Tuesday, February 23, 2021

श्री कृष्ण स्तोत्र ||


वन्दे नवघनश्यामं पीतकौशेयवाससं।

सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृतेः परम्॥१॥


राधेशं राधिकाप्राणवल्लभं वल्लवीसुतं।

राधासेवितपादाब्जं राधावक्षःस्थलस्थितम्॥२॥


राधानुगं राधिकेशं राधानुकृतमानसं।

राधाधारं भवाधारं सर्वाधारं नमामि तम्॥३॥


राधाहृत्पद्ममध्ये च वसन्तं सन्ततं शुभं।

राधासहचरं शश्वद्राधाज्ञापरिपालकम् ॥४॥


ध्यायन्ते योगिनो योगात् सिद्धाः सिद्धेश्वराश्च यम्।

तं ध्यायेत् सन्ततं शुद्धं भगवन्तं सनातनम् ॥५॥


सेवने सततं सन्तो ब्रह्मेशशेषसंज्ञकाः।

सेवन्ते निर्गुणब्रह्म भगवन्तं सनातनं॥६॥


निर्लिप्तं च निरीहं च परमानन्दमीश्वरं।

नित्यं सत्यं च परमं भगवन्तं सनातनं॥७॥


यं सृष्टेरादिभूतं च सर्वबीजं परात्परं।

योगिनस्तं प्रपद्यन्ते भगवन्तं सनातनं॥८॥


बीजं नानावताराणां सर्वकारणकारणं।

वेदाऽवेद्यं वेदबीजं वेदकारणकारणम् ॥९॥

No comments:

Post a Comment