Wednesday, March 17, 2021

 
श्री वामन स्तोत्रम् || 
अदितिरुवाच ।


यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद


तीर्थश्रवश्श्रवण मङ्गलनामधेय ।

आपन्नलोकवृजिनोपशमोदाऽऽद्य शं नः
कृधीश भगवन्नसि दीननाथः ॥ १ ॥

विश्वाय विश्वभवनस्थिति सम्यमाय
स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने ।

स्वस्थाय शश्वदुपबृंहितवूर्णबोध-
व्यापादितात्मतमसे हरये नमस्ते ॥ २ ॥


आयुः परं वपुरभीष्टमतुल्यलक्ष्मी-
र्द्यौभूरसास्सकलयोगगुणास्त्रिवर्गः ।

ज्ञानं च केवलमनन्त भवन्ति तुष्टा-
त्त्वत्तो नृणां किमु सपत्नजयादिराशीः ॥ ३ ॥

|| इति श्रीमद्भागवते श्रीवामन स्तोत्रं ||

No comments:

Post a Comment