽस्तु ते ॥ ४॥


विश्वायुर्विश्वकर्मा च विश्वमूर्तिः परात्परः ।

विश्वनाथः पिता चैव विश्वकर्मन्नमोऽस्तु ते ॥ ५॥


विश्वमङ्गलमाङ्गल्यः विश्वविद्याविनोदितः ।

विश्वसञ्चारशाली च विश्वकर्मन्नमोऽस्तु ते ॥ ६॥


विश्वैकविधवृक्षश्च विश्वशाखा महाविधः ।

शाखोपशाखाश्च तथा तद्वृक्षो विश्वकर्मणः ॥ ७॥


तद्वृक्षः फलसम्पूर्णः अक्षोभ्यश्च परात्परः ।

अनुपमानो ब्रह्माण्डः बीजमोङ्कारमेव च ॥ ८॥


। इति विश्वकर्माष्टकं सम्पूर्णम् ।

No comments:

Post a Comment