Wednesday, March 17, 2021

 
श्री वामन स्तोत्रम् || 
अदितिरुवाच ।


यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद


तीर्थश्रवश्श्रवण मङ्गलनामधेय ।

आपन्नलोकवृजिनोपशमोदाऽऽद्य शं नः
कृधीश भगवन्नसि दीननाथः ॥ १ ॥

विश्वाय विश्वभवनस्थिति सम्यमाय
स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने ।

स्वस्थाय शश्वदुपबृंहितवूर्णबोध-
व्यापादितात्मतमसे हरये नमस्ते ॥ २ ॥


आयुः परं वपुरभीष्टमतुल्यलक्ष्मी-
र्द्यौभूरसास्सकलयोगगुणास्त्रिवर्गः ।

ज्ञानं च केवलमनन्त भवन्ति तुष्टा-
त्त्वत्तो नृणां किमु सपत्नजयादिराशीः ॥ ३ ॥

|| इति श्रीमद्भागवते श्रीवामन स्तोत्रं ||
पीताम्बरा अष्टोत्तर शतनाम स्तोत्र - 


श्रीगणेशाय नमः ।



श्रीभगवान उवाच ।
इतीदं नामसाहस्रं ब्रह्मन्स्ते गदितं मया ।
नाम्नामष्टोत्तरशतं शृणुष्व गदितं मम ॥ १॥
ॐ पीताम्बरा शूलहस्ता वज्रा वज्रशरीरिणी ।

तुष्टिपुष्टिकरी शान्तिर्ब्रह्माणी ब्रह्मवादिनी ॥ २॥
सर्वालोकननेत्रा च सर्वरोगहरापि च ।
मङ्गला मङ्गलास्नाता निष्कलङ्का निराकुला ॥ ३॥
विश्वेश्वरी विश्वमाता ललिता ललिताकृतिः ।
सदाशिवैकग्रहणी चण्डिका चण्डविक्रमा ॥ ४॥
सर्वदेवमयी साक्षात्सर्वागमनिरूपिता ।
ब्रह्मेशविष्णुनमिता सर्वकल्याणकारिणी ॥ ५॥


योगमार्गपरायोगीयौगिध्येयपदाम्बुजा ।
योगेन्द्रा योगिनीपूज्या योगसूर्याङ्गनन्दिनी ॥ ६॥
इन्द्रादिदेवतावृन्दस्तूयमानात्मवैभवा ।
विशुद्धिदा भयहरा भक्तद्वेषीक्षयङ्करी ॥ ७॥
भवपाशविनिर्मुक्ता भेरुण्डा भैरवार्चिता ।
बलभद्रप्रियाकाराहालामदरसोधृता ॥ ८॥
पञ्चभूतशरीरस्था पञ्चकोशप्रपञ्चहृत् ।
सिंहवाहा मनोमोहा मोहपाशनिकृन्तनी ॥ ९॥
मदिरा मदिरोन्मादमुद्रा मुद्गरधारिणी ।
सावित्री प्रसावित्री च परप्रियविनायका ॥ १०॥
यमदूती पिङ्गनेत्रा वैष्णवी शाङ्करी तथा ।
चन्द्रप्रिया चन्दनस्था चन्दनारण्यवासिनी ॥ ११॥
वदनेन्दुप्रभापूर पूर्णब्रह्माण्डमण्डला ।
गान्धर्वी यक्षशक्तिश्च कैराती राक्षसी तथा ॥ १२॥
पापपर्वतदम्भोलिर्भयध्वान्तप्रभाकरा ।
सृष्टिस्थित्युपसंहारकारिणि कनकप्रभा ॥ १३॥
लोकानां देवतानाञ्च योषितां हितकारिणी ।
ब्रह्मानन्दैकरसिका महाविद्या बलोन्नता ॥ १४॥
महातेजोवती सूक्ष्मा महेन्द्रपरिपूजिता ।
परापरवती प्राणा त्रैलोक्याकर्षकारिणी ॥ १५॥


किरीटाङ्गदकेयूरमाला मञ्जिरभूषिता ।
सुवर्णमालासञ्जप्ताहरिद्रास्रक् निषेविता ॥ १६॥
उग्रविघ्नप्रशमनी दारिद्र्यद्रुमभञ्जिनी ।
राजचोरनृपव्यालभूतप्रेतभयापहा ॥ १७॥
स्तम्भिनी परसैन्यानां मोहिनी परयोषिताम् ।
त्रासिनी सर्वदुष्टानां ग्रासिनी दैत्यराक्षसाम् ॥ १८॥
आकर्षिणी नरेन्द्राणां वशिनी पृथिवीमृताम् ।
मारिणी मदमत्तानां द्वेषिणी द्विषितां बलात् ॥ १९॥
क्षोभिणि शत्रुसङ्घानां रोधिनी शस्त्रपाणिनाम् ।
भ्रामिणी गिरिकूटानां राज्ञां विजय वर्द्धिनी ॥ २०॥
ह्लीं कार बीज सञ्जाप्ता ह्लीं कार परिभूषिता ।
बगला बगलावक्त्रा प्रणवाङ्कुर मातृका ॥ २१॥
प्रत्यक्ष देवता दिव्या कलौ कल्पद्रुमोपमा ।
कीर्त्तकल्याण कान्तीनां कलानां च कुलालया ॥ २२॥
सर्व मन्त्रैक निलया सर्वसाम्राज्य शालिनी ।
चतुःषष्ठी महामन्त्र प्रतिवर्ण निरूपिता ॥ २३॥
स्मरणा देव सर्वेषां दुःखपाश निकृन्तिनी ।
महाप्रलय सङ्घात सङ्कटद्रुम भेदिनी ॥ २४॥
इतिते कथितं ब्रह्मन्नामसाहस्रमुत्तमम् ।
अष्टोत्तरशतं चापि नाम्नामन्ते निरूपितम् ॥ २५॥
काश्मीर केरल प्रोक्तं सम्प्रदायानुसारतः ।
नामानिजगदम्बायाः पठस्वकमलासन ॥ २६॥
तेनेमौदानवौवीरौस्तब्ध शक्ति भविष्यतः ।
नानयोर्विद्यते ब्रह्मनूभयं विद्या प्रभावतः ॥ २७॥
ईश्वर उवाच । इत्युक्तः सतदाब्रह्मा पठन्नामसहस्रकम् ।
स्तम्भयामास सहसा तयीः शक्तिपराक्रमात् ॥ २८॥
इतिते कथितं देवि नामसाहस्रमुत्तमम् ।
परं ब्रह्मास्त्र विद्याया भुक्ति मुक्ति फलप्रदम् ॥ २९॥
यः पठेत्पाठयेद्वापि शृणोति श्रावयेदिदम् ।
स सर्वसिद्धि सम्प्राप्य स्तम्भयेदखिलं जगत् ॥ ३०॥


इति मे विष्णुना प्रोक्तं महास्तम्भकरं परम् ।
धनधान्य गजाश्वादि साधकं राज्यदायकम् ॥ ३१॥
प्रातःकाले च मध्याह्ने सन्ध्याकाले च पार्वति ।
एकचित्तः पठेदेतत्सर्वसिद्धिं च विन्दति ॥ ३२॥
पठनादेकवारस्य सर्वपापक्षयो भवेत् ।
वारद्वयस्य पठनाद्गणेश सदृशो भवेत् ॥ ३३॥
त्रिवारं पठनादस्य सर्वसिद्ध्यति नान्यथा ।
स्तवस्यास्य प्रभावेण जीवन्मुक्तो भवेन्नरः ॥ ३४॥
मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां वश्यार्थी वशयेज्जगत् ॥ ३५॥
महीपतिर्वत्सरस्य पाठाच्छत्रुक्षयो भवेत् ।
पृथ्वीपतिर्वशस्तस्य वत्सरात्स्मरसुन्दरः ॥ ३६॥
य पठेत्सर्वदा भक्त्या श्रीयुक्तो भवति प्रिये ।
गणाध्यक्षः प्रतिनिधिः कविः काव्य इवापरः ॥ ३७॥
गोपनीयं प्रयत्नेन जननीजारवत्प्रिये ।
शक्तियुक्तः पठेन्नित्यं पीताम्बरधरः स्वयम् ॥ ३८॥
य इदं पठते नित्यं शिवेन सदृशो भवेत् ।
धर्मार्थकाममोक्षाणां पतिर्भवति मानवः ॥ ३९॥
सत्यं सत्यं मया देवि रहस्यं सम्प्रकाशितम् ।
स्तवस्यास्य प्रभावेन किं न सिद्ध्यति भूतले ॥ ४०॥
स्तम्भितावास्कराः सर्वे स्तवराजस्य कीर्त्तनात् ।
मधु कैटभ दैतेन्द्रौध्वस्तशक्ति बभूवतुः ॥ ४१॥
इदं सहस्रनामाख्यं स्तोत्रं त्रैलोक्य पावनम् ।
एतत्पठति यो मन्त्री फलं तस्य वदाम्यहम् ॥ ४२॥
राजानो वश्यतां यान्ति यान्ति पापानि संक्षयः ।
गिरयः समतां यान्ति वह्निर्गच्छति शीतताम् ॥ ४३॥
प्रचण्डा सौम्यतां यान्ति शोषयान्त्येव सिन्धवः ।
धनैः कोशा विवर्धते जनैश्च विविधालयाः ॥ ४४॥
मन्दिराः स्करगैः पूर्णा हस्तिशालाश्च हस्तिभिः ।
स्तम्भयेद्विषतां वाचं गतिं शस्त्रं पराक्रमम् ॥ ४५॥


रवेरथं स्तम्भयति सञ्चारं च नभस्वतः ।
किमन्यं बहुनोक्तेन सर्वकार्यकृति क्षयम् ॥ ४६॥
स्तवराजमिदं जप्त्वा न मातुर्गर्भगो भवेत् ।
तेनेष्टाक्रतवः सर्वे दत्तादानपरम्पराः ॥ ४७॥
व्रतानि सर्वाण्यातानियेनायं पठ्यते स्तवः ।
निशीथकाले प्रजपेदेकाकी स्थिर मानसः ॥ ४८॥
पीताम्बरधरी पीतां पीतगन्धानुलेपनाम् ।
सुवर्णरत्नखचितां दिव्य भूषण भूषिताम् ॥ ४९॥
संस्थाप्य वामभागेतु शक्तिं स्वामि परायणाम् ।
तस्य सर्वार्थ सिद्धिःस्याद्यद्यन्मनसि कल्पते ॥ ५०॥
ब्रह्महत्यादि पापानि नश्यन्तेस्यजपादपि ।
सहस्रनाम तन्त्राणां सारमाकृत पार्वति ॥ ५१॥
मया प्रोक्तं रहस्यं ते किमन्य श्रोतुमर्हसि ॥ ५२॥
 श्री सूर्य अष्टोत्तर शतनाम स्तोत्रम् -



अरुणाय शरण्याय करुणारससिन्धवे ।


असमानबलायाऽर्तरक्षकाय नमो नमः ॥ १॥
आदित्यायाऽदिभूताय अखिलागमवेदिने ।
अच्युतायाऽखिलज्ञाय अनन्ताय नमो नमः ॥ २॥
इनाय विश्वरूपाय इज्यायैन्द्राय भानवे ।
इन्दिरामन्दिराप्ताय वन्दनीयाय ते नमः ॥ ३॥
ईशाय सुप्रसन्नाय सुशीलाय सुवर्चसे ।
वसुप्रदाय वसवे वासुदेवाय ते नमः ॥ ४॥
उज्ज्वलायोग्ररूपाय ऊर्ध्वगाय विवस्वते ।
उद्यत्किरणजालाय हृषीकेशाय ते नमः ॥ ५॥
ऊर्जस्वलाय वीराय निर्जराय जयाय च ।
ऊरुद्वयाभावरूपयुक्तसारथये नमः ॥ ६॥


ऋषिवन्द्याय रुग्घन्त्रे ऋक्षचक्रचराय च ।
ऋजुस्वभावचित्ताय नित्यस्तुत्याय ते नमः ॥ ७॥
ऋकारमातृकावर्णरूपायोज्ज्वलतेजसे ।
ऋक्षाधिनाथमित्राय पुष्कराक्षाय ते नमः ॥ ८॥
लुप्तदन्ताय शान्ताय कान्तिदाय घनाय च ।
कनत्कनकभूषाय खद्योताय ते नमः ॥ ९॥
लूनिताखिलदैत्याय सत्यानन्दस्वरूपिणे ।
अपवर्गप्रदायाऽर्तशरण्याय नमो नमः ॥ १०॥
एकाकिने भगवते सृष्टिस्थित्यन्तकारिणे ।
गुणात्मने घृणिभृते बृहते ब्रह्मणे नमः ॥ ११॥
ऐश्वर्यदाय शर्वाय हरिदश्वाय शौरये ।
दशदिक्सम्प्रकाशाय भक्तवश्याय ते नमः ॥ १२॥


ओजस्कराय जयिने जगदानन्दहेतवे ।
जन्ममृत्युजराव्याधिवर्जिताय नमो नमः ॥ १३॥
ओउन्नत्यपदसञ्चाररथस्थायात्मरूपिने ।
कमनीयकरायाऽब्जवल्लभाय नमो नमः ॥ १४॥
अन्तर्बहिःप्रकाशाय अचिन्त्यायाऽत्मरूपिणे ।
अच्युताय सुरेषाय परस्मैज्योतिषे नमः ॥ १५॥
अहस्कराय रवये हरये परमात्मने ।
तरुणाय वरेण्याय ग्रहाणाम्पतये नमः ॥ १६॥
ॐ नमो भास्करायाऽदिमध्यान्तरहिताय च ।
सौख्यप्रदाय सकलजगताम्पतये नमः ॥ १७॥
नमः सूर्याय कवये नमो नारायणाय च ।
नमो नमः परेशाय तेजोरूपाय ते नमः ॥ १८॥
ॐ श्रीं हिरण्यगर्भाय ॐ ह्रीं सम्पत्कराय च ।
ॐ ऐं इष्टार्थदायाऽनुप्रसन्नाय नमो नमः ॥ १९॥
श्रीमते श्रेयसे भक्तकोटिसौख्यप्रदायिने ।
निखिलागमवेद्याय नित्यानन्दाय ते नमः ॥ २०॥


यो मानवः सन्ततमर्कमर्चयन्पठेत्प्रभाते विमलेन चेतसा ।
इमान् नामानि च तस्य पुण्यमायुर्धनं धान्यमुपैत्ति नित्यम् ॥२१॥
इमं स्तवं देववरस्य कीर्तयेच्छ्रुणोति योऽयं सुमनाः समाहितः ।
स मुच्यते शोकदवाग्निसागराल्लभेत सर्वं मनसो यथेप्सितम् ॥
इति श्रीमदथर्वणरहस्ये सूर्याष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।
श्री सूर्य प्रातः स्मरण स्तोत्रम् ||


प्रातः स्मरामि तत्सवितुर्वरेण्यं,
रूपं हि मण्डलमृचोऽथ तनुर्यजूंषि।

सामानि यस्य किरणाः प्रभवादि हेतुं,
ब्रह्माहरात्मकमलक्ष्यमचिन्त्यरूपम् ॥१॥

प्रातर्नमामि तरणिं तनुवाङ्मनोभि-,
र्ब्रह्मेन्द्रपूर्वकसुरैर्नुतमर्चितं च।

वृष्टिप्रमोचनविनिग्रहहेतुभूतं,
त्रैलोक्यपालनपरं त्रिगुणात्मकं च ॥२॥

प्रातर्भजामि सवितारमनन्तशक्तिं,
पापौघशत्रुभयरोगहरं परं च।

तं सर्वलोककलनात्मककालमूर्तिं,
गोकण्ठबन्धनविमोचनमादिदेवम् ॥३॥

श्लोकत्रयमिदं भानोः प्रातःकाले पठेत्तु यः।
स सर्वव्याधिविनिर्मुक्तः परं सुखमवाप्नुयात् ॥४॥
 सूर्य स्तोत्र || 



प्रात: स्मरामि खलु तत्सवितुर्वरेण्यंरूपं हि मण्डलमृचोऽथ तनुर्यजूंषी ।
सामानि यस्य किरणा: प्रभवादिहेतुं ब्रह्माहरात्मकमलक्ष्यचिन्त्यरूपम् ।।1।।

प्रातर्नमामि तरणिं तनुवाऽमनोभि ब्रह्मेन्द्रपूर्वकसुरैनतमर्चितं च।
वृष्टि प्रमोचन विनिग्रह हेतुभूतं त्रैलोक्य पालनपरंत्रिगुणात्मकं च।।2।।

प्रातर्भजामि सवितारमनन्तशक्तिं पापौघशत्रुभयरोगहरं परं चं।
तं सर्वलोककनाकात्मककालमूर्ति गोकण्ठबंधन विमोचनमादिदेवम् ।।3।।

ॐ चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्ने:।
आप्रा धावाप्रथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्र्व ।।4।।

सूर्यो देवीमुषसं रोचमानां मत्योन योषामभ्येति पश्र्वात् ।
यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ।।5।।
 श्री तारा अष्टोत्तर शतनाम स्तोत्रम् ||

श्रीदेव्युवाच ।


सर्वं संसूचितं देव नाम्नां शतं महेश्वर ।
यत्नैः शतैर्महादेव मयि नात्र प्रकाशितम् ॥ १॥
पठित्वा परमेशान हठात् सिद्ध्यति साधकः ।
नाम्नां शतं महादेव कथयस्व समासतः ॥ २॥
श्रीभैरव उवाच ।
शृणु देवि प्रवक्ष्यामि भक्तानां हितकारकम् ।
यज्ज्ञात्वा साधकाः सर्वे जीवन्मुक्तिमुपागताः ॥ ३॥
कृतार्थास्ते हि विस्तीर्णा यान्ति देवीपुरे स्वयम् ।
नाम्नां शतं प्रवक्ष्यामि जपात् स(अ)र्वज्ञदायकम् ॥ ४॥
नाम्नां सहस्रं संत्यज्य नाम्नां शतं पठेत् सुधीः ।
कलौ नास्ति महेशानि कलौ नान्या गतिर्भवेत् ॥ ५॥
शृणु साध्वि वरारोहे शतं नाम्नां पुरातनम् ।
सर्वसिद्धिकरं पुंसां साधकानां सुखप्रदम् ॥ ६॥
तारिणी तारसंयोगा महातारस्वरूपिणी ।
तारकप्राणहर्त्री च तारानन्दस्वरूपिणी ॥ ७॥
महानीला महेशानी महानीलसरस्वती ।
उग्रतारा सती साध्वी भवानी भवमोचिनी ॥ ८॥
महाशङ्खरता भीमा शाङ्करी शङ्करप्रिया ।
महादानरता चण्डी चण्डासुरविनाशिनी ॥ ९॥
चन्द्रवद्रूपवदना चारुचन्द्रमहोज्ज्वला ।
एकजटा कुरङ्गाक्षी वरदाभयदायिनी ॥ १०॥
महाकाली महादेवी गुह्यकाली वरप्रदा ।
महाकालरता साध्वी महैश्वर्यप्रदायिनी ॥ ११॥
मुक्तिदा स्वर्गदा सौम्या सौम्यरूपा सुरारिहा ।
शठविज्ञा महानादा कमला बगलामुखी ॥ १२॥
महामुक्तिप्रदा काली कालरात्रिस्वरूपिणी ।
सरस्वती सरिच्श्रेष्ठा स्वर्गङ्गा स्वर्गवासिनी ॥ १३॥
हिमालयसुता कन्या कन्यारूपविलासिनी ।
शवोपरिसमासीना मुण्डमालाविभूषिता ॥ १४॥
दिगम्बरा पतिरता विपरीतरतातुरा ।
रजस्वला रजःप्रीता स्वयम्भूकुसुमप्रिया ॥ १५॥


स्वयम्भूकुसुमप्राणा स्वयम्भूकुसुमोत्सुका ।
शिवप्राणा शिवरता शिवदात्री शिवासना ॥ १६॥
अट्टहासा घोररूपा नित्यानन्दस्वरूपिणी ।
मेघवर्णा किशोरी च युवतीस्तनकुङ्कुमा ॥ १७॥
खर्वा खर्वजनप्रीता मणिभूषितमण्डना ।
किङ्किणीशब्दसंयुक्ता नृत्यन्ती रक्तलोचना ॥ १८॥
कृशाङ्गी कृसरप्रीता शरासनगतोत्सुका ।
कपालखर्परधरा पञ्चाशन्मुण्डमालिका ॥ १९॥
हव्यकव्यप्रदा तुष्टिः पुष्टिश्चैव वराङ्गना ।
शान्तिः क्षान्तिर्मनो बुद्धिः सर्वबीजस्वरूपिणी ॥ २०॥
उग्रापतारिणी तीर्णा निस्तीर्णगुणवृन्दका ।
रमेशी रमणी रम्या रामानन्दस्वरूपिणी ॥ २१॥
रजनीकरसम्पूर्णा रक्तोत्पलविलोचना ।
इति ते कथितं दिव्यं शतं नाम्नां महेश्वरि ॥ २२॥
प्रपठेद् भक्तिभावेन तारिण्यास्तारणक्षमम् ।
सर्वासुरमहानादस्तूयमानमनुत्तमम् ॥ २३॥
षण्मासाद् महदैश्वर्यं लभते परमेश्वरि ।
भूमिकामेन जप्तव्यं वत्सरात्तां लभेत् प्रिये ॥ २४॥
धनार्थी प्राप्नुयादर्थं मोक्षार्थी मोक्षमाप्नुयात् ।
दारार्थी प्राप्नुयाद् दारान् सर्वागमदितान् ॥ २५॥
अष्टम्यां च शतावृत्त्या प्रपठेद् यदि मानवः ।
सत्यं सिद्ध्यति देवेशि संशयो नास्ति कश्चन ॥ २६॥
इति सत्यं पुनः सत्यं सत्यं सत्यं महेश्वरि ।
अस्मात् परतरं नास्ति स्तोत्रमध्ये न संशयः ॥ २७॥
नाम्नां शतं पठेद् मन्त्रं संजप्य भक्तिभावतः ।
प्रत्यहं प्रपठेद् देवि यदीच्छेत् शुभमात्मनः ॥ २८॥
इदानीं कथयिष्यामि विद्योत्पत्तिं वरानने ।
येन विज्ञानमात्रेण विजयी भुवि जायते ॥ २९॥
योनिबीजत्रिरावृत्त्या मध्यरात्रौ वरानने ।
अभिमन्त्र्य जलं स्निग्धं अष्टोत्तरशतेन च ॥ ३०॥


तज्जलं तु पिबेद् देवि षण्मासं जपते यदि ।
सर्वविद्यामयो भूत्वा मोदते पृथिवीतले ॥ ३१॥
शक्तिरूपां महादेवीं शृणु हे नगनन्दिनि ।
वैष्णवः शैवमार्गो वा शाक्तो वा गाणपोऽपि वा ॥ ३२॥
तथापि शक्तेराधिक्यं शृणु भैरवसुन्दरि ।
सच्चिदानन्दरूपाच्च सकलात् परमेश्वरात् ॥ ३३॥
शक्तिरासीत् ततो नादो नादाद् बिन्दुस्ततः परम् ।
अथ बिन्द्वात्मनः कालरूपबिन्दुकलात्मनः ॥ ३४॥
जायते च जगत्सर्वं सस्थावरचरात्मकम् ।
श्रोतव्यः स च मन्तव्यो निर्ध्यातव्यः स एव हि ॥ ३५॥
साक्षात्कार्यश्च देवेशि आगमैर्विविधैः शिवे ।
श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यो मननादिभिः ॥ ३६॥
उपपत्तिभिरेवायं ध्यातव्यो गुरुदेशतः ।
तदा स एव सर्वात्मा प्रत्यक्षो भवति क्षणात् ॥ ३७॥
तस्मिन् देवेशि प्रत्यक्षे शृणुष्व परमेश्वरि ।
भावैर्बहुविधैर्देवि भावस्तत्रापि नीयते ॥ ३८॥
भक्तेभ्यो नानाघासेभ्यो गवि चैको यथा रसः ।
सदुग्धाख्यसंयोगे नानात्वं लभते प्रिये ॥ ३९॥
तृणेन जायते देवि रसस्तस्मात् परो रसः ।
तस्मात् दधि ततो हव्यं तस्मादपि रसोदयः ॥ ४०॥
स एव कारणं तत्र तत्कार्यं स च लक्ष्यते ।
दृश्यते च महादेन कार्यं न च कारणम् ॥ ४१॥
तथैवायं स एवात्मा नानाविग्रहयोनिषु ।
जायते च ततो जातः कालभेदो हि भाव्यते ॥ ४२॥
स जातः स मृतो बद्धः स मुक्तः स सुखी पुमान् ।
स वृद्धः स च विद्वांश्च न स्त्री पुमान् नपुंसकः ॥ ४३॥
नानाध्याससमायोगादात्मना जायते शिवे ।
एक एव स एवात्मा सर्वरूपः सनातनः ॥ ४४॥
अव्यक्तश्च स च व्यक्तः प्रकृत्या ज्ञायते ध्रुवम् ।
तस्मात् प्रकृतियोगेन विना न ज्ञायते क्वचित् ॥ ४५॥


विना घटत्वयोगेन न प्रत्यक्षो यथा घटः ।
इतराद् भिद्यमानोऽपि स भेदमुपगच्छति ॥ ४६॥
मां विना पुरुषे भेदो न च याति कथञ्चन ।
न प्रयोगैर्न च ज्ञानैर्न श्रुत्या न गुरुक्रमैः ॥ ४७॥
न स्नानैस्तर्पणैर्वापि नच दानैः कदाचन ।
प्रकृत्या ज्ञायते ह्यात्मा प्रकृत्या लुप्यते पुमान् ॥ ४८॥
प्रकृत्याधिष्ठितं सर्वं प्रकृत्या वञ्चितं जगत् ।
प्रकृत्या भेदमाप्नोति प्रकृत्याभेदमाप्नुयात् ॥ ४९॥
नरस्तु प्रकृतिर्नैव न पुमान् परमेश्वरः ।
इति ते कथितं तत्त्वं सर्वसारमनोरमम् ॥ ५०॥

 श्री तारा शतनाम स्तोत्रम् -


श्री तारा शतनाम स्तोत्रम् -

श्रीशिव उवाच ॥


तारिणी तरला तन्वी तारा तरुणवल्लरी ।

तीररूपा तरी श्यामा तनुक्षीणपयोधरा ॥ १॥


तुरीया तरला तीव्रगमना नीलवाहिनी ।

उग्रतारा जया चण्डी श्रीमदेकजटाशिराः ॥ २॥


तरुणी शाम्भवीछिन्नभाला च भद्रतारिणी ।

उग्रा चोग्रप्रभा नीला कृष्णा नीलसरस्वती ॥ ३॥


द्वितीया शोभना नित्या नवीना नित्यनूतना ।

चण्डिका विजयाराध्या देवी गगनवाहिनी ॥ ४॥


अट्टहास्या करालास्या चरास्या दितिपूजिता ।

सगुणा सगुणाराध्या हरीन्द्रदेवपूजिता ॥ ५॥


रक्तप्रिया च रक्ताक्षी रुधिरास्यविभूषिता ।

बलिप्रिया बलिरता दुर्गा बलवती बला ॥ ६॥


बलप्रिया बलरता बलरामप्रपूजिता ।

अर्धकेशेश्वरी केशा केशवासविभूषिता ॥ ७॥


पद्ममाला च पद्माक्षी कामाख्या गिरिनन्दिनी ।

दक्षिणा चैव दक्षा च दक्षजा दक्षिणे रता ॥ ८॥


वज्रपुष्पप्रिया रक्तप्रिया कुसुमभूषिता ।

माहेश्वरी महादेवप्रिया पञ्चविभूषिता ॥ ९ ॥


इडा च पिङ्गला चैव सुषुम्ना प्राणरूपिणी ।

गान्धारी पञ्चमी पञ्चाननादि परिपूजिता ॥ १०॥


तथ्यविद्या तथ्यरूपा तथ्यमार्गानुसारिणी ।

तत्त्वप्रिया तत्त्वरूपा तत्त्वज्ञानात्मिकाऽनघा ॥ ११॥


ताण्डवाचारसन्तुष्टा ताण्डवप्रियकारिणी ।

तालदानरता क्रूरतापिनी तरणिप्रभा ॥ १२॥


त्रपायुक्ता त्रपामुक्ता तर्पिता तृप्तिकारिणी ।

तारुण्यभावसन्तुष्टा शक्तिर्भक्तानुरागिणी ॥ १३॥


शिवासक्ता शिवरतिः शिवभक्तिपरायणा ।

ताम्रद्युतिस्ताम्ररागा ताम्रपात्रप्रभोजिनी ॥ १४॥


बलभद्रप्रेमरता बलिभुग्बलिकल्पिनी ।

रामरूपा रामशक्ती रामरूपानुकारिणी ॥ १५॥


इत्येतत्कथितं देवि रहस्यं परमाद्भुतम् ।

श्रुत्वा मोक्षमवाप्नोति तारादेव्याः प्रसादतः ॥ १६॥


य इदं पठति स्तोत्रं तारास्तुतिरहस्यकम् ।

सर्वसिद्धियुतो भूत्वा विहरेत् क्षितिमण्डले ॥ १७॥


तस्यैव मन्त्रसिद्धिः स्यान्ममसिद्धिरनुत्तमा ।

भवत्येव महामाये सत्यं सत्यं न संशयः ॥ १८॥


मन्दे मङ्गलवारे च यः पठेन्निशि संयतः ।

तस्यैव मन्त्रसिद्धिस्स्याद्गाणपत्यं लभेत सः ॥ १९॥


श्रद्धयाऽश्रद्धया वापि पठेत्तारारहस्यकम् ।

सोऽचिरेणैव कालेन जीवन्मुक्तः शिवो भवेत् ॥ २०॥


सहस्रावर्तनाद्देवि पुरश्चर्याफलं लभेत् ।

एवं सततयुक्ता ये ध्यायन्तस्त्वामुपासते ।

ते कृतार्था महेशानि मृत्युसंसारवर्त्मनः ॥ २१॥


 माँ तारा अष्टोत्तर शतनामावली ||

माँ तारा अष्टोत्तर शतनामावली ||
श्रीतारिण्यै नमः ।
श्रीतरलायै नमः ।
श्रीतन्व्यै नमः ।
श्रीतारायै नमः ।
श्रीतरुणवल्लर्यै नमः ।
श्रीतीव्ररूपयै नमः ।
श्रीतर्यै नमः ।
श्रीश्यामायै नमः ।
श्रीतनुक्षीणायै नमः ।
श्रीपयोधरायै नमः । 
श्रीतुरीयायै नमः ।
श्रीतरुणायै नमः ।
श्रीतीव्रायै नमः ।
श्रीतीव्रगमनायै नमः ।
श्रीनीलवाहिन्यै नमः ।
श्रीउग्रतारायै नमः ।
श्रीजयायै नमः ।
श्रीचण्ड्यै नमः ।
श्रीश्रीमदेकजटायै नमः ।
श्रीशिवायै नमः । 
श्रीतरुण्यै नमः ।
श्रीशाम्भव्यै नमः ।
श्रीछिन्नभालायै नमः ।
श्रीभद्रतारिण्यै नमः ।
श्रीउग्रायै नमः । 


श्रीउग्रप्रभायै नमः ।
श्रीनीलायै नमः ।
श्रीकृष्णायै नमः ।
श्रीनीलसरस्वत्यै नमः ।
श्रीद्वितीयायै नमः । 
श्रीशोभिन्यै नमः ।
श्रीनित्यायै नमः ।
श्रीनवीनायै नमः ।
श्रीनित्यनूतनायै नमः ।
श्रीचण्डिकायै नमः ।
श्रीविजयायै नमः ।
श्रीआराध्यायै नमः ।
श्रीदेव्यै नमः ।
श्रीगगनवाहिन्यै नमः ।
श्रीअट्टहास्यायै नमः । 
श्रीकरालास्यायै नमः ।
श्रीचतुरास्यापूजितायै नमः ।
श्रीअदितिपूजितायै नमः ।
श्रीरुद्रायै नमः ।
श्रीरौद्रमय्यै नमः ।
श्रीमूर्त्यै नमः ।
श्रीविशोकायै नमः ।
श्रीशोकनाशिन्यै नमः ।
श्रीशिवपूज्यायै नमः ।
श्रीशिवाराध्यायै नमः । 
श्रीशिवध्येयायै नमः ।
श्रीसनातन्यै नमः ।
श्रीब्रह्मविद्यायै नमः ।
श्रीजगद्धात्र्यै नमः ।
श्रीनिर्गुणायै नमः ।
श्रीगुणपूजितायै नमः ।
श्रीसगुणायै नमः ।
श्रीसगुणाराध्यायै नमः ।
श्रीहरिपूजितायै नमः ।
श्रीइन्द्रपूजितायै नमः । 
श्रीदेवपूजितायै नमः ।
श्रीरक्तप्रियायै नमः ।
श्रीरक्ताक्ष्यै नमः ।
श्रीरुधिरभूषितायै नमः ।
श्रीआसवभूषितायै नमः ।
श्रीबलिप्रियायै नमः ।
श्रीबलिरतायै नमः ।
श्रीदुर्गायै नमः ।
श्रीबलवत्यै नमः ।
श्रीबलायै नमः । 
श्रीबलप्रियायै नमः ।
श्रीबलरतायै नमः ।
श्रीबलरामप्रपूजितायै नमः ।
श्रीअर्द्धकेशायै नमः ।
श्रीईश्वर्यै नमः । 
श्रीकेशायै नमः ।
श्रीकेशवविभूषितायै नमः ।
श्रीईशविभूषितायै नमः ।
श्रीपद्ममालायै नमः ।
श्रीपद्माक्ष्यै नमः । 
श्रीकामाख्यायै नमः ।
श्रीगिरिनन्दिन्यै नमः ।
श्रीदक्षिणायै नमः ।
श्रीदक्षायै नमः ।
श्रीदक्षजायै नमः ।
श्रीदक्षिणेरतायै नमः ।
श्रीवज्रपुष्पप्रियायै नमः ।
श्रीरक्तप्रियायै नमः ।
श्रीकुसुमभूषितायै नमः ।
श्रीमाहेश्वर्यै नमः । 
श्रीमहादेवप्रियायै नमः ।
श्रीपञ्चविभूषितायै नमः ।
श्रीइडायै नमः ।
श्रीपिङ्ग्लायै नमः ।
श्रीसुषुम्णायै नमः ।
श्रीप्राणरूपिण्यै नमः ।
श्रीगान्धार्यै नमः ।
श्रीपञ्चम्यै नमः ।
श्रीपञ्चाननपरिपूजितायै नमः ।
श्रीआदिपरिपूजितायै नमः ।
 माँ तारा स्तोत्र ||| 

माँ तारा स्तोत्र |||
मातर्नीलसरस्वति प्रणमतां सौभाग्यसम्पत्प्रदे प्रत्यालीढपदस्थिते शवहृदि स्मेराननाम्भोरुहे ।
फुल्लेन्दीवरलोचनत्रययुते कर्तीकपालोत्पले खड्गं चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये॥ १॥

वाचामीश्वरि भक्तकल्पलतिके सर्वार्थसिद्धीश्वरि सद्यः प्राकृतगद्यपद्यरचनासर्वार्थसिद्धिप्रदे। 
नीलेन्दीवरलोचनत्रययुते कारुण्यवारांनिधे सौभाग्यामृतवर्षणेन कृपया सिञ्च त्वमस्मादृशम्॥ २॥

खर्वे गर्वसमहपूरिततनो सर्पादिभूषोज्ज्वले व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते।
सद्यःकृत्तगलद्रजःपरिलसन्मुण्डद्वयीमूर्धज ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय॥ ३॥

मायानङ्गविकाररूपललनाबिन्द्वर्धचन्द्रात्मिकेहुंफट्कारमयि त्वमेव शरणं मन्त्रात्मिके मादृशः।
मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परावेदनां नहि गोचरा कथमपि प्राप्तां नु तामाश्रये॥ ४॥

त्वत्पादाम्बुजसेवया सुकृतिनो गच्छन्ति सायुज्यतांतस्य श्रीपरमेश्वरी त्रिनयनब्रह्मादिसौम्यात्मनः।
संसाराम्बुधिमज्जने पटुतनून् देवेन्द्रमुख्यान् सुरान्मातस्त्वत्पदसेवने हि विमुखान् को मन्दधीः सेवते॥ ५॥

मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिणस्ते देवासुरसंगरे विजयिनो निःशङ्कमङ्के गताः।
देवोऽहं भुवने न मे सम इति स्पर्द्धां वहन्तः परेतत्तुल्या नियतं तथा चिरममी नाशं व्रजन्ति स्वयम्॥ ६॥
त्वन्नामस्मरणात् पलायनपरा द्रष्टुं च शक्ता न ते भूतप्रेतपिशाचराक्षसगणा यक्षाश्च नागाधिपाः।
दैत्या दानवपुङ्गवाश्च खचरा व्याघ्रादिका जन्तवोडाकिन्यः कुपितान्तकाश्च मनुजा मातः क्षणं भूतले॥ ७॥

लक्ष्मीः सिद्धगणाश्च पादुकमुखाः सिद्धास्तथा वारिणांस्तम्भश्चापि रणाङ्गणे गजघटास्तम्भस्तथा मोहनम्।
मातस्त्वत्पदसेवया खलु नृणां सिद्ध्यन्ति ते ते गुणाः कान्तिः कान्ततरा भवेच्च महती मूढोऽपि वाचस्पतिः॥ ८॥

ताराष्टकमिदं रम्यं भक्तिमान् यः पठेन्नरः। प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः॥ ९॥
लभते कवितां दिव्यां सर्वशास्त्रार्थविद् भवेत्। लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान् यथेप्सितान्॥ १०॥

कीर्ति कान्तिं च नैरुज्यं सर्वेषां प्रियतां व्रजेत्।विख्यातिं चैव लोकेषु प्राप्यान्ते मोक्षमाप्नुयात्॥ ११॥

माँ तारा अष्टकम || 


मातर्नीलसरस्वति प्रणमतां सौभाग्यसंपत्प्रदे,

प्रत्यालीढपदस्थिते शिवहृदि स्मेराननांभोरुहे।

फुल्लेन्दीवरलोचनत्रययुते कर्त्री कपालोत्पले,

खड्गञ्चादधती त्वमेव शरणं त्वामीश्वरीमाश्रये ॥१॥

वाचामीश्वरि भक्तकल्पलतिके सर्वाथसिद्धिप्रदे,

गद्यप्राकृतपद्यजातरचनासर्वस्वसिद्धिप्रदे।

नीलेन्दीवरलोचनत्रययुते कारुण्यवारांनिधे,

सौभाग्यामृतवर्षणेनकृपया सिञ्च त्वमस्मादृशम्॥२॥

सर्वे गर्वसमूहपूरिततनो सर्पादिवेषोज्ज्वले,

व्याघ्रत्वक्परिवीतसुन्दरकटिव्याधूतघण्टाङ्किते।

सद्यःकृत्तगलद्रजःपरिमिलन्मुण्डद्वयीमूर्धज,

ग्रन्थिश्रेणिनृमुण्डदामललिते भीमे भयं नाशय ॥३॥

मायानङ्गविकाररूपललनाबिन्द्वर्धचन्द्रात्मिके,

हुंफट्कारमयी त्वमेव शरणं मन्त्रात्मिके मादृशाम्।

मूर्तिस्ते जननि त्रिधामघटिता स्थूलातिसूक्ष्मा परा,

वेदानाम् न हि गोचरा कथमपि प्राप्तां नु तामाश्रये ॥४॥

यत्पादांबुजसेवया सुकृतिनो गच्छन्ति सायुज्यतां,

तस्य स्त्री परमेश्वरि त्रिनयना ब्रह्मादिसाम्यात्मनः।

संसारांबुधिमज्जने पटुतनू देवेन्द्रमुख्यान् सुरान्

मातस्त्वत्पदसेवने हि विमुखो यो मन्दधीः सेवते॥५॥

मातस्त्वत्पदपङ्कजद्वयरजोमुद्राङ्ककोटीरिण,

स्ते देवा जयसंगरे विजयिनो निश्शङ्कमङ्के गताः।

देवोऽहं भुवने न मे सम इति स्पर्धां वहन्तः परे,

तत्तुल्यं नियतं यथासुभिरमी नाशं व्रजन्ति स्वयम् ॥६॥

त्वन्नामस्मरणात् पलायनपरा द्रष्टुं च शक्ता न ते,

भूतप्रेतपिशाचराक्षसगणा यक्षाश्च नागाधिपाः।

दैत्या दानवपुङ्गवाशच खचरा व्याघ्रादिका जन्तवो,

डाकिन्यः कुपितान्तकाश्च मनुजं मातः क्षणं भूतले ॥७॥

लक्ष्मीः सिद्धिगणाश्च पादुकमुखा सिद्धिस्तथा वारिणः,

स्तंभाश्चापि रणाङ्गणॆ गजघटा स्तंभस्तथा मोहनम्।

मातस्त्वत्पदसेवया खलु नृणां सिद्ध्यन्ति ते ते गुणाः,

कान्तिः कान्तमनोभवस्य भवति क्षुद्रोऽपि वाचस्पतिः ॥८॥

ताराष्टकमिदं रम्यं भक्तिमान् यः पठेन्नरः।

प्रातर्मध्याह्नकाले च सायाह्ने नियतः शुचिः॥९॥

लभते कवितां दिव्यां सर्वशास्त्रार्थविद्भवेत् ।

लक्ष्मीमनश्वरां प्राप्य भुक्त्वा भोगान् यथेप्सितान्॥१०॥

कीर्तिं कान्तिं च नैरुज्यं सर्वेषां प्रियतां व्रजेत्।


 माँ तारा प्रत्यंगिरा कवच || 


|| ईश्वर उवाच ||
ॐ तारायाः स्तम्भिनी देवी मोहिनी क्षोभिनी तथा ।
हस्तिनी भ्रामिनी रौद्री संहारण्यापि तारिणी ॥ १ ॥

शक्तयोहष्टौ क्रमादेता शत्रुपक्षे नियोजिताः ।
धारिता साधकेन्द्रेण सर्वशत्रु निवारिणी ॥ २ ॥

|| कवचमारम्भम् ||

ॐ स्तम्भिनी स्त्रें स्त्रें मम शत्रुन् स्तम्भय स्तम्भय ॥ ३ ॥

ॐ क्षोभिनी स्त्रें स्त्रें मम शत्रुन् क्षोभय क्षोभय ॥ ४ ॥

ॐ मोहिनी स्त्रें स्त्रें मम शत्रुन् मोहय मोहय ॥ ५ ॥

ॐ जृम्भिनी स्त्रें स्त्रें मम शत्रुन् जृम्भय जृम्भय ॥ ६ ॥

ॐ भ्रामिनी स्त्रें स्त्रें मम शत्रुन् भ्रामय भ्रामय ॥ ७ ॥

ॐ रौद्री स्त्रें स्त्रें मम शत्रुन् सन्तापय सन्तापय ॥ ८॥

ॐ संहारिणी स्त्रें स्त्रें मम शत्रुन् संहारय संहारय ॥ ९ ॥

ॐ तारिणी स्त्रें स्त्रें सर्वपद्भ्यः सर्वभूतेभ्यः सर्वत्र रक्ष रक्ष मां स्वाहा ॥ १० ॥
|| फलश्रुति ||
य इमां धारयेत् विद्यां त्रिसन्ध्यं वापि यः पठेत् ।
स दुःखं दूरतस्त्यक्त्वा ह्यन्याच्छ्त्रुन् न संशयः ॥ ११ ॥

रणे राजकुले दुर्गे महाभये विपत्तिषु ।
विद्या प्रत्यङ्गिरा ह्येषा सर्वतो रक्षयेन्नरं ॥ १२ ॥

अनया विद्यया रक्षां कृत्वा यस्तु पठेत् सुधी ।
मन्त्राक्षरमपि ध्यायन् चिन्तयेत् नीलसरस्वतीं ।
अचिरे नैव तस्यासन् करस्था सर्वसिद्धयः

ॐ ह्रीं उग्रतारायै नीलसरस्वत्यै नमः ॥ १३ ॥

इमं स्तवं धीयानो नित्यं धारयेन्नरः ।
सर्वतः सुखमाप्नोति सर्वत्रजयमाप्नुयात् ॥ १४ ॥

नक्कापि भयमाप्नोति सर्वत्रसुखमाप्नुयात् ॥ १५ ॥
 
श्री षोडशी त्रिपुर सुन्दरी अष्टकम ||

कदम्बवनचारिणीं मुनिकदम्बकादम्बिनीं,
नितम्बजित भूधरां सुरनितम्बिनीसेविताम् ।

नवाम्बुरुहलोचनामभिनवाम्बुदश्यामलां,
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ १॥

कदम्बवनवासिनीं कनकवल्लकीधारिणीं,
महार्हमणिहारिणीं मुखसमुल्लसद्वारुणीम् ।

दयाविभवकारिणीं विशदलोचनीं चारिणीं,
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ २॥

कदम्बवनशालया कुचभरोल्लसन्मालया,
कुचोपमितशैलया गुरुकृपालसद्वेलया ।

मदारुणकपोलया मधुरगीतवाचालया,
कयाऽपि घननीलया कवचिता वयं लीलया ॥ ३॥

कदम्बवनमध्यगां कनकमण्डलोपस्थितां,
षडम्बुरुहवासिनीं सततसिद्धसौदामिनीम् ।

विडम्बितजपारुचिं विकचचंद्रचूडामणिं,
त्रिलोचनकुटुम्बिनीं त्रिपुरसुन्दरीमाश्रये ॥ ४॥

कुचाञ्चितविपञ्चिकां कुटिलकुन्तलालंकृतां,
कुशेशयनिवासिनीं कुटिलचित्तविद्वेषिणीम् ।

मदारुणविलोचनां मनसिजारिसंमोहिनीं,
मतङ्गमुनिकन्यकां मधुरभाषिणीमाश्रये ॥ ५॥

स्मरप्रथमपुष्पिणीं रुधिरबिन्दुनीलाम्बरां,
गृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्चलां ।

घनस्तनभरोन्नतां गलितचूलिकां श्यामलां,
त्रिलोचनकुटुंबिनीं त्रिपुरसुन्दरीमाश्रये ॥ ६॥

सकुङ्कुमविलेपनामलकचुंबिकस्तूरिकां,
समन्दहसितेक्षणां सशरचापपाशाङ्कुशाम् ।

अशेषजनमोहिनीमरुणमाल्य भूषाम्बरां,
जपाकुसुमभासुरां जपविधौ स्मराम्यम्बिकाम् ॥ ७॥

पुरंदरपुरंध्रिकां चिकुरबन्धसैरंध्रिकां,
पितामहपतिव्रतां पटपटीरचर्चारताम् ।

मुकुन्दरमणीमणीलसदलंक्रियाकारिणीं,
भजामि भुवनांबिकां सुरवधूटिकाचेटिकाम् ॥ ८॥
 
माँ षोडशी त्रिपुर सुन्दरी स्तोत्र ||

कदम्ब वन चारिणी मुनि कदम्ब कदम्ब कादम्बिनी, नितम्ब जित भूधरा सुर नितम्बिनी सेवितां |


नवाम्बू रूह्लोचना ममि नवाम्बुदः श्यामला, त्रिलोचन कुटुम्बिनी त्रिपुर सुंदरी माश्रये |1|

कदम्ब वन वासिनी कनक बल्लकी धारिणी, महा मणि हारिणी मुखसमुल्ल शद्वारूणी| 

दया विभव कारिणी विशद लोचनी चारिणी, त्रिलोचन कुटुम्बिनी त्रिपुर सुंदरी माश्रये |2|

कदम्ब वन शालया कुच भशेल्ल सन्मालया, कुचोपमित शैलया गुरुकृपाल्लश द्वेलया | 

भदारुण कपोलया मधुर गीत वाचालया , कयापि घन नीलया कवचिता वय लीलया |3| 

कदम्ब वन मध्यगा कनक मण्डलो पस्यितां, खड़म्बु रूह वासिनी सतत शिद्ध सौदामिनिम | 

विडम्तित जपारुचिं विक चन्यंद्र चूड़ामिणी, त्रिलोचन कुटुम्बिनी त्रिपुर सुंदरी माश्रये |4| 

कुचांचित विपंचिका कुटिल कुन्तला लंकृतां, कुशेशय निवाशिनी कुटिलचित्त विद्वेशिणी |

मदरूण विलोचनां मनसिजारी सम्मोहिनिमा, मतंग मुनिकन्यकां मधुर भाषिणी माश्रये |5|

स्मरेत्प्रथम पुष्पिणी रुधिर विन्दुनीलाम्बरा, गृहीत माधुपत्रिका मधु विधुर्ण नेत्रान्चालां |

घनस्तन भरोन्नता पलित चुलिकां श्यामला, त्रिलोचन कुटुम्बिनी त्रिपुर सुंदरी माश्रये |6|

सुकुंकुम विलेपनां मालक चुम्बि कस्तूरिकां, समंद हसितेक्षणां सशरचाप पाशांकुशां | 

असेष जनमोहिनी मरूण माल्य भुषाम्बरा, जपाकुशुम भाशुरां जपविधौ स्मराम्यम्बिकाम |7| 

पुरंदर पुरान्ध्रिका चिकुरबंध सौरंध्रिका, पितामह पतिव्रतां पटुपटीर चचरितां | 

मुकुंद रमणी मणि भश्दलंक्रिया कारिणी, भजामि भुवनम्बिकां सुखधुटिका चोटिकाम |8| 

 श्री ललिता पञ्चरत्नं स्तोत्र ||

प्रातः स्मरामि ललितावदनारविन्दं बिम्बाधरं पृथुलमौक्तिकशोभिनासम् ।
आकर्णदीर्घनयनं मणिकुण्डलाढ्यं मन्दस्मितं मृगमदोज्ज्वलफालदेशम् ॥१॥

प्रातर्भजामि ललिताभुजकल्पवल्लीं रक्ताङ्गुलीयलसदङ्गुलिपल्लवाढ्याम् ।
माणिक्यहेमवलयाङ्गदशोभमानां पुण्ड्रेक्षुचापकुसुमेषुसृणीर्दधानाम् ॥२॥

प्रातर्नमामि ललिताचरणारविन्दं भक्तेष्टदाननिरतं भवसिन्धुपोतम् ।
पद्मासनादिसुरनायकपूजनीयं पद्माङ्कुशध्वजसुदर्शनलाञ्छनाढ्यम् ॥३॥

प्रातः स्तुवे परशिवां ललितां भवानीं त्रय्यन्तवेद्यविभवां करुणानवद्याम् ।
विश्वस्य सृष्टिविलयस्थितिहेतुभूतां विद्येश्वरीं निगमवाङ्मनसातिदूराम् ॥४॥

प्रातर्वदामि ललिते तव पुण्यनाम कामेश्वरीति कमलेति महेश्वरीति ।
श्रीशाम्भवीति जगतां जननी परेति वाग्देवतेति वचसा त्रिपुरेश्वरीति ॥५॥

यः श्लोकपञ्चकमिदं ललिताम्बिकायाः सौभाग्यदं सुललितं पठति प्रभाते ।
तस्मै ददाति ललिता झटिति प्रसन्ना विद्यां श्रियं विमलसौख्यमनन्तकीर्तिम् ॥६॥
 त्रिपुर सुन्दरी वेद पाद स्तोत्रम् || 


वेदपादस्तवं वक्ष्ये देव्याः प्रियचिकीर्षया ।
यथामति मतिं देवस्तन्नो दन्तिः प्रचोदयात् ॥१॥

अकिञ्चित्करकर्मभ्यः प्रत्याहृत्य कृपावशात् ।
सुब्रह्मण्यः स्तुतावस्यां तन्नः षण्मुखः प्रचोदयात् ॥२॥

अकारादिक्षकारान्तवर्णावयवशालिनी ।
वीणापुस्तकहस्ताऽव्यात् प्रणो देवी सरस्वती ॥३॥

या वर्णपदवाक्यार्थगद्यपद्यस्वरूपिणी ।
वाचि नर्त्तयतु क्षिप्रं मेधां देवी सरस्वती ॥४॥

उपास्यमाना विप्रेन्द्रैः संध्यासु च तिसृष्वपि ।
सद्यः प्रसीद मे मातः संध्याविद्ये सरस्वती ॥५॥

मन्दा निन्दालोलुपाऽहं स्वभावात् एतत्स्तोत्रं पूर्यते किं मयेति ।
मा ते भीतिर्हे मते त्वादृशानाम् एषा नेत्री राधसा सूनृतानाम् ॥६॥

तरङ्गभृ(/भ्रु)कुटीकोटिभङ्ग्या तर्जयते जराम् ।
सुधामयाय शुभ्राय सिन्धूनां पतये नमः ॥७॥

तस्य मध्ये मणिद्वीपः कल्पकारामभूषितः ।
अस्तु मे ललितावासः स्वस्तिदा अभयंकरः ॥८॥

कदम्बमञ्जरीनिर्यद्वारुणीपारणोन्मदैः ।
द्विरेफैर्वर्णनीयाय वनानां पतये नमः ॥९॥

तत्र वप्रावलीलीलागगनोल्लङ्घिगोपुरम् ।
मातः कौतूहलं दद्यात्सु(/सं)हार्यं नगरं तव ॥१०॥

मकरन्दझरीमज्जन्मिलिन्दकुलसंकुलाम् ।
महापद्माटवीं वन्दे यशसा सम्परीवृताम् ॥११॥

तत्रैव चिन्तामणिधोरणार्चिभिः(णोर्चिभिः) विनिर्मितं रोपितरत्नशृङ्गम् ।
भजे भवानीभवनावतंसम् आदित्यवर्णं तमसः परस्तात् ॥१२॥

मुनिभिः स्वात्मलाभाय यच्चक्रं हृदि सेव्यते ।
तत्र पश्यामि बुद्ध्या तद् अक्षरे परमे व्योमन् ॥१३॥

पञ्चब्रह्ममयो मञ्चस्तत्र यो बिन्दुमध्यगः ।
तव कामेशि वासोऽयमायुष्मन्तं करोतु माम् ॥१४॥

नानारत्नगुलुच्छालीकान्तिकिर्मीरि(/म्मीलि)तोदरम् ।
विमृशामि वितानं तेऽतिश्लक्ष्णमतिलोमशम् ॥१५॥

पर्यङ्कतल्पोपरि दर्शनीयं सबाणचापाङ्कुशपाशपाणिम् ।
अशेषभूषारमणीयमीडे त्रिलोचनं नीलकण्ठं प्रशान्तम् ॥१६॥

जटारुणं चन्द्रकलाललामम् उद्वेललावण्यकलाभिरामम् ।
कामेश्वरं कामशरासनाङ्कं समस्तसाक्षिं तमसः परस्तात् ॥१७॥

तत्र कामेशवामाङ्के खेलन्तीमलिकुन्तलाम् ।
सच्चिदानन्दलहरीं महालक्ष्मीमुपास्महे ॥१८॥

चारुगोरोचनापङ्कजम्बालितघनस्तनीम् ।
नमामि त्वामहं लोकमातरं पद्ममालिनीम् ॥१९॥

शिवे नमन्निर्जरकुञ्जरासुर- प्रतोलिकामौलिमरीचिवीचिभिः ।
इदं तव क्षालनजातसौभगं चरणं नो लोके सुधितां दधातु ॥२०॥

कल्पस्यादौ कारणेशानपि त्रीन् स्रष्टुं देवि त्रीन्गुणानादधानाम् ।
सेवे नित्यं श्रेयसे भूयसे त्वाम् अजामेकां लोहितशुक्लकृष्णाम् ॥२१॥

केशोद्भूतैरद्भुतामोदपूरैः आशाबृन्दं सान्द्रमापूरयन्तीम् ।
त्वामानम्य त्वत्प्रसादात्स्वयंभूः अस्मान्मायी सृजते विश्वमेतत् ॥२२॥

अर्धोन्मीलद्यौवनोद्दामदर्पां दिव्याकल्पैरर्पयन्तीं मयूखान् ।
देवि ध्यात्वा त्वां पुरा कैटभारिः विश्वं बिभर्ति भुवनस्य नाभिः ॥२३॥

कह्लारश्रीमञ्जरीपुञ्जरीतिं धिक्कुर्वन्तीमम्ब ते पाटलिम्ना ।
मूर्तिं ध्यात्वा शाश्वतीं भूतिमायन् इन्द्रो राजा जगतो य ईशे ॥२४॥

देवतान्तरमन्त्रौघजपश्रीफलभूतया ।
जापकस्तव देव्यन्ते विद्यया विन्दतेऽमृतम् ॥२५॥

पुंस्कोकिलकलक्वाणकोमलालापशालिनि ।
भद्राणि कुरु मे मातर्दुरितानि परासुव ॥२६॥

अन्तेवासिन्नस्ति चेत्ते मुमुक्षा वक्ष्ये युक्तिं मुक्तसर्वैषणस्सन् ।
सद्भ्यः साक्षात् सुन्दरीं ज्ञप्तिरूपां श्रद्धाभक्तिज्ञानयोगादवेहि ॥२७॥

षोढान्यासादिदेवैश्च सेविता चक्रमध्यगा ।
कामेशमहिषी भूयः षोडशी शर्म यच्छतु ॥२८॥

शान्तो दान्तो देशिकेन्द्रं प्रणम्य तस्यादेशात्तारकं मन्त्रतत्त्वम् ।
जानीते चेदम्ब धन्यः समानं नातः परं वेदितव्यं हि किञ्चित् ॥२९॥

त्वमेव कारणं कार्यं क्रिया ज्ञानं त्वमेव च ।
त्वामम्ब न विना किञ्चित् त्वयि सर्वं प्रतिष्ठितम् ॥३०॥

परागमद्रीन्द्रसुते तवाङ्घ्रि- सरोजयोरम्ब दधामि मूर्ध्ना ।
अलंकृतं वेद(/देव)वधूशिरोभि-र्यतो जातो भुवनानि विश्वा ॥३१॥

दुष्टान् दैत्यान् हन्तुकामां महर्षीन् शिष्टानन्यान् पातुकामां कराब्जैः ।
अष्टाभिस्त्वां सायुधैर्भासमानां दुर्गां देवीं शरणमहं प्रपद्ये ॥३२॥

देवि सर्वानवद्याङ्गीं त्वामनादृत्य ये क्रियाः ।
कुर्वन्ति निष्फलास्तेषामदुग्धा इव धेनवः ॥३३॥

नाहं मन्ये दैवतं मान्यमन्यत् त्वत्पादाब्जादम्बिके कुम्भजाद्याः ।
ये ध्यातारो भक्तिसंशुद्धचित्ताः परामृतात् परिमुच्यन्ति सर्वे ॥३४॥

कुर्वाणोऽपि दुरारम्भान् तव नामानि शांभवि ।
प्रजपन्नेति मायान्तम् अतिमृत्युं तराम्यहम् ॥३५॥

कल्याणि त्वं कुन्दहासप्रकाशैः अन्तर्ध्वान्तं नाशयन्ती क्षणेन ।
हन्तास्माकं ध्यायतां त्वत्पदाब्जम् उच्चतिष्ठ महते सौभगाय ॥३६॥

तितीर्षया भवाम्भोधेर्हयग्रीवादयः पुरा ।
अप्रमत्ता भवत्पूजां सुविद्वांसो वितेनिरे ॥३७॥

मद्वंश्या ये दुराचारा ये च सन्मार्गगामिनः ।
भवत्याः कृपया सर्वे सुवर्यन्तु यजमानाः ॥३८॥

श्रीचक्रस्थां शाश्वतैश्वर्यदात्रीं पौण्ड्रं चापं पुष्पबाणान्दधानाम् ।
बन्धूकाभां भावयामि त्रिनेत्रां तामग्निवर्णां तपसा ज्वलन्तीम् ॥३९॥

भवानि तव पादाब्जनिर्णेजनपवित्रिताः ।
भवामयप्रशान्त्यै त्वामपो याचामि भेषजम् ॥४०॥

चिदानन्दसुधाम्भोधेस्तवानन्दलवोऽस्ति यः ।
कारणेशैस्त्रिभिस्साकं तद्विश्वमुपजीवति ॥४१॥

नो वा यागैर्नैव पूर्तादिकृत्यैः नो वा जप्यैर्नो महद्भिस्तपोभिः ।
नो वा योगैः क्लेशकृद्भिः सुमेधा निचाय्येमां शान्तिमत्यन्तमेति ॥४२॥

प्रातः पाहि महाविद्ये मध्याह्ने तु मृडप्रिये ।
सायं पाहि जगद्वन्द्ये पुनर्नः पाहि विश्वतः ॥४३॥

बन्धूकाभैर्भानुभिर्भासयन्ती विश्वं शश्वत्तुङ्गपीनस्तनार्धा ।
लावण्याब्धे(/धेः) सुन्दरि त्वं प्रसादाद् आयुः प्रजां रयिमस्मासु धेहि ॥ ४४ ॥

कर्णाकर्णय मे तत्त्वं या चिच्छक्तिरितीर्यते ।
त्रिर्वदामि मुमुक्षूणां सा काष्ठा सा परगतिः ॥४५॥

वाग्देवीति त्वां वदन्त्यम्ब केचित् लक्ष्मीर्गौरीत्येवमन्ये वदन्ति ।
शश्वन्मातः प्रत्यगद्वैतरूपां शंसन्ति केचिन्निविदो जनाः ॥४६॥

ललितेति सुधापूरमाधुरीचोरमम्बिके ।
तव नामास्ति यत्तेन जिह्वा मे मधुमत्तमा ॥४७॥

ये संपन्नाः साधनैस्तैश्चतुर्भिः शुश्रूषाभिर्देशिकं प्रीणयन्ति ।
सम्यग् विद्वान् शुद्धसत्त्वान्तराणां तेषामेवैतां ब्रह्मविद्यां वदेत ॥४८॥

अभिचारादिभिः कृत्यां यः प्रेरयति मय्युमे ।
तव हुंकारसंत्रस्ता प्रत्यक्कर्तारमृच्छतु ॥४९॥

जगत्पवित्रि मामिकाम् अपाहराशु दुर्ज्जराम् ।
प्रसीद मे दयाधुने(/नि) प्रशस्तिमम्ब नस्कृधि ॥५०॥

कदम्बारुणमम्बाया रूपं चिन्तय चित्त मे ।
मुञ्च पापीयसीं निष्ठां मा गृधः कस्य स्विद्धनम् ॥५१॥

भण्डभण्डनलीलायां रक्तचन्दनपङ्किलः ।
अङ्कुशस्तव तं हन्याद्यश्च नो द्वे(/द्वि)षते जनः ॥५२॥

रे रे चित्त त्वं वृथा शोकसिन्धौ मज्जस्यन्तर्वच्म्युपायं विमुक्त्यै ।
देव्याः पादौ पूजयैकाक्षरेण तत्ते पदं संग्रहेण ब्रवीम्योम् ॥५३॥

चञ्चद्बालातपज्योत्स्नाकलामण्डलशालिने ।
ऐक्षवाय नमो मातर्बाहुभ्यां तव धन्वने ॥५४॥

तामेवाद्यां ब्रह्मविद्यामुपासे मूर्तैर्वेदैः स्तूयमानां भवानीम् ।
हन्त स्वात्मत्त्वेन यां मुक्तिकामो मत्वा धीरो हर्षशोकौ जहाति ॥५५॥

शरणं करवाण्यम्ब चरणं तव सुन्दरि ।
शपे त्वत्पादुकाभ्यां मे नान्यः पन्था अयनाय ॥५६॥

रत्नच्छत्रैश्चामरैर्दर्पणाद्यैः चक्रेशानीं सर्वदोपचारयन्त्यः ।
योगिन्योऽन्याः शक्तयश्चाणिमाद्याः यूयं पात स्वस्तिभिः सदा नः ॥५७॥

दरिद्रं मां विजानीहि सर्वज्ञासि यतः शिवे ।
दूरीकृत्याशु दुरितम् अथ नो वर्धया रयिम् ॥५८॥

महेश्वरि महामन्त्रकूटत्रयकलेबरे ।
कादिविद्याक्षरश्रेणीमुशन्तस्त्वा हवामहे ॥५९॥

मूलाधारादूर्ध्वमन्तश्चरन्तीं भित्त्वा ग्रन्थीन्मूर्ध्नि निर्यत्सुधार्द्राम् ।
पश्यन्तस्त्वां ये च तृप्तिं लभन्ते तेषां शान्तिः शाश्वती नेतरेषाम् ॥ ६०॥

मह्यं द्रुह्यन्ति ये मातः त्वद्ध्यानासक्तचेतसे ।
तानंब सायकैरेभिः अव ब्रह्मद्विषो जहि ॥६१॥

त्वद्भक्तानामम्ब शान्तैषणानां ब्रह्मिष्ठानां दृष्टिपातेन पूतः ।
पापीयानप्यावृतः स्वर्वधूभिः शोकातिगो मोदते स्वर्गलोके ॥६२॥

सन्तु विद्या जगत्यस्मिन् संसारभ्रमहेतवः ।
भजेऽहं त्वां यया विद्वान् विद्ययाऽमृतमश्नुते ॥६३॥

विद्वन्मुख्यैः विद्रुमाभं विशाल-श्रोणीशिञ्जन्मेखलाकिङ्किणीकम् ।
चन्द्रोत्तंसं चिन्मयं वस्तु किञ्चिद् विद्धि त्वमेतन्निहितं गुहायाम् ॥६४॥

न विस्मरामि चिन्मूर्त्तिमिक्षुकोदण्डशालिनीम् ।
मुनयः सनकप्रेष्ठास्तामाहुः परमां गतिम् ॥६५॥

चक्षुःप्रेङ्खत्प्रेमकारुण्यधारां हंस(?)ज्योत्स्नापूरहृष्यच्चकोराम् ।
यामाश्लिष्यन्मोदते देवदेवः सा नो देवी सुहवा शर्म यच्छतु ॥६६॥

मुञ्च वञ्चकतां चित्त पामरं चापि दैवतम् ।
गृहाण पदमम्बाया एतदालम्बनं परम् ॥६७॥

का मे भीतिः का क्षतिः किं दुरापं कामेशाङ्कोत्तुङ्गपर्यङ्कसंस्थाम् ।
तत्त्वातीतामच्युतानन्ददात्रीं देवीमहं निर्ऋतिं वन्दमानः ॥६८॥

चिन्तामणिमयोत्तंसकान्तिकञ्चुकितानने ।
ललिते त्वां सकृन्नत्वा न बिभेति कुतश्चन ॥६९॥

तारुण्योत्तुङ्गितकुचे लावण्योल्लासितेक्षणे ।
तवाज्ञयैव कामाद्या मास्मान्प्रापन्नरातयः ॥७०॥

आकर्णाकृष्टकामास्त्रसञ्जातं तापमम्ब मे ।
आचामतु कटाक्षस्ते पर्जन्यो वृष्टिमानिव ॥७१॥

कुर्वे गर्वेणापचारानपारान् यद्यप्यम्ब त्वत्पदाब्जं तथापि ।
मन्ये धन्ये देवि विद्यावलम्बं मातेव पुत्रं बिभृतास्वेनम् ॥७२॥

यथोपास्तिक्षतिर्न स्यात्तव चक्रस्य सुन्दरि ।
कृपया कुरु कल्याणि तथा मे स्वस्तिरायुषि(/षी) ॥७३॥

चक्रं सेवे तावकं सर्वसिद्ध्यै श्रीमन्मातः सिद्धयश्चाणिमाद्याः ।
नित्या मुद्रा शक्तयश्चाङ्गदेव्यो यस्मिन्देवा अधि विश्वे निषेदुः ॥७४॥

सुकुमारे सुखाकारे सुनेत्रे सूक्ष्ममध्यमे ।
सुप्रसन्ना भव शिवे सुमृडीका सरस्वती ॥७५॥

विद्युद्वल्लीकन्दलीं कल्पयन्तीं मूर्त्तिं स्फूर्त्या पङ्कजं धारयन्तीम् ।
ध्यायन् हि त्वां जायते सार्वभौमो विश्वा आशाः पृतनाः सञ्जयञ्जयन् ॥७६॥

अविज्ञाय परां शक्तिमात्मभूतां महेश्वरीम् ।
अहो पतन्ति निरयेषु ये के चात्महनो जनाः ॥७७॥

सिन्दूराभैस्सुन्दरैरंशुबृन्दैः लाक्षालक्ष्म्यां मज्जयन्तीं जगन्ति ।
हेरम्बाम्ब त्वां हृदा लंबते यः तस्मै विशः स्वयमेवानमन्ते ॥७८॥

तव तत्त्वं विमृशतां प्रत्यगद्वैतलक्षणम् ।
चिदानन्दघनादन्यन्नेह नानास्ति किंचन ॥७९॥

कण्ठात्कुण्डलिनीं नीत्वा सहस्रारं शिवे तव ।
न पुनर्जायते गर्भे सुमेधा अमृतोक्षितः ॥८०॥

त्वत्पादुकानुसंधानप्राप्तसर्वात्मतादृशि ।
पूर्णाहंकृतिमत्यस्मिन्न कर्म लिप्यते नरे ॥८१॥

तवानुग्रहनिर्भिन्नहृदयग्रन्थिरद्रिजे ।
स्वात्मत्वेन जगन्मत्त्वा ततो न विजुगुप्सते ॥८२॥

कदा वसुदलोपेते त्रिकोणनवकान्विते ।
आवाहयामि चक्रे त्वां सूर्याभां श्रियमैश्वरीम् ॥८३॥

ह्रीमित्येकं तावकं वाचकार्णं यज्जिह्वाग्रे देवि जागर्ति किञ्चित् ।
को वायं स्यात्कामकामस्त्रिलोक्यां सर्वेऽस्मै देवाः बलिमावहन्ति ॥८४॥

नाकस्त्रीणां किन्नरीणां नृपाणाम् अप्याकर्षि चेतसा चिन्तनीयम् ।
त्वत्पाणिस्थं कुङ्कुमाभं शिवे यं द्विष्मस्तस्मिन्प्रतिमुञ्चामि पाशम् ॥८५॥

नूनं सिंहासनेश्वर्यास्तवाज्ञां शिरसा वहन् ।
भयेन पवमानोऽयं सर्वा दिशोऽनुविधावति ॥८६॥

त्रिक(/का)लाढ्यां त्रिहृल्लेखां द्विहंसस्वरभूषिताम् ।
यो जपत्यम्ब ते विद्यां सोऽक्षरः परमः स्वराट् ॥८७॥

दारिद्र्याब्धौ देवि मग्नोऽपि शश्वद् वाचा याचे नाहमम्ब त्वदन्यम् ।
तस्मादस्मद्वाञ्छितं पूरयैतद् उषासानक्ता सुदुघेव धेनुः ॥८८॥

यो वा यद्यत्कामनाकृष्टचित्तः स्तुत्वोपास्ते देवि ते चक्रविद्याम् ।
कल्याणानामालयः कालयोगात् तं तं लोकं जयते तांश्च कामान् ॥८९॥

साधकस्सततं कुर्यादैक्यं श्रीचक्रदेहयोः ।
तथा देव्यात्मनोरैक्यम् एतावदनुशासनम् ॥९०॥

हस्ताम्भोजप्रोल्लसच्चामराभ्यां श्रीवाणीभ्यां पार्श्वयोर्वीज्यमानाम्।
श्रीसाम्राज्ञि त्वां सदालोकयेयं सदा सद्भिः सेव्यमानां निगूढाम् ॥९१॥

इष्टानिष्टप्राप्तिविच्छित्तिहेतुः स्तोतुं वाचां कॢप्तिरित्येव मन्ये ।
त्वद्रूपं हि स्वानुभूत्यैकवेद्यं न चक्षुषा गृह्यते नापि वाचा ॥९२॥

हरस्वरैश्चतुर्वर्गपदं मन्त्रं सबिन्दुकम् ।
देव्या जपत विप्रेन्द्रा अन्या वाचो विमुञ्चथ ॥९३॥

यस्ते राकाचन्द्रबिम्बासनस्थां पीयूषाब्धिं कल्पयन्तीं मयूखैः ।
मूर्त्तिं भक्त्या ध्यायते हृत्सरोजे न तस्य रोगो न जरा न मृत्युः ॥९४ ॥

तुभ्यं मातर्योऽञ्जलिं मूर्ध्नि धत्ते मौलिश्रेण्या भूभुजस्तं नमन्ति ।
यः स्तौति त्वामम्ब चिद्वल्लिवाचा(?) तं धीरासः कवय उन्नयन्ति ॥९५॥

वैरिञ्चौ(/ञ्चो)घैर्विष्णुरुद्रेन्द्रबृन्दैः दुर्गाकालीभैरवीशक्तिसङ्घैः ।
यन्त्रेशि त्वं वर्तसे स्तूयमाना न तत्र सूर्यो भाति न चन्द्रतारकम् ॥९६॥

भूत्यै भवानि त्वां वन्दे सुराः शतमखादयः ।
त्वामानम्य समृद्धाः स्युः आ ये धामानि दिव्यानि ॥९७॥

पुष्पवत्फुल्लताटङ्कां प्रातरादित्यपाटलाम् ।
यस्त्वामन्तः स्मरत्यम्ब तस्य देवा असन्वशे ॥९८॥

वश्ये विद्रुमसङ्काशां विद्यायां विशदप्रभाम् ।
त्वामम्ब भावयेद्भूत्यै सुवर्णां हेममालिनीम् ॥९९॥

वामाङ्क(/ङ्ग)गस्थामीशितुर्दीप्यमानां भूषाबृन्दैरिन्दुरेखावतंसाम् ।
यस्त्वां पश्यन् सन्ततं(/सततं) नैव तृप्तः तस्मै च देवि वषडस्तु तुभ्यम् ॥१००॥

नवनीपवनीवासलालसोत्तम(/र)मानसे ।
शृङ्गारदेवते मातः श्रियं वासय मे कुले ॥१०१॥

भक्त्याऽभक्त्या वापि पद्यावसान-श्रुत्या स्तुत्या चैतया स्तौति यस्त्वाम् ।
तस्य क्षिप्रं त्वत्प्रसादेन मातः सत्याः सन्तु यजमानस्य कामाः ॥१०२॥

बालिशेन मया प्रोक्तमपि वात्सल्यशालिनोः ।
आनन्दमादिमदम्पत्योरिमा वर्धन्तु वाङ्गिरः ॥१०३॥

माधुरीसौरभावासचापसायकधारिणीम् ।
देवीं ध्यायन् पठेदेतत्सर्वकामार्थसिद्धये ॥१०४॥

स्तोत्रमेतत्प्रजपतस्तव त्रिपुरसुन्दरि ।
अनुद्वीक्ष्य भयाद्दूरं मृत्युर्धावति पञ्चमः ॥१०५॥

यः पठति स्तुतिमेतां विद्यावन्तं तमम्ब धनवन्तम् ।
कुरु देवि यशस्वन्तं वर्चस्वन्तं मनुष्येषु ॥१०६॥

ये शृण्वन्ति स्तुतिमिमां तव देव्यनसूयकाः ।
तेभ्यो देहि श्रियं विद्यामुद्वर्च‍म् उत्तनूबलम् ॥१०७॥

त्वामेवाहं स्तौमि नित्यं प्रणौमि श्रीविद्येशां वच्मि सञ्चिन्तयामि ।
अध्यास्ते या विश्वमाता विराजो हृत्पुण्डरीकं विरजं विशुद्धम् ॥१०८॥

शङ्करेण रचितं स्तवोत्तमं यः पठेज्जगति भक्तिमान्नरः ।
तस्य सिद्धिरतुला भवेद्ध्रुवा सुन्दरी च सततं प्रसीदति ॥१०९॥

यत्रैव यत्रैव मनो मदीयं तत्रैव तत्रैव तव स्वरूपम् ।
यत्रैव यत्रैव शिरो मदीयं तत्रैव तत्रैव पदद्वयं ते ॥११०॥

॥ श्रीशङ्करभवत्पादविरचितं त्रिपुरसुन्दरीवेदपादस्तोत्रम् ॥
 श्री तुलसी स्तोत्रम्‌ ||


जगद्धात्रि नमस्तुभ्यं विष्णोश्च प्रियवल्लभे ।
यतो ब्रह्मादयो देवाः सृष्टिस्थित्यन्तकारिणः ॥१॥

नमस्तुलसि कल्याणि नमो विष्णुप्रिये शुभे ।
नमो मोक्षप्रदे देवि नमः सम्पत्प्रदायिके ॥२॥

तुलसी पातु मां नित्यं सर्वापद्भ्योऽपि सर्वदा ।
कीर्तितापि स्मृता वापि पवित्रयति मानवम् ॥३॥

नमामि शिरसा देवीं तुलसीं विलसत्तनुम् ।
यां दृष्ट्वा पापिनो मर्त्या मुच्यन्ते सर्वकिल्बिषात् ॥४॥

तुलस्या रक्षितं सर्वं जगदेतच्चराचरम् ।
या विनिहन्ति पापानि दृष्ट्वा वा पापिभिर्नरैः ॥५॥

नमस्तुलस्यतितरां यस्यै बद्ध्वाञ्जलिं कलौ ।
कलयन्ति सुखं सर्वं स्त्रियो वैश्यास्तथाऽपरे ॥६॥

तुलस्या नापरं किञ्चिद् दैवतं जगतीतले ।
यथा पवित्रितो लोको विष्णुसङ्गेन वैष्णवः ॥७॥

तुलस्याः पल्लवं विष्णोः शिरस्यारोपितं कलौ ।
आरोपयति सर्वाणि श्रेयांसि वरमस्तके ॥८॥

तुलस्यां सकला देवा वसन्ति सततं यतः ।
अतस्तामर्चयेल्लोके सर्वान् देवान् समर्चयन् ॥९॥

नमस्तुलसि सर्वज्ञे पुरुषोत्तमवल्लभे ।
पाहि मां सर्वपापेभ्यः सर्वसम्पत्प्रदायिके ॥१०॥

इति स्तोत्रं पुरा गीतं पुण्डरीकेण धीमता ।
विष्णुमर्चयता नित्यं शोभनैस्तुलसीदलैः ॥११॥

तुलसी श्रीर्महालक्ष्मीर्विद्याविद्या यशस्विनी ।
धर्म्या धर्मानना देवी देवीदेवमनःप्रिया ॥१२॥

लक्ष्मीप्रियसखी देवी द्यौर्भूमिरचला चला ।
षोडशैतानि नामानि तुलस्याः कीर्तयन्नरः ॥१३॥

लभते सुतरां भक्तिमन्ते विष्णुपदं लभेत् ।
तुलसी भूर्महालक्ष्मीः पद्मिनी श्रीर्हरिप्रिया ॥१४॥

तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे ।
नमस्ते नारदनुते नारायणमनःप्रिये ॥१५॥

 श्री तुलसी स्तोत्र || 


पापानि यानि रविसूनुपटस्थितानि गोब्रह्मबालपितृमातृवधादिकानि।

नश्यन्ति तानि तुलसीवनदर्शनेन गोकोटिदानसदृशं फलमाशु च स्यात् ॥१॥


या दृष्टा निखिलाघसंघशमनी स्पृष्टा वपुः पावनी रोगाणामभिवन्दिता निरसनी सिक्ताऽन्तकत्रासिनी।

प्रत्यासक्तिविधायिनी भगवतः कृष्णस्य संरोपिता न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः ॥२॥


ललाटे यस्य दृश्येत तुलसीमूलमृत्तिका यमस्तं ।

नेक्षितुं शक्तः किमु दूता भयङ्कराः ॥३॥


तुलसीकाननं यत्र यत्र पद्मवनानि च।

वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः॥४॥


पुष्कराद्यानि तीर्थानि गंगाद्याः सरितस्तथा।

वासुदेवादयो देवाः वसन्ति तुलसीवने ॥५॥


तुलसि श्रीसखि शुभे पापहारिणि पुण्यदे।

नमस्ते नारदनुते नारायणमनःप्रिये ॥६॥


 बुध अष्टोत्तर शतनामावली || 


ॐ बुधाय नमः ।
ॐ बुधार्चिताय नमः ।
ॐ स्ॐयाय नमः ।
ॐ स्ॐयचित्ताय नमः ।
ॐ शुभप्रदाय नमः ।
ॐ दृढव्रताय नमः ।
ॐ दृढफलाय नमः ।
ॐ श्रुतिजालप्रबॊधकाय नमः ।
ॐ सत्यवासाय नमः ।
ॐ सत्यवचसॆ नमः ॥ १० ॥

ॐ श्रॆयसांपतयॆ नमः ।
ॐ अव्ययाय नमः ।
ॐ सॊमजाय नमः ।
ॐ सुखदाय नमः ।
ॐ श्रीमतॆ नमः ।
ॐ सॊमवंशप्रदीपकाय नमः ।
ॐ वॆदविदॆ नमः ।
ॐ वॆदतत्वज्ञाय नमः ।
ॐ वॆदांतज्ञानभास्कराय नमः ।
ॐ विद्याविचक्षणाय नमः ॥ २० ॥

ॐ विदूषॆ नमः ।
ॐ विद्वत्प्रीतिकराय नमः ।
ॐ ऋजवॆ नमः ।
ॐ विश्वानुकूलसंचारिणॆ नमः ।
ॐ विशॆषविनयान्विताय नमः ।
ॐ विविधागमसारज्ञाय नमः ।
ॐ वीर्यावतॆ नमः ।
ॐ विगतज्वराय नमः ।
ॐ त्रिवर्गफलदाय नमः ।
ॐ अनंताय नमः ॥ ३० ॥

ॐ त्रिदशाधिपपूजिताय नमः ।
ॐ बुद्धिमतॆ नमः ।
ॐ बहुशास्त्रज्ञाय नमः ।
ॐ बलिनॆ नमः ।
ॐ बंधविमॊचकाय नमः ।
ॐ वक्रातिवक्रगमनाय नमः ।
ॐ वासवाय नमः ।
ॐ वसुधाधिपाय नमः ।
ॐ प्रसन्नवदनाय नमः ।
ॐ वंद्याय नमः ॥ ४० ॥

ॐ वरॆण्याय नमः ।
ॐ वाग्विलक्षणाय नमः ।
ॐ सत्यवतॆ नमः ।
ॐ सत्यसंकल्पाय नमः ।
ॐ सत्यसंधाय नमः ।
ॐ सदादराय नमः ।
ॐ सर्वरॊगप्रशमनाय नमः ।
ॐ सर्वमृत्युनिवारकाय नमः ।
ॐ वाणिज्यनिपुणाय नमः ।
ॐ वश्याय नमः ॥ ५० ॥

ॐ वातांगिनॆ नमः ।
ॐ वातरॊगहृतॆ नमः ।
ॐ स्थूलाय नमः ।
ॐ स्थैर्यगुणाध्यक्षाय नमः ।
ॐ स्थूलसूक्ष्मादिकारणाय नमः ।
ॐ अप्रकाशाय नमः ।
ॐ प्रकाशात्मनॆ नमः ।
ॐ घनाय नमः ।
ॐ गगनभूषणाय नमः ।
ॐ विधिस्तुत्याय नमः ॥ ६० ॥

ॐ विशालाक्षाय नमः ।
ॐ विद्वज्जनमनॊहराय नमः ।
ॐ चारुशीलाय नमः ।
ॐ स्वप्रकाशाय नमः ।
ॐ चपलाय नमः ।
ॐ चलितॆंद्रियाय नमः ।
ॐ उदन्मुखाय नमः ।
ॐ मुखासक्ताय नमः ।
ॐ मगधाधिपतयॆ नमः ।
ॐ हरयॆ नमः ॥ ७० ॥

ॐ स्ॐयवत्सरसंजाताय नमः ।
ॐ सॊमप्रियकराय नमः ।
ॐ महतॆ नमः ।
ॐ सिंहादिरूढाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ शिखिवर्णाय नमः ।
ॐ शिवंकराय नमः ।
ॐ पीतांबराय नमः ।
ॐ पीतवपुषॆ नमः ।
ॐ पीतच्छत्रध्वजांकिताय नमः ॥ ८० ॥

ॐ खड्गचर्मधराय नमः ।
ॐ कार्यकर्त्रॆ नमः ।
ॐ कलुषहारकाय नमः ।
ॐ आत्रॆयगॊत्रजाय नमः ।
ॐ अत्यंतविनयाय नमः ।
ॐ विश्वपावनाय नमः ।
ॐ चांपॆयपुष्पसंकाशाय नमः ।
ॐ चरणाय नमः ।
ॐ चारुभूषणाय नमः ।
ॐ वीतरागाय नमः ॥ ९० ॥

ॐ वीतभयाय नमः ।
ॐ विशुद्धकनकप्रभाय नमः ।
ॐ बंधुप्रियाय नमः ।
ॐ बंधमुक्ताय नमः ।
ॐ बाणमंडलसंश्रिताय नमः ।
ॐ अर्कॆशानप्रदॆशस्थाय नमः ।
ॐ तर्कशास्त्रविशारदाय नमः ।
ॐ प्रशांताय नमः ।
ॐ प्रीतिसंयुक्ताय नमः ।
ॐ प्रियकृतॆ नमः ॥ १०० ॥

ॐ प्रियभाषणाय नमः ।
ॐ मॆधाविनॆ नमः ।
ॐ माधवासक्ताय नमः ।
ॐ मिथुनाधिपतयॆ नमः ।
ॐ सुधियॆ नमः ।
ॐ कन्याराशिप्रियाय नमः ।
ॐ कामप्रदाय नमः ।
ॐ घनफलाशाय नमः ॥ १०८ ॥

॥ इति बुधाष्टॊत्तर शतनामावळिः संपूर्णम्‌ ॥
 बुध अष्टोत्तर शतनामावली स्तोत्रम् -

बुधो बुधार्चितः सौम्यः सौम्यचित्तः शुभप्रदः ।



दृढव्रतो दृढबल श्रुतिजालप्रबोधकः ॥ १॥
सत्यवासः सत्यवचा श्रेयसाम्पतिरव्ययः ।
सोमजः सुखदः श्रीमान् सोमवंशप्रदीपकः ॥ २॥
वेदविद्वेदतत्त्वज्ञो वेदान्तज्ञानभास्करः ।
विद्याविचक्षण विदुर् विद्वत्प्रीतिकरो ऋजः ॥ ३॥
विश्वानुकूलसञ्चारी विशेषविनयान्वितः ।
विविधागमसारज्ञो वीर्यवान् विगतज्वरः ॥ ४॥


त्रिवर्गफलदोऽनन्तः त्रिदशाधिपपूजितः ।
बुद्धिमान् बहुशास्त्रज्ञो बली बन्धविमोचकः ॥ ५॥
वक्रातिवक्रगमनो वासवो वसुधाधिपः ।
प्रसादवदनो वन्द्यो वरेण्यो वाग्विलक्षणः ॥ ६॥
सत्यवान् सत्यसंकल्पः सत्यबन्धिः सदादरः ।
सर्वरोगप्रशमनः सर्वमृत्युनिवारकः ॥ ७॥
वाणिज्यनिपुणो वश्यो वातांगी वातरोगहृत् ।
स्थूलः स्थैर्यगुणाध्यक्षः स्थूलसूक्ष्मादिकारणः ॥ ८॥
अप्रकाशः प्रकाशात्मा घनो गगनभूषणः ।
विधिस्तुत्यो विशालाक्षो विद्वज्जनमनोहरः ॥ ९॥
चारुशीलः स्वप्रकाशो चपलश्च जितेन्द्रियः ।
उदऽग्मुखो मखासक्तो मगधाधिपतिर्हरः ॥ १०॥
सौम्यवत्सरसञ्जातः सोमप्रियकरः सुखी ।
सिंहाधिरूढः सर्वज्ञः शिखिवर्णः शिवंकरः ॥ ११॥
पीताम्बरो पीतवपुः पीतच्छत्रध्वजांकितः ।
खड्गचर्मधरः कार्यकर्ता कलुषहारकः ॥ १२॥


आत्रेयगोत्रजोऽत्यन्तविनयो विश्वपावनः ।
चाम्पेयपुष्पसंकाशः चारणः चारुभूषणः ॥ १३॥
वीतरागो वीतभयो विशुद्धकनकप्रभः ।
बन्धुप्रियो बन्धयुक्तो वनमण्डलसंश्रितः ॥ १४॥
अर्केशानप्रदेषस्थः तर्कशास्त्रविशारदः ।
प्रशान्तः प्रीतिसंयुक्तः प्रियकृत् प्रियभाषणः ॥ १५॥
मेधावी माधवासक्तो मिथुनाधिपतिः सुधीः ।
कन्याराशिप्रियः कामप्रदो घनफलाश्रयः ॥ १६॥
बुधस्येवम्प्रकारेण नाम्नामष्टोत्तरं शतम् ।
सम्पूज्य विधिवत्कर्ता सर्वान्कामानवाप्नुयात् ॥ १७॥
॥ इति बुध अष्टोत्तरशतनामस्तोत्रम् ॥
 श्री वेंकटेश अष्टोत्तर शतनामावली 


ॐ श्री वेङ्कटेशाय नमः
ॐ श्रीनिवासाय नमः
ॐ लक्ष्मिपतये नमः
ॐ अनानुयाय नमः
ॐ अमृतांशने नमः
ॐ माधवाय नमः
ॐ कृष्णाय नमः
ॐ श्रीहरये नमः
ॐ ज्ञानपञ्जराय नमः
ॐ श्रीवत्स वक्षसे नमः
ॐ जगद्वन्द्याय नमः
ॐ गोविन्दाय नमः
ॐ शाश्वताय नमः
ॐ प्रभवे नमः
ॐ शेशाद्रिनिलायाय नमः
ॐ देवाय नमः
ॐ केशवाय नमः
ॐ मधुसूदनाय नमः
ॐ अमृताय नमः
ॐ विष्णवे नमः
ॐ अच्युताय नमः
ॐ पद्मिनीप्रियाय नमः
ॐ सर्वेशाय नमः
ॐ गोपालाय नमः
ॐ पुरुषोत्तमाय नमः
ॐ गोपीश्वराय नमः


ॐ परञ्ज्योतिषे नमः
ॐ व्तेकुण्ठ पतये नमः
ॐ अव्ययाय नमः
ॐ सुधातनवे नमः
ॐ याद वेन्द्राय नमः
ॐ नित्य यौवनरूपवते नमः
ॐ निरञ्जनाय नमः
ॐ विराभासाय नमः
ॐ नित्य तृप्त्ताय नमः
ॐ धरापतये नमः
ॐ सुरपतये नमः
ॐ निर्मलाय नमः
ॐ देवपूजिताय नमः
ॐ चतुर्भुजाय नमः
ॐ चक्रधराय नमः
ॐ चतुर्वेदात्मकाय नमः
ॐ त्रिधाम्ने नमः
ॐ त्रिगुणाश्रयाय नमः
ॐ निर्विकल्पाय नमः
ॐ निष्कलङ्काय नमः
ॐ निरान्तकाय नमः
ॐ आर्तलोकाभयप्रदाय नमः
ॐ निरुप्रदवाय नमः
ॐ निर्गुणाय नमः
ॐ गदाधराय नमः
ॐ शार्ञ्ङपाणये नमः
ॐ नन्दकिनी नमः
ॐ शङ्खदारकाय नमः
ॐ अनेकमूर्तये नमः
ॐ अव्यक्ताय नमः
ॐ कटिहस्ताय नमः
ॐ वरप्रदाय नमः
ॐ अनेकात्मने नमः
ॐ दीनबन्धवे नमः
ॐ जगद्व्यापिने नमः
ॐ आकाशराजवरदाय नमः
ॐ योगिहृत्पद्शमन्दिराय नमः
ॐ दामोदराय नमः
ॐ जगत्पालाय नमः
ॐ पापघ्नाय नमः
ॐ भक्तवत्सलाय नमः
ॐ त्रिविक्रमाय नमः
ॐ शिंशुमाराय नमः
ॐ जटामकुट शोभिताय नमः
ॐ शङ्ख मद्योल्ल सन्मञ्जु किङ्किण्याढ्य नमः
ॐ कारुण्डकाय नमः
ॐ नीलमोघश्याम तनवे नमः
ॐ बिल्वपत्त्रार्चन प्रियाय नमः
ॐ जगत्कर्त्रे नमः
ॐ जगत्साक्षिणे नमः
ॐ जगत्पतये नमः
ॐ चिन्तितार्ध प्रदायकाय नमः
ॐ जिष्णवे नमः
ॐ दाशार्हाय नमः
ॐ दशरूपवते नमः
ॐ देवकी नन्दनाय नमः
ॐ शौरये नमः
ॐ हयरीवाय नमः
ॐ जनार्धनाय नमः
ॐ कन्याश्रणतारेज्याय नमः
ॐ पीताम्बरधराय नमः
ॐ अनघाय नमः
ॐ वनमालिने नमः
ॐ पद्मनाभाय नमः
ॐ मृगयासक्त मानसाय नमः
ॐ अश्वरूढाय नमः
ॐ खड्गधारिणे नमः
ॐ धनार्जन समुत्सुकाय नमः
ॐ घनतारल सन्मध्यकस्तूरी तिलकोज्ज्वलाय नमः
ॐ सच्चितानन्दरूपाय नमः
ॐ जगन्मङ्गल दायकाय नमः
ॐ यज्ञभोक्रे नमः
ॐ चिन्मयाय नमः
ॐ परमेश्वराय नमः
ॐ परमार्धप्रदायकाय नमः
ॐ शान्ताय नमः
ॐ श्रीमते नमः
ॐ दोर्दण्ड विक्रमाय नमः
ॐ परब्रह्मणे नमः
ॐ श्रीविभवे नमः
ॐ जगदीश्वराय नमः
ॐ आलिवेलु मङ्गा सहित वेङ्कटेश्वराय नमः
श्री वेङ्कटेश्वर शतनामावली स्तोत्रम || 

श्री वेङ्कटेशः श्रीनिवासो लक्ष्मीपतिरनामयः
अमृतांशो जगद्वन्द्योगोविन्दश्शाश्वतः
प्रभुं शेषाद्रि निलयो देवः केशवो मधुसूदनः ।

अमृतोमाधवः कृष्णं श्रीहरिर्ज्ञानपञ्जर ॥ १॥

श्री वत्सवक्षसर्वेशो गोपालः पुरुषोत्तमः ।
गोपीश्वरः परञ्ज्योतिर्वैकुण्ठ पतिरव्ययः ॥ २॥

सुधातनर्यादवेन्द्रो नित्ययौवनरूपवान् ।
चतुर्वेदात्मको विष्णु रच्युतः पद्मिनीप्रियः ॥ ३॥

धरापतिस्सुरपतिर्निर्मलो देवपूजितः ।
चतुर्भुज श्चक्रधर स्त्रिधामा त्रिगुणाश्रयः ॥ ४॥

निर्विकल्पो निष्कळङ्को निरान्तको निरञ्जनः ।
निराभासो नित्यतृप्तो निर्गुणोनिरुपद्रवः ॥ ५॥

गदाधर शार्ङ्गपाणिर्नन्दकी शङ्खधारकः ।
अनेकमूर्तिरव्यक्तः कटिहस्तो वरप्रदः ॥ ६॥

अनेकात्मा दीनबन्धुरार्तलोकाभयप्रदः ।
आकाशराजवरदो योगिहृत्पद्म मन्दिरः ॥ ७॥

दामोदरो जगत्पालः पापघ्नोभक्तवत्सलः ।
त्रिविक्रमशिंशुमारो जटामकुटशोभितः ॥ ८॥

शङ्खमध्योल्लसन्मञ्जूकिङ्किण्याध्यकरन्दकः ।
नीलमेघश्यामतनुर्बिल्वपत्रार्चन प्रियः ॥ ९॥

जगद्व्यापी जगत्कर्ता जगत्साक्षी जगत्पतिः ।
चिन्तितार्थप्रदो जिष्णुर्दाशरथे दशरूपवान् ॥ १०॥

देवकीनन्दन शौरि हयग्रीवो जनार्धनः ।
कन्याश्रवणतारेज्य पीताम्बरोनघः ॥ ११॥

वनमालीपद्मनाभ मृगयासक्त मानसः ।
अश्वारूढं खड्गधारीधनार्जन समुत्सुकः ॥ १२॥

घनसारसन्मध्यकस्तूरीतिलकोज्ज्वलः ।
सच्चिदानन्दरूपश्च जगन्मङ्गळदायकः ॥ १३॥

यज्ञरूपो यज्ञभोक्ता चिन्मयः परमेश्वरः ।
परमार्थप्रद श्शान्तश्श्रीमान् दोर्धण्ड विक्रमः ॥ १४॥

परात्परः परब्रह्मा श्रीविभुर्जगदीश्वरः ।
एवं श्री वेङ्कटेशस्यनाम्नां अष्टोत्तरं शतम् ॥ १५॥

पठ्यतां शृण्वतां भक्त्या सर्वाभीष्ट प्रदं शुभम् ।
 
 श्री वेंकटेश्वर स्तोत्र ||


कमलाकुचचूचुककुङ्कुमतो नियतारुणितातुलनीलतनो।
कमलायतलोचन लोकपते विजयी भव वेङ्कटशैलपते ॥१॥

सचतुर्मुखषण्मुखपञ्चमुखप्रमुखाखिलदैवतमौलिमणे।
शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते ॥२॥

अतिवेलतया तव दुर्विषहैरनुवेलकृतैरपराधशतैः।
भरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे ॥३॥

अधिवेङ्कटशैलमुदारमतेर्जनताभिमताधिकदानरतात्।
परदेवतयागदितान्निगमैः कमलादयितान्न परं कलये ॥४॥

कलवेणुरवावशगोपवधूशतकोटियुतात्स्मरकोटिसमात्।
प्रतिवल्लविकाभिमतात्सुखदात् वसुदेवसुतान्न परं कलये ॥५॥

अभिरामगुणाकर दाशरथे जगदेकधनुर्धर धीरमते।
रघुनायक राम रमेश विभो वरदो भव देव दयाजलधे ॥६॥

अवनीतनयाकमनीयकरं रजनीकरचारुमुखांबुरुहम्।
रजनीचरराजतमोमिहिरं महनीयमहं रघुराममये ॥७॥

सुमुखं सुहृदं सुलभं सुखदं स्वनुजं च सुकायममोघशरम् ।
अपहाय रघूद्वहमन्यमहं न कथञ्चन कञ्चन जातु भजे ॥८॥

विना वेङ्कटेशं न नाथो न नाथः सदा वेङ्कटेशं स्मरामि स्मरामि।
अरे वेङ्कटेश प्रसीद प्रसीद प्रियं वेङ्कटेश प्रयच्छ प्रयच्छ ॥९॥

अहं दूरतस्ते पदांभोजयुग्म-प्रणामेच्छयाऽऽगत्य सेवां करोमि।
सकृत्सेवया नित्यसेवाफलं त्वं प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश ॥१०॥

अज्ञानिना मया दोषानशेषान्विहितान् हरे।
क्षमस्व त्वं क्षमस्व त्वं शेषशैलशिखामणे ॥११॥
 श्री वेंकटेश्वर वज्र कवच स्तोत्र || 

मार्कण्डेय उवाच
नारायणं परब्रह्म सर्वकारण कारकं
प्रपद्ये वेङ्कटेशाख्यां तदेव कवचं मम ॥

सहस्रशीर्षा पुरुषो वेङ्कटेशश्शिरो वतु
प्राणेशः प्राणनिलयः प्राणाण् रक्षतु मे हरिः ॥

आकाशराट् सुतानाथ आत्मानं मे सदावतु
देवदेवोत्तमोपायाद्देहं मे वेङ्कटेश्वरः ॥

सर्वत्र सर्वकालेषु मङ्गाम्बाजानिश्वरः
पालयेन्मां सदा कर्मसाफल्यं नः प्रयच्छतु ॥

य एतद्वज्रकवचमभेद्यं वेङ्कटेशितुः 
सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः ॥

 श्री वेंकटेश मंगल स्तोत्र || 


श्रियः कान्ताय कल्याणनिधये निधयेऽर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ १ ॥

लक्ष्मीसविभ्रमालोकसद्मविभ्रमचक्षुषे ।
चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥ २ ॥

श्रीवेङ्कटाद्रिशृङ्गाय मङ्गलाभराणाङ्घ्रये ।
मङ्गलानां निवासाय वेङ्कटेशाय मङ्गलम् ॥ ३ ॥

सर्वावयवसौन्दर्यसंपदा सर्वचेतसाम् ।
सदा सम्मोहनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ४ ॥

नित्याय निरवद्याय सत्यानन्द चिदात्मने ।
सर्वान्तरात्मने श्रीमद् वेङ्कटेशाय मङ्गलम् ॥ ५ ॥

स्वतः सर्वविदे सर्वशक्तये सर्वशेषिणे ।
सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम् ॥ ६ ॥

परस्मै ब्रह्मणे पूर्णकामाय परमात्मने ।
प्रपन्नपरतत्वाय वेङ्कटेशाय मङ्गलम् ॥ ७ ॥

अकालतत्वविश्रान्तावात्मानमनुपश्यताम् ।
अतृप्तामृतरूपाय वेङ्कटेशाय मङ्गलम् ॥ ८ ॥

प्रायः स्वचरणौ पुंसां शरण्यत्वेन पाणिना ।
कृपया दर्शयते श्रीमद् वेङ्कटेशाय मङ्गलम् ॥ ९ ॥

दयामृततरङ्गिण्याः तरङ्गैरतिशीतलैः ।
अपाङ्गैः सिञ्चते विश्वं वेङ्कटेशाय मङ्गलम् ॥ १० ॥

स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये ।
सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गलम् ॥ ११ ॥

श्रीवैकुण्ठविरक्ताय स्वामिपुष्करणीतटे ।
रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥ १२ ॥

श्रीमद् सुन्दरजामातृमुनिमानसवासिने ।
सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम्  ॥ १३ ॥

नमः श्रीवेङ्कटेशाय शुद्धज्ञानस्वरूपिणे ।

 श्री वेंकटेश मङ्गलाष्टक || 

॥ श्रीवेङ्कटेशमङ्गलाष्टकम् ॥


जम्बूद्वीपगशेषशैलभुवनः श्रीजानिराद्यात्मजः,
तार्क्ष्याहीशमुखासनस्त्रिभुवनस्थाशेषलोकप्रियः ।

श्रीमत्स्वामिसरःसुवर्णमुखरीसंवेष्टितः सर्वदा,
श्रीमद्वेङ्कटभूपतिर्मम सुखं दद्यात् सदा मङ्गलम् ॥ १॥

सन्तप्तामलजातरूपरचितागारे निविष्टः सदा,
स्वर्गद्वारकवाटतोरणयुतः प्राकारसप्तान्वितः ।

भास्वत्काञ्चनतुङ्गचारुगरुडस्तम्भे पतत्प्राणिनां,
स्वप्रे वक्ति हिताहितं सुकरुणो दद्यात् सदा मङ्गलम् ॥ २॥

अत्युच्चाद्रिविचित्रगोपुरगणैः पूर्णैः सुवर्णाचलैः,
विस्तीर्णामलमण्टपायुतयुतैर्नानावनैर्निर्भयैः ।

पञ्चास्येभवराहखड्गमृगशार्दूलादिभिः श्रीपतिः,
नित्यं वेदपरायणसुकृतिनां दद्यात् सदा मङ्गलम् ॥ ३॥

भेरीमङ्गलतुर्यगोमुखमृदङ्गादिस्वनैः शोभिते,
तन्त्रीवेणुसुघोषशृङ्गकलहैः शब्दैश्च दिव्यैर्निजैः ।

गन्धर्वाप्सरकिन्नरोरगनृभिर्नृत्यद्भिरासेव्यते,
नानावाहनगः समस्तफलदो दद्यात् सदा मङ्गलम् ॥ ४॥

यः श्रीभार्गववासरे नियमतः कस्तूरिकारेणुभिः,
श्रीमत्कुङ्कुमकेसरामलयुतः कर्पूरमुख्यैर्जलैः ।

स्नातः पुण्यसुकञ्चुकेन विलसत्काञ्चीकिरीटादिभिः,
नानाभूषणपूगशोभिततनुर्दद्यात् सदा मङ्गलम् ॥ ५ ॥

तीर्थं पाण्डवनामकं शुभकरं त्वाकाशगङ्गा परा,
इत्यादीनि सुपुण्यराशिजनकान्यायोजनैः सर्वदा ।

तीर्थं तुम्बुरुनामकं त्वघहरं धारा कुमाराभिधा,
नित्यानन्दनिधिर्महीधरवरो दद्यात् सदा मङ्गलम् ॥ ६॥

आर्तानामतिदुस्तरामयगणैर्जन्मान्तराघैरपि,
सङ्कल्पात् परिशोध्य रक्षति निजस्थानं सदा गच्छताम् ।

मार्गे निर्भयतः स्वनामगृणतो गीतादिभिः सर्वदा,
नित्यं शास्त्रपरायणैः सुकृतिनां दद्यात् सदा मङ्गलम् ॥ ७॥

नित्यं ब्राह्मणपुण्यवर्यवनितापूजासमाराधनैरत्नैः,
पायसभक्ष्यभोज्यसुघृतक्षीरादिभिः सर्वदा ।

नित्यं दानतपःपुराणपठनैराराधिते वेङ्कटक्षेत्रे,
नन्दसुपूर्णचित्रमहिमा दद्यात् सदा मङ्गलम् ॥ ८॥

इत्येतद्वरमङ्गलाष्टकमिदं श्रीवादिराजेश्वरै-,
राख्यातं जगतामभीष्टफलदं सर्वाशुभध्वंसनम् ।

माङ्गल्यं सकलार्थदं शुभकरं वैवाहिकादिस्थले,
तेषां मङ्गलशंसतां सुमनसां दद्यात् सदा मङ्गलम् ॥ ९॥

॥ इति श्रीवादिराजतीर्थश्रीचरणकृतं श्रीवेङ्कटेशमङ्गलाष्टकम् ॥
 श्री वेंकटेश अष्टकम || 

॥ श्रीवेङ्कटेशाष्टकम् ॥


श्रीवेङ्कटेशपदपङ्कज धूलिपङ्क्तिः संसारसिन्धुतरणे तरणिर्नवीना ।
सर्वाघपुञ्जहरणायच धूमकेतुः पायादनन्यशरणं स्वयमेव लोकम् ॥ १॥

शेषाद्रिगेहतव कीर्तितरङ्गपुञ्ज आभूमिनाकमभितःसकलान्पुनानः ।
मत्कर्णयुग्मविवरेपरिगम्य सम्यक् कुर्यादशेषमनिशङ्खलु तापभङ्गम् ॥ २॥

वैकुण्ठराजसकलोऽपि धनेशवर्गो नीतोऽपमानसरणिंत्वयि विश्वसित्रा ।
तस्मादयंन समयः परिहासवाचाम् इष्टंप्रपूर्य कुरु मां कृतकृत्यसङ्घम् ॥ ३॥

श्रीमन्नारास्तुकतिचिद्धनिकांश्च केचित् क्षोणीपतीन्कतिचिदत्रच राजलोकान् ।
आराधयन्तुमलशून्यमहं भवन्तं कल्याणलाभजननायसमर्थमेकम् ॥ ४॥

लक्ष्मीपतित्वमखिलेशतव प्रसिद्धमत्र प्रसिद्धमवनौमदकिञ्चनत्वम् ।
तस्योपयोगकरणायमया त्वया च कार्यः समागमैदं मनसि स्थितं मे ॥ ५॥

शेषाद्रिनाथभवताऽयमहं सनाथः सत्यंवदामि भगवंस्त्वमनाथ एव ।
तस्मात्कुरुष्वमदभीप्सित कृत्यजालम्- एवत्वदीप्सित कृतौ तु भवान्समर्थः ॥ ६॥

क्रुद्धोयदा भवसि तत्क्षणमेव भूपो रङ्कायतेत्वमसि चेत्खलु तोषयुक्तः ।
भूपायतेऽथनिखिलश्रुतिवेद्य रङ्क इच्छाम्यतस्तवदयाजलवृष्टिपातम् ॥ ७॥

अङ्गीकृतंसुविरुदं भगवंस्त्वयेति मद्भक्तपोषणमहंसततं करोमि ।
आविष्कुरुस्वमयि सत्सततं प्रदीने चिन्ताप्रहारमयमेवहियोग्यकालः ॥ ८॥

सर्वासुजातिषु मयातु समत्वमेव निश्चीयतेतव विभो करुणाप्रवाहात् ।
प्रह्लादपाण्डुसुतबल्लव गृघ्रकादौ नीचोन भाति मम कोऽप्यत एव हेतोः ॥ ९॥

सम्भावितास्तुपरिभूतिमथ प्रयान्ति धूर्ताजपं हि कपटैकपरा जगत्याम् ।
प्राप्तेतु वेङ्कटविभो परिणामकाले स्याद्वैपरीत्यमिवकौरवपाण्डवानाम् ॥ १०॥

श्रीवेङ्कटेशतव पादसरोजयुग्मे संसारदुःखशमनाय समर्पयामि ।
भास्वत्सदष्टकमिदं रचितं प्रभाकरोऽहमनिशंविनयेन युक्तः ॥ ११॥

श्रीशालिवाहनशकेशरकाष्टभूमि सङ्ख्यामितेऽथविजयाभिधवत्सरेऽयम् ।
श्रीकेशवात्मजैदं व्यतनोत्समल्पं स्तोत्रम्प्रभाकर इति प्रथिताभिधाना ॥ १२॥

॥ इतिगार्ग्यकुलोत्पन्न यशोदागर्भज-केशवात्मज-प्रभाकर-कृतिषु श्रीवेङ्कटेशाष्टकं स्तोत्रं समाप्तम् ॥
 गजेन्द्र मोक्ष स्तोत्र || 



श्रीशुक उवाच
” एवं व्यवसितो बुद्ध्या समाधाय मनो ह्रदि ।
जजाप परमं जाप्यं प्राक्जन्मन्यनुशिक्षितम् ॥ ” १ ॥

गजेन्द्र उवाच
” ॐ नमो भगवते तस्मै यत एतच्चिदात्मकम् ।
पुरुषायादिबीजाय परेशायाभीधीमहि ॥ ” २ ॥

यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् ।
योऽस्मात्परस्माच्च परस्तं प्रपद्दे स्वयंभुवम् ॥ ३ ॥

यः स्वात्मनीदं निजमाययार्पितम् ।
क्वचिद्विभांतं क्व च तत्तिरोहितम् ।।

अविद्धदृक् साक्ष्युभयम तदीक्षते ।।।
सआत्ममूलोऽवतु मां परात्पतरः ।। ४ ।।

कालेन पंचत्वमितेषु कृत्स्नशो ।
लोकेषु पालेषु च सर्वहेतुषु ।।
तमस्तदा ऽ ऽ सीद् गहनं गभीरम् ।।।

यस्तस्य पारे ऽ भिविराजते विभुः ॥ ५ ॥

न यस्य देवा ऋषयः पदं विदुः ।
जन्तुः पुनः कोऽर्हति गंतुमीरितुम् ।।
यथा नटस्याकृतिभिर्विचेष्टतो ।।।
दुरत्ययानुक्रमणः स माऽवतु ॥ ६ ॥


दिदृक्षवो यस्य पदं सुमंगलम् ।
विमुक्तसंगा मुनयः सुसाधवः ।।
चरंत्यलोकव्रतमव्रणं वने ।।।
भूतात्मभूतः सुह्रदः स मे गतिः ॥ ७ ॥


न विद्यते यस्य च जन्म कर्म वा ।
न नामरुपे गुणदोष एव वा ।।
तथापि लोकाप्ययसंभवाय यः ।।।
स्वमायया तान्यनुकालमृच्छति ॥ ८ ॥

तस्मै नमः परेशाय ब्रह्मणेऽनन्तशक्तये ।
अरुपायोरुरुपाय नम आश्र्चर्य कर्मणे ॥ ९ ॥

नम आत्मप्रदीपाय साक्षिणे परमात्मने ।
नमो गिरां विदूराय मनसश्चेतसामपि ॥ १० ॥

सत्त्वेन प्रतिलभ्याय नैष्कर्म्येण विपश्र्चिता ।
नमः कैवल्यनाथाय निर्वाणसुखसंविदे ॥ ११ ॥

नमः शांताय घोराय मूढाय गुणधर्मिणे ।
निर्विशेषाय साम्याय नमो ज्ञानघनाय च ॥ १२ ॥

क्षेत्रज्ञाय नमस्तुभ्यं सर्वाध्यक्षाय साक्षिणे ।
पुरुषायात्ममूलाय मूलप्रकृतये नमः ॥ १३ ॥

सर्वेन्द्रियगुणद्रष्ट्रे सर्वप्रत्ययहेतवे ।
असताच्छाययोक्ताय सदाभासाय ते नमः ॥ १४ ॥

नमो नमस्तेऽखिल कारणाय ।
निष्कारणायाद्भुत कारणाय ।।
सर्वागमाम्नायमहार्णवाय ।।।
नमोऽपवर्गाय परायणाय ॥ १५ ॥

गुणारणिच्छन्नचिदूष्मपाय ।
तत्क्षोभ-विस्फूर्जितमानसाय ।।
नैष्कर्म्यभावेन विवर्जितागम ।।।
स्वयंप्रकाशाय नमस्करोमि ॥ १६ ॥

मादृक्प्रपन्नपशुपाशविमोक्षणाय ।
मुक्ताय भुरिकरुणाय नमोऽलयाय ।।

स्वांशेनसर्वतनुभृत्मनसि-प्रतीत- ।।।
-प्रत्यग् दृशे भगवते बृहते नमस्ते ॥ १७ ॥

आत्मात्मजाप्तगृहवित्तजनेषु सक्तैः ।
दुष्प्रापणाय गुणसंगविवर्जिताय ।।
मुक्तात्मभिः स्वह्रदये परिभाविताय ।।।
ज्ञानात्मने भगवते नमः ईश्र्वराय ॥ १८ ॥

यं धर्मकामार्थ-विमुक्तिकामाः ।
भजन्त इष्टां गतिमाप्नुवन्ति ।।
किंत्वाशिषो रात्यपि देहमव्ययम् ।।।
करोतु मेऽदभ्रदयो विमोक्षणम् ॥ १९ ॥

एकांतिनो यस्य न कंचनार्थम् ।
वांछन्ति ये वै भगवत् प्रपन्नाः ।।
अत्यद्भुतं तच्चरितं सुमंगलम् ।।।
गायन्त आनन्द समुद्रमग्नाः ॥ २० ॥

तमक्षरं ब्रह्म परं परेशम् ।
अव्यक्तमाध्यात्मिकयोगगम्यम् ।।
अतीन्द्रियं सूक्ष्ममिवातिदूरम् ।।।
अनंतमाद्यं परिपूर्णमिडे ॥ २१ ॥

यस्य ब्रह्मादयो देवा वेदा लोकाश्र्चराचराः ।
नामरुपविभेदेन फल्ग्व्या च कलया कृताः ॥ २२ ॥

यथार्चिषोऽग्ने सवितुर्गभस्तयोः ।
निर्यान्ति संयान्त्यसकृत् स्वरोचिषः ।।
तथा यतोऽयं गुणसंप्रवाहो ।।।
बुद्धिर्मनः ख्रानि शरीरसर्गाः ॥ २३ ॥

स वै न देवासुरमर्त्यतिर्यङ ।
न स्त्री न षंढो न पुमान् न जन्तुः ।।
नायं गुणः कर्म न सन्न चासन् ।।।
निषेधशेषो जयतादशेषः ॥ २४ ॥

जिजी विषे नाहमियामुया किम् ।
अन्तर्बहिश्र्चावृतयेभयोन्या ।।
इच्छामि कालेन न यस्य विप्लवः ।।।
तस्यात्मलोकावरणस्य मोक्षम् ॥ २५ ॥

सोऽहं विश्र्वसृजं विश्र्वमविश्र्वं विश्र्ववेदसम् ।
विश्र्वात्मानमजंब्रह्म प्रणतोऽस्मि परं पदम् ॥ २६ ॥

योगरंधितकर्माणो ह्रदि योग-विभाविते ।
योगिनो यं प्रपश्यति योगेशं तं नतोऽस्म्यहम् ॥ २७ ॥

नमो नमस्तुभ्यमसह्यवेग- ।
-शक्तित्रयायाखिलधीगुणाय ।।
प्रपन्नपालाय दुरन्तशक्तये ।।।
कदिन्द्रियाणामनवाप्यवर्त्मने ॥ २८ ॥

नायं वेद स्वमात्मानं यच्छक्त्याहं धिया हतम् ।
तं दुरत्ययमाहात्म्यं भगवंतमितोऽस्म्यहम् ॥ २९ ॥

श्रीशुक उवाच
एवं गजेन्द्र मुपवर्णितनिर्विशेषम् ।
ब्रह्मादयो विविधलिंग भिदाभिमानाः ।।
नैते यदोपससृपुनिंखिलात्मकत्वात् ।।।
तत्राखिलामरमयो हरिराविरासीत् ॥ ३० ॥

तं तद्वदार्तमुपलभ्य जगन्निवासः ।
स्तोत्रं निशम्य दिविजै सह संस्तुवद्भिः ।।
छंदोमयेन गरुडेन समुह्यमानः ।।।
चक्रायुधोऽभ्यगमदाशु यतो गजेन्द्रः ॥ ३१ ॥

सोऽन्तः सरस्युरुबलेन गृहीत आर्तो ।
दृष्टवा गरुत्मति हरिं ख उपात्तचक्रम् ।।
उत्क्षिप्य साम्बुजकरं गिरमाह कृच्छ्रात् ।।।
नारायणाखिलगुरो भगवन् नमस्ते ॥ ३२ ॥

तं वीक्ष्य पीडितमजः सहसावतीर्य ।
सग्राहमाशु सरसः कृपायोज्जहार ।।
ग्राहाद् विपाटितमुखादरिणा गजेन्द्रम् ।।।
संपश्यतां हरिरमूमुचदुस्त्रियाणाम् ॥ ३३ ॥

योऽसौ ग्राहः स वै सद्यः परमाश्र्चर्य रुपधृक् ।
मुक्तो देवलशापेन हुहु-गंधर्व सत्तमः ।।
सोऽनुकंपित ईशेन परिक्रम्य प्रणम्य तम् ।।।
लोकस्य पश्यतो लोकं स्वमगान्मुक्त-किल्बिषः ॥ ३४ ॥

गजेन्द्रो भगवत्स्पर्शाद् विमुक्तोऽज्ञानबंधनात् ।
प्राप्तो भगवतो रुपं पीतवासाश्र्चतुर्भुजः ।।
एवं विमोक्ष्य गजयुथपमब्जनाभः ।।।
स्तेनापि पार्षदगति गमितेन युक्तः ॥ ३५ ॥

गंधर्वसिद्धविबुधैरुपगीयमान-
कर्माभ्दुतं स्वभवनं गरुडासनोऽगात् ॥ ३६ ॥
॥ इति श्रीमद् भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे गजेंन्द्रमोक्षणे तृतीयोऽध्यायः ॥