Monday, February 22, 2021

॥ श्रीकार्तिकेयाष्टकम् ॥ 


अगस्त्य उवाच-


नमोऽस्तु वृन्दारकवृन्दवन्द्यपादारविन्दाय सुधाकराय ।

षडाननायामितविक्रमाय गौरीहृदानन्दसमुद्भवाय ॥ १ ॥


नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे कर्त्रे समस्तस्य मनोरथानाम् ।

दात्रे रथानां परतारकस्य हन्त्रे प्रचण्डासुरतारकस्य ॥ २ ॥


अमूर्तमूर्ताय सहस्रमूर्तये गुणाय गण्याय परात्पराय ।

अपारपाराय परापराय नमोऽस्तु तुभ्यं शिखिवाहनाय ॥ ३ ॥


नमोऽस्तु ते ब्रह्मविदां वराय दिगम्बरायाम्बरसंस्थिताय ।

हिरण्यवर्णाय हिरण्यबाहवे नमो हिरण्याय हिरण्यरेतसे ॥ ४ ॥


तपः स्वरूपाय तपोधनाय तपः फलानां प्रतिपादकाय ।

सदा कुमाराय हि मारमारिणे तृणीकृतैश्वर्यविरागिणे नमः ॥ ५ ॥


नमोऽस्तु तुभ्यं शरजन्मने विभो प्रभातसूर्यारुणदन्तपङ्क्तये ।

बालाय चाबालपराक्रमाय षाण्मातुरायालमनातुराय ॥ ६ ॥


मीढुष्टमायोत्तरमीढुषे नमो नमो गणानां पतये गणाय ।

नमोऽस्तु ते जन्मजरातिगाय नमो विशाखाय सुशक्तिपाणये ॥ ७ ॥


सर्वस्य नाथस्य कुमारकाय क्रौञ्चारये तारकमारकाय ।

स्वाहेय गाङ्गेय च कार्तिकेय शैवेय तुभ्यं सततं नमोऽस्तु ॥ ८ ॥


॥ इति स्कान्दे काशीखण्डतः श्रीकार्तिकेयाष्टकं सम्पूर्णम् ॥

No comments:

Post a Comment