Saturday, February 20, 2021

।। अथ भैरव तांण्डव स्तोत्र ।।


ॐ चण्डं प्रतिचण्डं करधृतदण्डं कृतरिपुखण्डं सौख्यकरम् ।

लोकं सुखयन्तं विलसितवन्तं प्रकटितदन्तं नृत्यकरम् ।।


डमरुध्वनिशंखं तरलवतंसं मधुरहसन्तं लोकभरम् ।

भज भज भूतेशं प्रकटमहेशं भैरववेषं कष्टहरम् ।।


चर्चित सिन्दूरं रणभूविदूरं दुष्टविदूरं श्रीनिकरम् ।

किँकिणिगणरावं त्रिभुवनपावं खर्प्परसावं पुण्यभरम् ।।


करुणामयवेशं सकलसुरेशं मुक्तशुकेशं पापहरम् ।

भज भज भूतेशं प्रकट महेशं श्री भैरववेषं कष्टहरम् ।।


कलिमल संहारं मदनविहारं फणिपतिहारं शीध्रकरम् ।

कलुषंशमयन्तं परिभृतसन्तं मत्तदृगृन्तं शुद्धतरम् ।।


गतिनिन्दितहेशं नरतनदेशं स्वच्छकशं सन्मुण्डकरम् ।

भज भज भूतेशं प्रकट महेशं श्रीभैरववेशं कष्टहरम् ।।


कठिन स्तनकुंभं सुकृत सुलभं कालीडिँभं खड्गधरम् ।

वृतभूतपिशाचं स्फुटमृदुवाचं स्निग्धसुकाचं भक्तभरम् ।।


तनुभाजितशेषं विलमसुदेशं कष्टसुरेशं प्रीतिनरम् ।

भज भज भूतेशं प्रकट महेशं श्रीभैरववेशं कष्टहरम् ।।


ललिताननचंद्रं सुमनवितन्द्रं बोधितमन्द्रं श्रेष्ठवरम् ।

सुखिताखिललोकं परिगतशोकं शुद्धविलोकं पुष्टिकरम् ।।


वरदाभयहारं तरलिततारं क्ष्युद्रविदारं तुष्टिकरम् ।

भज भज भूतेशं प्रकट महेशं श्रीभैरववेषं कष्टहरम् ।।


सकलायुधभारं विजनविहारं सुश्रविशारं भृष्टमलम् ।

शरणागतपालं मृगमदभालं संजितकालं स्वेष्टबलम् ।।


पदनूपूरसिंजं त्रिनयनकंजं गुणिजनरंजन कुष्टहरम् ।

भज भज भूतेशं प्रकट महेशं श्री भैरव वेषं कष्टहरम् ।।


मदयिँतुसरावं प्रकटितभावं विश्वसुभावं ज्ञानपदम् ।

रक्तांशुकजोषं परिकृततोषं नाशितदोषं सन्मंतिदमम् ।।


कुटिलभ्रकुटीकं ज्वरधननीकं विसरंधीकं प्रेमभरम् ।

भज भज भूतेशं प्रकट महेशं श्रीभैरववेषं कष्टहरम् ।।


परिर्निजतकामं विलसितवामं योगिजनाभं योगेशम् ।

बहुमधपनाथं गीतसुगाथं कष्टसुनाथं वीरेशम् ।।


कलयं तमशेषं भृतजनदेशं नृत्य सुरेशं वीरेशम् ।

भज भज भूतेशं प्रकट महेशं श्रीभैरववेषं कष्टहरम् ।।

No comments:

Post a Comment